तात्पर्यम्
तात्पर्यम्
जननात् परसस्यादेः पर्जन्यो मेघसन्ततिः ।
स यज्ञात् कर्मणः सोऽपि समस्तं कर्म केशवात् ।।
स नित्योऽप्यक्षरततिरूपाद्वाक्याद्धि गम्यते ।
वाक्यमुच्चार्यते भूतैस्तान्यन्नात्तच्च मेघतः ।।
तस्मात्सर्वगतो विष्णुर्नित्यं यज्ञे प्रतिष्ठितः ।
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।
स पापो विश्वहन्तृत्वान्नरके मज्जति ध्रुवम् ।।
वाचिको मानसो यज्ञो न्यासिनां तु विशेषतः ।
वनस्थस्याक्रतुर्यज्ञः क्रत्वादिर्ग्रहिणोऽखिलः ।।
शुश्रूषाद्यात्मको यज्ञो विहितो ब्रह्मचारिणः ।
विद्याभयादिदानं च सर्वेषामपि सम्मतम् ।।
गृहिणो वित्तदानं तु वनस्थस्यान्नपूर्वकम् ।
सर्वैः कार्यं तपो घोरमिति सर्वे त्रिकर्मिणः ।। इति नारदीये ।
ब्रह्माक्षरशब्दार्थयोर्व्यत्यासे तस्मात्सर्वगतं ब्रह्म इति प्रत्यभिज्ञाविरोधश्चक्राप्रवेशश्च
।। १६ ।।
प्रकाशिका
इतोऽपि स्वस्ववर्णाश्रमविहितं यज्ञादिकं कर्मावश्यं कर्तव्यमित्येतद्दृढयन् ‘‘अन्नाद्भवन्ती’त्यादेरर्थमाह ।। जननादित्यादिना पुराणवचनेन ।।
‘‘एवं प्रवर्तितमित्यनेन यज्ञाद्यकुर्वतश्चक्र रूपविश्वहन्तृत्वान्नरकमज्जनमुक्तम् । तत्र कस्य को यज्ञः किं दानम् इत्यपेक्षायामुच्यते ।। वाचिक इत्यादि ।। अक्रतुर्यज्ञ इत्यस्याग्निहोत्रादियज्ञो ज्योतिष्टोमादिव्यतिरिक्त इत्यर्थः । गृहिणो वित्तदानादिकं च देयं न वित्तनियम इत्युच्यते गृहिण इत्यनेन । ‘‘कर्म ब्रह्मोद्भव’’मित्यत्र ब्रह्मशब्देन विष्णुरुच्यते न वेदः । तस्मात्सर्वं गतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितमित्युपरितनवाक्ये विष्णोः ब्रह्मणः प्रत्यभिज्ञानात् । वेदपक्षे अनया प्रत्यभिज्ञया विरोधः स्यात् । ‘‘ब्रह्माक्षरसमुद्भवमि’त्यत्राक्षर शब्देन वर्णात्मकत्वेन प्रसिद्धो वेद उच्यते, न विष्णुः । वेदस्य भूतैः प्राणिभिरुच्चार्यमाणत्वेन चक्रकप्रवेशः स्यात् । विष्णुपक्षे चक्रकाऽप्रवेशादित्याह ।। ब्रह्मेति ।। १४१६ ।।
न्यायदीपिका
कर्म कर्तव्यमित्यत्र हेत्वन्तरमुच्यते ।। अन्नादिति ।। अत्र कथमन्नस्य पर्जन्याद्देवविशेषादुत्पत्तिः । कथं च तस्य यज्ञादुत्पत्तिः । कथं चान्नादिति परंपराया एवोक्तत्वाच्चक्रमित्युच्यत इत्याशङ्कां परिहर्तुं ब्रह्माक्षरशब्दयोरन्यार्थकल्पनां च निराकर्तुं स्मृत्यैव व्याचष्टे ।। जननादिति ।। परं जन्यं यस्यासौ तथोक्तः ।। यज्ञादिति ।। यज्ञसमाराधितदेवताया भवतीत्यर्थः । यज्ञो देवतोद्देशेन द्रव्यपरित्यागः । कर्म तदितरक्रिया । वाक्याज्जायते । कथं नित्यो जायते गम्यते अवगम्यत इत्यर्थः । वेदेन यथावदवगत एवेश्वरः सत्कर्म कारयतीति भावः । यत एवं परंपरया यज्ञाभिव्यंग्यस्तस्मात् । भगवतो यज्ञे प्रतिष्ठितत्वाद्यज्ञानुष्ठानेन चक्रप्रवृत्तौ भगवदभिव्यक्तिनिमित्तं च सुकृतं भवति न केवलं भूतस्थितिहेतुत्वनिमित्तमिति भावः । चक्रं नानुवर्तयतीति कर्म न करोतीत्यर्थः । विश्वस्य चक्रान्तर्भावात्कर्माकरणेन चक्राप्रवृत्तौ विश्वहन्तृत्वं चेद्गार्हस्थ्येतराश्रमाननुष्ठानं प्रसज्येत । कर्मणां यज्ञदानतपोरूपेण त्रैविध्यादाश्रमान्तरे च यज्ञाद्यभावादित्यत आह ।। वाचिक इति ।। वाचिकः स्वाध्यायादिः । मानसोध्यानादिः ।। विशेषत इति ।। सर्वसाधारण्येऽपि अन्येषामन्येपि सन्त्येषामयमेवेत्यर्थः ।। अन्येषां यज्ञान्तरमाह ।। वनस्थस्येति ।। अक्रतुः पश्वालम्भनहीनः । शुश्रूषाद्यात्मक इत्यादिपदेनाग्निपूजा विद्याभयादीत्यादिपदेन स्वभोक्तव्यान्नदानम् । अन्नपूर्वकं विद्याभयादिदानम् । स्वभोक्तव्यादधिकमापाद्यान्नदानमिह विवक्षितम् । अन्नं तु मूलफलादि । ब्रह्माक्षरसमुद्भवमित्यत्र ब्रह्मपदेन वेदोऽक्षरपदेन ब्रह्मोच्यत इत्यपव्याख्यानं हेत्वन्तरेण प्रत्याख्याति ।। ब्रह्मेति ।। यद्यत्र ब्रह्मपदेन वेदोऽक्षरपदेन ब्रह्मोच्यते तर्हि उपरि परब्रह्मणः तस्मात्सर्वगतं ब्रह्मेति ब्रह्मपदेन प्रत्यभिज्ञा न स्यात् । यत्पदेन यन्न प्रकृतं तस्य तत्पदेन कारणविशेषं विना परामर्शादर्शनात् । नच तत्र वेदपरामर्शः । तस्य यज्ञे प्रतिष्ठितत्वोक्तेरनुपयुक्तत्वादिति भावः । दोषान्तरं चाह ।। चक्रेति ।। वेदात्कर्मणामुत्पत्त्यभावाद्ब्रह्मणो वेदस्योत्पत्त्यभावाद्भूतेभ्यो ब्रह्मणो जननाभावादर्थान्तरकल्पने वेदादेश्चक्राप्रवेशः स्यात् । व्यक्तयर्थाङ्गीकारे बहूनां पदानाममुख्यार्थतापात इति भावः ।। १४१६ ।।
किरणावली
कथमन्नस्येति ।। देवविशेषस्य पर्जन्यस्य साक्षादन्नोत्पादकत्वायोगादिति भावः। तेन भाष्ये पर्जन्यशब्दितस्यादित्यस्यर्षिकमेघोत्पादकत्वस्य अस्याभिवर्षणेनान्नोत्पादकत्वमिति घटनायाः कृतत्वात् कात्र कथंतेति निरस्तम् ।। कथं च तस्येति ।। देवविशेषस्य पूर्वसिद्धत्वादागन्तुकास्मदाद्यनुष्ठितयज्ञे नोत्पत्त्ययुक्तेः । यज्ञः पर्जन्यान्नत्वात्तत्कारणमुच्यत इति भाष्योक्तसमाधानस्य गौणत्वादिति भावः ।। अन्यार्थकल्पनामिति ।। ब्रह्मशब्दो वेदपरोऽक्षरशब्दःपरब्रह्मपर इत्यपव्याख्यान मित्यर्थः ।। परं जन्यमिति ।। निरुक्तत्वादकारलोपः । अन्यथा परजन्यमित्येव स्यादिति