गीता
परमात्मनः ऋक्सामेत्यादि नामानि
गीता
अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् ।
मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ।। १६ ।।
पिताहमस्य जगतो माता धाता पितामहः ।
वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेव च ।। १७ ।।
गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् ।
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ।। १८ ।।
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च ।
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ।। १९ ।।
तात्पर्यम्
‘अर्च्यत्वादृक् समत्वाच्च निजरूपेषु साम सः ।
याज्यत्वात् स यजुर्यज्ञः सार्वज्ञ्यात् पुरुषोत्तमः ।
‘क्रतुः कृतिस्वरूपत्वात् स्वधाऽनन्यधृतो यतः ।
मानात् त्रातीति मन्त्रोऽयमृष्टानां निधिरौषधम् ।
आ ज्यायस्त्वादाज्यनामा दर्भोदरधरो यतः ।
अहूतत्वाद्धुतं चायमग्निर्नेताऽगतेर्यतः’ इत्यादि च ।
‘तत्तत्पदार्थभिन्नोऽपि तत्तन्नामैवमच्युतः ।
स्वातन्त्र्यात् सर्वकर्तृत्वात् गुणानन्त्याच्च केवलम्’ इति च ।
‘ओमित्याक्रियते यस्मादोङ्कारो भगवान् परः’ इति च ।
‘पातीति स पिता मानान्माता यत् स पितुर्महान् ।
पितामहो निधातृत्वान्निधानं भीतरक्षणात् ।
शरणं व्यञ्जनाच्चैव बीजमित्युच्यते प्रभुः’ इति च ।
प्रलयकाले संहर्तृत्वात् प्रलयः । अन्यदाऽपीति मृत्युः
‘प्राणगः प्राणधर्ता यदमृतं प्रविलापयन् ।
विश्वं प्रलय इत्युक्तो मृत्युरन्यत्र मारणात्’ इति च ।
‘सत् साधुगुणपूर्णत्वादस्मान्नान्यो गुणाधिकः ।
यतोऽतोऽसदिति प्रोक्तं विष्ण्वाख्यं परमं पदम्’ इति शब्दनिर्णये ।। १६१९ ।।
प्रकाशिका
अहं क्रतुरित्यादेरर्थोऽर्च्यत्वादित्यादावन्वेष्टव्यः ।। सर्वं जानातीति यज्ञः । उष दाह इति धातोः यत् तत् ओषाः– तापत्रयदग्धास्तेषा माश्रयत्वादौषधम् । यज्ञौषधादिसकलपदार्थेभ्यो भिन्नोऽपि यज्ञादिशब्दप्रवृत्तिनिमित्तानन्तगुणवत्त्वाद्योगवृत्त्या यज्ञादिशब्दैर्विष्णुरुच्यते ।। यथा भृत्येषु जयिषु राजा जयीत्यच्यते । एवमपि तत्तत्पदार्थशब्दैर्विष्णुरभिधातुं शक्यते । स्वतन्त्रस्य सर्वकर्तुः विष्णोः पराधीनेनाभेदविरोधात् न यज्ञादिभिरभेदोऽभिधीयते । अहं क्रतुरित्यादिना इत्येतदुच्यते तत्तदित्यनेन । ओमित्याक्रियते आहूयत इत्यर्थः ।। १६१९ ।।
न्यायदीपिका
