गीता
गीता
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ।। २१ ।।
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ।
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ।। २२ ।।
तात्पर्यम्
‘ममैव केवलं नास्ति केनाप्यर्थस्तथाप्यहम् ।
कर्मकृल्लोकरक्षायै तस्मात्कुर्वीत मत्पर’ इति कृष्णसंहितायाम् ।
‘रक्षया वाथ सृष्ट्या वा संहृत्यादेर्न तु क्वचित् ।
अर्थो विष्णोस्तथाप्येष स्वभावात्सर्वकर्मकृत् ।
मत्तो नृत्तादिकं यद्वत्कुर्यात्सुखविशेषतः ।
परमानन्दरूपत्वात्कुर्याद्विष्णुस्तथैवत्वि’ति बर्कुश्रुतिः ।। २२ ।।
न्यायदीपिका
किंच प्रयोजनमात्ररहितेनापि मया केवलानुग्रहेण लोकसंग्रहार्थं कर्म क्रियतेऽतोमुक्तावानन्दवृद्धिप्रयोजनवता ज्ञानिना तत्कर्तव्यमिति किं वक्तव्यमित्युक्तं न मे पार्थेति । अस्यार्थो ममैवेति । नन्वीश्वरः प्रयोजनाभावेपि लोकरक्षादि करोतीति न युज्यते । प्रयोजनाभावे प्रवृत्त्ययोगादित्याशङ्कां श्रुत्यैव परिहरति ।। रक्षयेति ।। प्रयोजनाभावेपीश्वरस्य कर्तृत्वस्वभाववत्त्वाद्रक्षादिसर्वकर्मकरणं युक्तमित्यर्थः । ननु तादृशस्वभावत्वेन प्रवृत्तिरचेतनेष्वेव दृष्टा । यथादहनपवनादीनां प्रयोजनं विना स्वभावादेवदहनगमनादिप्रवृत्तिः । चेतनप्रवृत्तेः प्रयोजनहीनाया अदर्शनात्कथमीश्वरस्यापि प्रयोजनानुद्देशेन प्रवृत्तिरित्यत आह ।। मत्त इति ।। २२ ।।
किरणावली
प्रयोजनमात्ररहितेनेति ।। लोकसङ्ग्रहेणापि स्वप्रयोजनरहितेनेत्यर्थः । मूले मह्यं मम केवलं लोकरक्षायै इत्यन्वयः ।। २२ ।।
भावप्रकाशः
प्रयोजनमात्ररहितेनेति । स्वसंबन्धिप्रयोजनमात्ररहितेनेत्यर्थः । प्रवृत्यगादिति ।। प्रयोजनमनुद्दिश्य न मन्दोपि प्रवर्तते इत्युक्तत्वादिति भावः ।। २२ ।।