गीता

मुख्यप्राणस्याप्यादिः

गीता

यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ।

असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ।। ३ ।।

तात्पर्यम्

अनस्याप्यादिरनादिः ।। ३ ।।

प्रकाशिका

अधुना विभूत्यध्यायार्थो निरूप्यते ।। ‘नमे विदुस्सुरगणाः प्रभवं न महर्षयः ।।’ इत्येतद्भगवत्प्रभावमन्येऽपि न विदुरित्यस्योपलक्षकमित्याह ।। अनस्यापीति ।। ३ ।।

न्यायदीपिका

स्वज्ञानान्मोक्षाख्यमहिमाऽत्रोच्यते ।। यो मामिति ।। तत्राजमित्युक्तत्वादनादिमिति पुनरुक्तिरित्यत आह ।। अनस्येति ।। अनो मुख्यप्राणः ।। ३ ।।

भावप्रकाशः

अनो मुख्यप्राण इति । अनचेष्टायामिति धातोर्जगच्चेष्टकत्वादित्यर्थः ।। ३ ।।