प्रतिज्ञातं विज्ञानमुच्यते अहं क्रतुरिति ।। तत्र हरेः क्रत्वादिस्वरूपत्वमुच्यत इत्यन्यथाप्रतीतिनिरासाय स्मृत्यैव व्याचष्टे ।। अर्च्यत्वादिति ।। ऋगंचन इति धातुः । सर्वदा समस्तेन सामेति हि श्रुतिः । यदस्ति तज्जानातीति यज्ञः । स्वात्मानं धत्त इति स्वधा । मानात् त्रातीति मन्त्रो ज्ञातो रक्षतीत्यर्थः । उषप्लुषदाह इति धातोस्तापत्रयदग्धा उष्टाः । दर्भशब्दो दरं बिभर्तीत्यन्यत्रस्थो व्याक्रियते । आहूतत्वाद्यज्ञादाविति शेषः । अगतेस्स्वशक्तया गन्तुमशक्तस्य जगतः ।।
क्रत्वादिभिन्नस्यैव हरेर्योगवृत्त्या तत्तन्नामकत्वमित्यत्र स्मृत्यन्तरं चाह ।। तत्तदिति ।। एतत्स्मृतावपि पूर्वमेवास्यार्थस्योक्तत्वं द्योतयत्येवंशब्दः । तत्तत्पदार्थभिन्नत्वे हेतुः स्वातन्त्र्यं सर्वकर्तृत्वं च । भिन्नत्वे कथं तत्तन्नामवाच्यत्वम् । केवलं तत्तच्छब्दप्रवृत्तिनिमित्तानन्तगुणत्वादेवेत्यर्थः । तदधीनत्वादर्थवदिति न्यायेन स्वातन्त्र्यादिकं च तत्तच्छब्दवाच्यत्वे कारणम् । ॐकार इत्यादेरर्थं स्मृत्यन्तरेणाह ।। ओमिति ।। आक्रियते आहूयते । पाति पालयति । मानात् ज्ञानात् ।। पितुर्महानिति ।। जगत्पितुर्विरिंचादपि महानित्यर्थः । निधातृत्वात् धारकत्वात् ।। व्यञ्चनाज्जगदभिव्यंजकत्वात् । प्रलयमृत्युशब्दयोरर्थभेदं सप्रमाणकमाह ।। प्रलयेति ।।
प्रलयादन्यदाऽपि संहर्तृत्वादित्यर्थः । इन्द्रियेषु स्थित्वा तेषां देहधारणेन मृतिं परिहरति यस्मात्तस्मादमृतमित्यर्थः । प्रविलापयन् प्रलय इति शेषः । अहं क्रतुरित्यादेरशेषक्रत्वादिभोक्तृत्वं चार्थः ।। १६१९ ।।
किरणावली
ऋगंचन इति धातुरिति ।। अंचुगतिपूजनयोरिति धातुस्तेनार्च्यत्वादिति सिद्ध्यतीति भावः । समत्वात्सम इत्येव स्यात् कथं सामेत्यत अतिशयार्थे दीर्घः । अतिशयश्च साम्यस्य सर्वरूपसम्बन्धित्वं विवक्षितमिति भावेन निजरूपेष्वित्युक्तम् । एतादृशं च साम्यं न रमारूपेष्वप्यस्ति । विशिष्टा दक्षिणासुख इति विशेषाभिधानात् ।
न केवलं सर्वेषु निजरूपेषु समत्वात्साम । किंतु सर्वदा समत्वाच्च सामेति चशब्दार्थं मनसि निधाय तत्र श्रुतिमुदाहरति ।। सर्वदेति ।। वृद्धिह्रासौ विहायैकप्रकार इति सामेत्यर्थः । अत्रापि सर्वदेति दीर्घार्थः । मानादिति ल्यब्लोपनिमित्ता पञ्चमी । मानं प्राप्य तद्विषयः सन्निति यावदित्यभिप्रेत्य व्याचष्टे ।। ज्ञातो रक्षतीत्यर्थ इति ।।
यदस्ति तज्जानातीति ।। यज्जानाति यज्ज्ञः तकारलोपे यज्ञः । अस्तीति तु संयोजितम् । यद्वर्तते तत्सर्वं जानातीति यज्ञ इति यावत् । तदुक्तं श्रीमत्पद्मनाभतीर्थीये । यद्यत्तत्सर्वं जानातीति यज्ञ इति ।
