श्रीभगवानुवाच

श्रीभगवानुवाच

काम एष क्रोध एष रजोगुणसमुद्भवः ।

महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ।। ३७ ।।

धूमेनाव्रियते वह्निर्यथादर्शो मलेन च ।

यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ।। ३८ ।।

आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।

कामरूपेण कौन्तेय दुष्पूरेणानलेन च ।। ३९ ।।

इन्द्रियाणि मनोबुद्धिरस्याधिष्ठानमुच्यते ।

एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ।। ४० ।।

तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ ।

पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ।। ४१ ।।

तात्पर्यम्

अखिलप्रेरको विष्णुर्ब्रह्माद्यास्तदवान्तराः ।

असुरा अशुभेष्वेव कामदेरभिमानिनः ।

तत्र कामः कालनेमिः सर्वं धूममलोल्बवत् ।

शुभमध्याधमजनं क्रमादावृत्य तिष्ठति ।

महाशनस्य तस्येदं नालं तेनानलोऽग्निवत् ।

भुञ्जान इन्द्रियाविष्टो ज्ञानास्त्रेणैव हन्यत’ इति ब्रह्मतर्के ।

ज्ञानावरणरूपेणेदमावृणोतीत्यावृतं ज्ञानमिति पुनराह । न केवलं दुष्पूरो नालमिति मन्यते चेत्यनलः । ‘अग्नेरप्यनलः कामो यन्नालमिति मन्यत’ इति च ।। ३७ ।।

प्रकाशिका

तदवान्तरा इति ‘‘अखिलप्रेरका ज्ञेयाः’’ ‘‘धूम–मलोल्बवत्’’ इत्येतत् ‘‘धूमेनाव्रियते वह्निर्यथाऽऽदर्शो मलेन च । यथोल्बेनावृतो गर्भं’’ इत्यनेन स्पष्टीकर्तव्यम् ।। ४१ ।।

न्यायदीपिका

काम एष इत्यादि परिहारवाक्यमुक्तार्थे संवादरूपस्मृत्यैव व्याचष्टे ।। अखिलेति ।। तत्रेति काम इत्यस्य व्याख्यानम् । कामः प्रबल इति योज्यम् । अशुभेष्वित्यनेनैव वैरिणमित्येतद्व्याख्यातं भवति । कथं कामो शुभप्रेरकेषु प्रबल इत्यत आह ।। सर्वमिति ।। अग्न्यादर्शगर्भान्यथाधूमाद्यावृणोति तथेत्यर्थः ।। क्रमादिति ।। शुभजनं धूमोग्निमिव किञ्चिदावृणोतीत्यादि द्रष्टव्यम् । कामश्च तदपेक्षितं दत्वा जेतव्य इत्यत आह ।। महाशनस्येति ।। महदपि दीयतामित्यत आह ।। तस्येति ।। अनेन धूमेनेत्यादि व्याख्यातं भवति । तर्हि कथं जेतव्य इत्यत स्तदधिष्ठानं तावदाह ।। भुञ्जान इति ।। एतेनेन्द्रियाणीत्यस्यार्थ उक्तो भवति । अस्त्विदमधिष्ठानं किमायुधं तद्वधायेत्यत आह ।। ज्ञानेति ।। अनेनेन्द्रियाणीत्यादेस्तात्पर्यमुक्तं भवति । ननु धूमेनेतिकामस्य सर्वावरणत्वमुक्तं तत्पुनः किमर्थमावृतमित्युच्यत आह ।। ज्ञानेति ।। पूर्वं ज्ञानोत्पत्तिबन्धकत्वेनावरणत्वं कामस्योक्तं इदानीं तूत्पन्नज्ञानस्यापरोक्षज्ञानसाधनत्वप्रतिबन्धकतया वरणत्वमुच्यतेऽतो न पौनरुक्तयमिति भावः । दुष्पूरेणानलेनेति पुनरुक्तमित्यत आह ।। नकेवलमिति ।। कामो नालमिति मन्यते चेति कुत इत्यत आह ।। अग्नेरिति ।। ३७४१ ।।

किरणावली

काम एष इत्यादिपरिहारवाक्यमिति ।। परिहारवाक्यं स्मृत्यैव व्याचष्ट इत्यन्वयः । स्मृतावधिकं दृश्यत इत्यत उक्तमुक्तार्थे संवादरूपेति । परमेश्वरादित्युक्तार्थेपीत्यर्थः । असुरा अशुभेष्वेवेति मूलस्याशुभेष्वेव विषयेषु प्रवर्तकाः कामादेरभिमानिन इत्यर्थः ।। तत्रेति काम इत्यस्येति ।। काम एष इति श्लोकस्य तत्र कामः कालनेमिरित्ययमंशो व्याख्येत्यर्थः । कामादिषु प्रबलप्रश्नोत्तररूपस्य काम एष इत्यस्य कथमिदं व्याख्या । अत्र कामानुवादेन कालनेमित्वविधानादित्यत आह ।। कामः प्रबल इति योज्यमिति ।। कामः कामाभिमानी कालनेमिः प्रबल इत्यध्याहृत्य योज्यमित्यर्थः ।। अशुभेष्वित्यनेनेति ।। अशुभेषु प्रेरकाः असुरा इत्युक्त्वा तत्राशुभप्रेरकेष्वसुरेषु मध्ये कामः कालनेमिः प्रबल इति निर्धारणेन विद्ध्येनमिह वैरिणमिति गीतावाक्ये इहाशुभप्रवर्तकेष्वसुरेषु मध्ये एनं वैरिणं विद्धीत्युक्त इति वैरित्वं विवृतं भवतीर्थः । सर्वमित्यस्यार्थोग्न्यादर्श गर्भानिति ।। अनेन धूमेनेत्यादीति ।। क्रमादावृत्य तिष्ठतीत्यनेन धूमेनेति श्लोकः महाशनस्येत्यनेन महाशन इति पदम् । अग्निवदग्नेरिव तस्येदं दीयमानं नालं तेन कारणेनानल इत्यनेन दुष्पूरेणानलेन चेत्येतद्व्याख्यातं भवतीत्यर्थः ।। तदधिष्ठानमिति ।। हृताधिष्ठानोहि शत्रुर्नाशयितुं शक्योभवतीति भावः ।।