भावः । कथं मेघचक्रस्य यज्ञादुत्पत्तिरित्यत आह ।। यज्ञसमाराधितेति ।। देवतासमाराधनरूपयज्ञादिति तदर्थस्य विवक्षितत्वाद्यज्ञसमाराधितदेवताया इति लभ्यत इति भावः । स यज्ञादिति मूलस्य स पर्जन्यो यज्ञात्सोऽपि यज्ञः कर्मणः समस्तं कर्म यज्ञकर्मरूपं द्विविधं कर्म केशवादित्युच्यते । तत्र यज्ञकर्मशब्दयोरर्थभेदं भाष्यवचनेन दर्शयति ।। यज्ञ इति ।। इतरक्रिया यज्ञांगभूता । स नित्योऽप्यक्षरततिरूपाद्वाक्याद्धिगम्यत इत्ययुक्तम् । नित्यस्यावगम्यत्वेन विरोधाभावात् । नित्योऽपि गम्यत इत्युक्तययोगात् । इत्यतो ब्रह्माक्षरसमुद्भवमिति गीतानुसारेण वाक्यादित्यतः परं जायत इत्यध्याहृत्य योजयति ।। वाक्याज्जायत इति ।। नित्योपि वाक्याज्जायत इति गीतायामुच्यत इत्यर्थः । तर्हि गम्यत इति व्यर्थम् । अध्याहृतेनान्वयस्य पूर्णत्वात् । इत्यतस्तद्व्यावर्त्य प्रदर्शनपूर्वकं व्याचष्टे ।। कथं नित्यो जायत इति ।। नित्यस्य भावस्य जनिविरोधात्कथं नित्यो जायत इत्युच्यत इत्यर्थः । प्राप्त्यर्थत्वनिरासायोक्तं गम्यतेऽवगम्यत इति । गीतायां समुद्भवशब्दस्याभिव्यक्तयर्थाङ्गीकारात् न विरोध इति भावः । क्वचिज्जायत इत्यतः परं कथं नित्यो जायत इति वाक्यपाठो न दृश्यते ।
ननु ब्राह्मणः कथं कर्मकारणत्वमक्षराणां कथं जगच्चक्रप्रवेश इत्यत आह ।। वेदेनेति ।। तस्मात्सर्वगतं ब्रह्मेति गीताव्याख्यानाय प्रवृत्ते तस्मात्सर्वगतो विष्णुरिति मूले तस्मादिति हेतुत्वेन कस्य परामर्श इति न ज्ञायते । भगवतो यज्ञे प्रतिष्ठितत्वकथनं च व्यर्थं कर्मणोऽवश्यं कर्तव्यत्वे भूतस्थितिहेतुत्वप्रयुक्तसुकृतलाभाख्यहेतूपन्यासायास्य ग्रन्थस्य प्रवृत्तत्वादित्यत आह ।। यत एवमित्यादिना ।। पूर्वैः प्रवर्तितस्य चक्रस्यानुवर्तनं नाम किमित्यतः स्वयमपि कर्मकरणेन तदविच्छेदापादनमेव तदनुवर्तनमिति भावेन तात्पर्यार्थमाह ।। चक्रमिति ।। ननु संन्यासिभ्योऽपि स्वरूपोत्तमानां गृहस्थानां विशेषतो वाचिकमानसिकयज्ञयोर्भावात्कथं न्यासिनां तु विशेषत इत्युक्तमित्यत आह ।। सर्वसाधारण्येऽपीति ।। असाधारण्येन व्यपदेशा भवन्तीति न्यायादिति भावः । अक्रतुर्यज्ञ इति व्याहतमित्यत आह ।। अक्रतुः पश्वालम्भनहीन इति ।।