उष्टानां निधिरौषधमित्यत्र निधीयन्तेऽत्रेति निधिराश्रय इत्यर्थं सिद्धवत्कृत्यार्थमाह ।। उषेति ।। इदं चौषधिशब्दस्य तात्पर्यकथनम् । विग्रहस्तु उष्टानां दग्धानां उष्टाः ओषाः कर्मणि घञ् । ओषा धीयन्ते अस्मिन्नित्योषधिः । कर्मण्यधिकरणे चेति किप्रत्यय इति सुधानुसारेण द्रष्टव्यः ।। दर्भशब्द इति ।। दरं शंखम् । अन्यत्रस्थः त्वं हि मन्त्राः समिद्दर्भपात्राणि चेति भागवतादिस्थ इत्यर्थः ।।
नन्वर्च्यत्वादिति स्मृत्युक्तार्थस्य तत्तत्पदार्थभिन्नोऽपीति स्मृत्यन्तरे कथमेवंशब्देन परामर्श इत्यत आह ।। एतत्स्मृताविति ।। मूले पूर्वशेषानुदाहणं तु पूर्वस्मृत्यैकार्थ्यादिति भावः । केवलमित्यनूद्यतस्यावधारणार्थं मत्वा केवलं गुणानन्त्यादित्यस्य गुणानन्त्यादेव इत्यन्वयं चाभिप्रेत्य व्याचष्टे ।। केवलमित्यादिना ।। अनभिमततत्तत्पदार्थाभेदनिवृत्त्यर्थमेवशब्द इति बोध्यम् । स्वातन्त्र्यं सर्वकर्तृत्वं च भेदोपपादकतया व्याख्यातमधुना गुणानंत्याच्चेति चशब्दसार्थक्याय प्रकारान्तरेण व्याचष्टे ।। तदधीनत्वादिति ।। तदधीनत्वादर्थवदिति सूत्रे दुःखादीनामन्यगतत्वेऽपि भगवदधीनत्वेन स्वामिभावसम्बन्धेन भगवन्निष्ठत्वाद्राजा जयति दुःखवान् दुःखीति स्वातन्त्र्यं शब्दवाच्यत्वे कारणम् । तथा दुःखयतीति दुःखी बन्धयतीति बद्धः अवरयतीत्यवर इति कर्तृव्युत्पत्त्या शब्दानां भगवत्परत्वात्कर्तृत्वं च शब्दवाच्यत्वे कारणमित्युक्तेः तेनैव न्यायेन प्रकृतेऽपि स्वातन्त्र्यं कर्तृत्वं च तत्तच्छब्दवाच्यत्वे कारणमित्यर्थः ।। ॐकार इत्यादेरर्थं स्मृत्यन्तरेणेति ।। तत्तत्पदार्थभिन्नोऽपीति सामान्याकारेण सर्वव्याख्यानरूपस्मृतेरुदाहृतत्वात्स्मृत्यन्तरेणेत्युक्तम् ।। उत्तरग्रन्थसङ्गत्यर्थं भाष्योक्तमर्थान्तरमाह ।। अहंक्रतुरित्यादेरिति ।। १६१९ ।।
भावदीपः
दरं बिभर्तीति ।। शङ्खं बिभर्तीत्यर्थः ।। एतत्स्मृताविति ।। तत्तत्पदार्थेति स्मृतौ ।। पूर्वं पूर्वशेषे । एतस्यार्थस्यार्कादिनामार्थस्योक्तत्वं द्योतयतीत्यर्थः । अन्यथा परामर्शविषयाभावादेवंशब्दो न युक्तः स्यात् । मूलकृता पूर्वशेषानुक्तिस्तु पूर्वस्मृत्यैकार्थत्वादिति भावः । स्वातन्त्र्यसर्वकर्तृत्वे न केवलं भिन्नोपीत्यत्र हेतू । किन्तु तत्तन्नामैवमुच्यत इत्यत्रापि हेतू इत्याह ।। तदधीनत्वादिति ।। शब्दप्रवृत्तिनिमित्तानां तदधीनत्वादीशाधीनत्वात् शब्दजातमर्थवत् भगवद्रूपार्थवत् तद्वाचकमिति सूत्रोक्तन्यायेनेत्यर्थः ।। कारणमिति ।। भृत्यगतजयं प्रति राज्ञो जयिशब्दवाच्यत्व इवेति भावः । प्राणगः प्राणधर्तेत्यादेरर्थमाह ।। इन्द्रियेषु स्थित्वेत्यादि ।। कदा विश्वं प्रविलापयन्नित्याकाङ्क्षायामाह ।। प्रलय इति शेष इति ।। उत्तरत्र शङ्कोत्थानाय भाष्योक्तार्थान्तरमप्यत्र ग्राह्यमित्याह ।। अहं क्रतुरिति