एतेनेन्द्रियाणीत्यस्येति ।। इन्द्रियेषु बाह्येषु चक्षुरादिषु आन्तरयोर्मनोबुद्ध्योश्चाविष्टो दुर्विषयांत्स्वाधिष्ठानभूतैर्बुध्द्यादिभिरिन्द्रियै र्विषयसंसृष्टैर्भुंजानो भोजयन्नित्यनेनेन्द्रियाणि मनोबुद्धिरस्य कामस्याधिष्ठानमुच्यते । एतैर्बुद्ध्यादिभिर्विषयसंसृष्टैस्सम्यग् ज्ञानं प्रतिबध्य देहिनं विमोहयतीत्यर्थ उक्तो भवतीत्यर्थः ।। अनेनेन्द्रियाणीत्यादेस्तात्पर्यमिति ।। इन्द्रियाणि पराण्याहुरित्यादौ शत्रुहनने आयुधरूपं ज्ञानं वक्तुं ज्ञेयमुक्त्वा एवं बुद्धेः परं बुद्ध्वा जहि शत्रुमित्युक्तस्य ज्ञानास्त्रेण विहन्यत इत्येतत्तात्पर्यमेवेति भावः ।। इदानीं तूत्पन्नज्ञानस्येति ।। परोक्षज्ञानस्येत्यर्थः ।। दुष्पूरेणानलेनेति पुनरुक्तमिति ।। अनलत्वं नाम विषयापर्याप्तिः । दुष्पूरत्वमप्येतदेवेति पौनरुक्तयमिति भावः । न केवलमिति मूलस्य न केवलं दुःखेन पूरणीयोऽसौ किंतु येन नालमिति मन्यते पुरुषः सकामोऽनलश्चेत्यर्थः । अभिमानिविवक्षया तु कामस्तदभिमानी नालमिति मन्यते चेत्यर्थः ।। ३७४१ ।।

भावदीपः

उक्तार्थेऽपीति ।। परमेश्वरादित्याद्युक्तार्थेऽपीत्यपिशब्दः । श्लोकव्याख्यानसमुच्चयेऽपिशब्दः ।। काम इत्यस्येति ।। परिहारश्लोकस्येत्यर्थः ।। इत्यादीति ।। आदिशब्दाद्दर्पणे मलं कल्मषं यथाऽधिकमावृणोति अधमं जनं गर्भमुल्बमिवात्यन्तमावृणोतीति द्रष्टव्यमित्यर्थः ।। ३७४१ ।।

भावप्रकाशः

तत्र कामः कालनेमिः इत्येवद् बलवद् विषयक प्रश्नानुसारेण योजयति ।। प्रबल इति योज्यमिति ।। प्रबल इत्यध्याहृत्य योज्यमित्यर्थः ।।

धूमेनाव्रियते वह्निरिति गीतानुसारेण व्याचष्टे । अग्न्यादर्शेति । इत्यादि द्रष्टव्यमिति ।। मध्यमजनं मलमादर्शमिव किञ्चिदधिकमावृणोति । अधमजनमुल्बो गर्भमिवाधिकमावृणोतीत्यर्थः ।। इन्द्रियाणीत्यस्येति । इन्द्रियाणि मनोबुद्धिरित्यस्येत्यर्थः । इन्द्रियाणीत्यादेरिति ।। इन्द्रियाणि पराणीत्यादेरित्यर्थः ।। ननु ज्ञानावरणरूपेणेत्यनेन कथं पुनरुक्तिपरिहार इत्यतः शास्त्रतोजातमपि ज्ञानं परमात्मापरोक्ष्याय न प्रकाशते । कामेनावृतमिति भाष्यं मनसि निधाय व्याचष्टे । पूर्वं ज्ञानोत्पत्तीति ।। कामचारेण चैक इति वचनादपरोक्षज्ञानस्य मोक्षसाधनेन केनापि प्रतिबन्ध इत्यत उक्तमपरोक्ष ज्ञानसाधनत्वप्रतिबन्धतयेति ।। पुनरुक्तिरिति । दुःष्पूरेणेत्यनेनानलेनेति पुनरुक्तिरित्यर्थः ।।३७,४१।।