उक्तं च पद्मनाभतीर्थश्रीमच्चरणैः । अक्रतुर्यज्ञ इत्युक्तया ग्निहोत्रादिर्यज्ञो ज्योतिष्टोमाद्यतिरिक्त इत्यर्थ इति । विद्याभयादीत्यादिपदेन वित्तग्रहणमयुक्तम् । न्यासिवनस्थयोस्तदभावान्नाप्यन्नपरिग्रहः । गृहस्थस्य तद्दानसम्भवेऽपि भिक्षुकस्य तदसम्भवादित्यत आह ।। विद्याभयादीत्यादि पदेनेति ।। वनस्थस्यान्नपूर्वकमित्यस्यान्नदानपूर्वकमित्यर्थः । अन्नपूर्वकमित्येतदनूद्यान्यपदार्थतया विद्याभयादिदानमित्येतदेव संयोज्य व्याचष्टे ।। अन्नपूर्वकमिति ।। ननु विद्याभयादिदानमित्यन्यपदार्थे स्वभोक्तव्यान्न दानस्य प्रविष्टत्वात्पुनरन्नपूर्वकमिति अन्नदानग्रहणमयुक्तमित्यत आह ।। स्वभोक्तव्यादिति हेत्वन्तरेणेति ।। पूर्वं व्याख्यानरूपस्मृतिविरोधेन निराकृतमिदानीं हेत्वन्तरेणेत्यर्थः । प्रागक्षरशब्देनोक्तं परं ब्रह्मेदानीं ब्रह्मशब्देन परामृश्यत इति भास्करपक्षे दोषमाह ।। यत्पदेनेति ।। ननु स वा एष पुरुषोऽन्नरसमय इत्यत्र पुरुषपदेनाप्रकृतस्यात्मन आकाशः सम्भूत इत्युक्तस्यात्मनः स पुरुष इति पुरुषपदेन परामर्शस्य दर्शनात्कथमेतदित्यत उक्तम् ।। कारणविशेषं विनेति ।। तत्रान्नरसमय इति सारान्नमयत्वविशेषणेन प्रसिद्धान्नविकारस्यान्नात्पुरुष इत्युक्तस्य देहस्य परामर्शं विहायात्मपरामर्शाङ्गीकारात्प्रकृते कारणविशेषाभावादित्यर्थः । स्यादिदं भास्करपक्षे दूषणं मया तु ब्रह्मपदोक्तवेदस्यैव ब्रह्मपदेन परामर्श इत्यभ्युपगमान्न विरोध इति मायावादिपक्षमपि निराकरोति ।। न च तत्रेति ।। ब्रह्माक्षरशब्दार्थयोर्व्यत्यासे चक्राप्रवेशश्चेत्यन्वयमभिप्रेत्य व्याकरिष्यंस्तदुपपादयति ।। वेदादित्यादिना ।। बहूनामिति ।। ब्रह्मोद्भवमक्षरसमुद्भवमित्यत्रोद्भवसमुद्भवपदयोः अक्षरं भूतसमुद्भवमित्यध्याहृतोद्भवपदस्य परब्रह्मणि परममुख्यस्य ब्रह्मशब्दस्य वेदे रूढस्याक्षरशब्दस्येति बहूनामित्यर्थः ।।१४१६।।
भावदीपः
हेत्वन्तरमिति ।। सहयज्ञा इत्यादिश्लोकचतुष्टयोक्तार्थवादरूपहेतुश्चक्रप्रवर्तकत्वरूपहेत्वन्तरमित्यर्थः ।। अन्यार्थकल्पनां चेति ।। ब्रह्माक्षरशब्दयोर्वेदपरब्रह्मार्थताकल्पनमित्यर्थः ।। स्मृत्युक्तयोगं शब्दारूढं दर्शयति ।। परमिति ।। उत्तममित्यर्थः । परपदान्तलोपो निरुक्तत्वादिति भावः ।। हेत्वन्तरेणेति ।। व्याख्यानरूपस्मृतिविरोधापेक्षया प्रत्यभिज्ञाविरोधरूपहेत्वन्तरेणेत्यर्थः ।। अनुपयुक्तत्वादिति ।। स्वपक्षे तूक्त उपयोग इति भावः ।। उत्पत्त्यभावादिति ।। वेदस्य नित्यत्वादिति भावः ।। भूतेभ्य इति ।। चक्रसिध्यर्थमक्षरं भूतोद्भवमिति वाच्यम् । न ह्यक्षरशब्दितं ब्रह्म भूतैरुत्पद्यत इत्यर्थः ।। अर्थान्तरकल्पन इति ।। परमेश्वरवाक्यभूताद्वेदाख्यात् ब्रह्मणः पुरुषाणां कर्मणि प्रवृत्तिः । ततः कर्मनिष्पत्तिः । ततः पर्जन्यः । ततोऽन्नम् । ततो भूतानि । भूतानां च कर्मप्रवृत्तिरित्येवं कल्पन इत्यर्थः । आदिपदेन परब्रह्मग्रहः । नन्वक्षरं भूतसम्भवमित्येवास्तु । सम्भवशब्देन व्यक्तिर्गृह्यतामित्यत आह ।। व्यक्त्यर्थेति ।। अर्थभेदाच्चेति ।। कृतकृत्यत्वप्रीतिरूपार्थभेदाच्चेत्यर्थः ।। १४१६ ।।