।। १६ ।।
भावप्रकाशः
निजरूपेषु समत्वात्सामेत्यत्र नियामकां श्रुतिमाह । सर्वदा सम इति । ज्ञातो रक्षति इति । ज्ञातारमिति शेषः । अन्यत्रस्थ इति । त्वं हि मन्त्राः समिद्दर्भपात्राणि चेति भागवतस्थ इत्यर्थः। नन्वर्च्यत्वादिति स्मृतावुक्तार्थस्य तत्तत्पदार्थेति स्मृत्यन्तरे कथमेवंशब्देन परामर्श इत्यत आह । एतत्स्मृतावपीति । केवलमित्यनूद्य तदर्थमाह । एवेति ।। अत्रानभिमततत्तत्पदार्थाभेदव्यावृत्यर्थमेवशब्द इत्यभिप्रेत्य चशब्दसमुच्चेयं निमित्तान्तरमाह ।। तदधीनत्वादिति । प्रधानादिगतपरावरत्वादिधर्माणां भगवदधीनत्वात्तस्मिन्नेवाव्यक्तत्वादिवाचिशब्दजातमर्थवदिति सूत्रार्थः ।। स्वातन्त्र्यादिकं चेति ।। स्वातन्त्र्यादित्यस्यावृत्योभयत्रापि हेतुत्वमिति भावः ।। ओङ्कार इत्यादेरर्थं स्मृत्यन्तरेणेति । तत्तत्पदार्थभिन्नोऽपीति सामान्याकारेण सर्वव्याख्यानरूपस्मृतेरुदाहृतत्वात्स्मृत्यन्तरेणेत्युक्तमिति भावः ।। ओमित्युच्चार्योत्पाद्यत इत्यन्यथाप्रतीतिनिरासाय व्याचष्टे ।। आक्रियते आहूयत इति । मानं ज्ञानं लयश्चेति मर्यादाचापि कथ्यते इत्यभिधानानुसारेण मानादित्येतदनूद्य व्याचष्टे । ज्ञानादिति ।। प्राणग इत्येतद्व्याचष्टे ।। इन्द्रियेषु स्थित्वेति ।। १६१९ ।।
वाक्यविवेकः
गीतायामवजानन्तीत्यदिकं अवज्ञानिमित्तकथनम् । मोघाशा इत्यादिकं तु अवजानतामसुरेण फलकथनमिति द्रष्टव्यम् ।। अनन्यता पूर्णतेत्यत्र अनयोः पदयोः समासनिमित्तकलुप्तषष्ट्यन्तत्वमाश्रित्य दृष्टिपदं संयोज्यम् । ततश्च अनन्यताया दृष्टिः अनन्यतादृष्टिः अपूर्णताया दृष्टिरपूर्णतादृष्टिरिति लभ्यत इति भावः ।। निर्दोषपूर्णसद्गुण इत्यतः परमध्याहार्यं दर्शयति ।। सर्वस्माद्भिन्न इति ।। न केवलं केवलचिद्देहत्वादिर्भगवान् । किंतु सर्वस्माद्भिन्न इत्यादिरूपेणापि ज्ञेय इति भावः ।। स्वातन्त्र्यादिकं च तत्तदिति । दुःखिबद्धावरादिशब्दानां स्वतन्त्रप्रवृत्तिनिमित्ततत्कारणतावाचिशब्दानां तत्कारणत्वं प्रवृत्तिनिमित्तम् ।। इन्द्रादिशब्दानां गुणवाचिनां तत्तद्वाच्यगुणाः प्रवृत्तिनिमित्तानीति भावः
।। १६१९ ।।