भावप्रकाशः
अन्यथार्थकल्पनामिति ।। ब्रह्मपदेन वेदो अक्षरपदेन ब्रह्मोच्यत इत्यपव्याख्यानमित्यर्थः ।। नन्वियं कल्पनेति कुतः वस्तुस्थितिरेव किं न स्यादित्यत आह । स्मृत्यैवेति ।। व्याख्यानरूपस्मृतिविरोधादियं कल्पनैवेति भावः ।। परं जन्यमिति निरुक्तत्वादकारलोप इति भावः । इन्द्रादीनामेव मेघोत्पादकत्वात्कथं स यज्ञादित्युक्तमित्यत आह । यज्ञसमाराधितेति । भवतीत्यध्याहार्योक्तम् ।। ननु यज्ञः कर्मात्मकः तत्कथमुच्यते यज्ञः कर्मसमुद्भव इति अत आह । यज्ञ इति । उद्दिश्यं देवतां द्रव्यत्यागो यज्ञ इतीरित इति वचनात् । इतरक्रिया यज्ञाङ्गभूता । यज्ञपदेनापूर्वाङ्गीकारे रुढित्यागेन योगाङ्गीकरणं स्यादिति भावः । ब्रह्माक्षरसमुद्भवमिति गीतानुसारेण वाक्यादित्यनन्तरं अध्याहरति जायत इति ।। कथं नित्यो जायत इत्याशङ्कापरिहाराय प्रवृत्तमूलपदमनूद्य व्याचष्टे । गम्यत इति ।। जायत इत्यनन्तरं कथं नित्यो जायत इति क्वचित्पाठः । ननु स्वरूपसद्ब्रह्मण एव कर्मकारणत्वेऽक्षराणां कथं जगच्चक्रप्रवेश इत्यत आह । वेदेन यथावदिति ।। प्रवृत्तस्य चक्रस्य ननु वर्त्तनं नाम किमित्यत आह । कर्म न करोतीति । त्रैविद्यादिति । यज्ञदानतपः कर्म न त्याज्यमित्युक्तत्वादिति भावः ।। यज्ञाद्यभावादिति । यज्ञदानयोरभावादित्यर्थः । न्यासिभ्योऽपि स्वरूपोत्तमानां गृहस्थानां विशेषतो वाचिकमानसयज्ञयोर्भावात्तत्कथं न्यासिनां तु विशेषतः इत्युक्तमित्यत आह । सर्वसाधारणोऽपीति । असाधारण्येन व्यपदेशा भवन्तीति न्यायादिति भावः ।। क्रतुशब्दस्य यज्ञवाचकत्वादक्रतुर्यज्ञ इति व्याहतमित्यत आह । पश्वालम्भनहीन इति । विद्याभयादीत्यादिपदेन वित्तादिके गृहीते यत्यादीनां वित्तदानाभावेनास्य सर्वसाधारण्यमनुपपन्नं स्यात् अत आह । स्वभोक्तव्यान्नदानमिति । वनस्थस्यान्नपूर्वकमित्यत्रान्नपदार्थं दर्शयितुमाह । अन्नपूर्वकमिति ।
नन्वस्य साधारणधर्मत्वेनोक्तत्वात्कथं वनस्थस्येत्युक्तमित्यत आह । स्वभोक्तव्यादधिकमिति । हेत्वन्तरेणेति । पूर्वं व्याख्यानरूपस्मृत्या निराकृतत्वादिति भावः ।। प्रत्यभिज्ञा न स्यादिति । पूर्वं ब्रह्मशब्देन परब्रह्मणः अप्रकृतत्वादिति भावः । प्रागक्षरशब्दोक्तं परब्रह्मेदानीं ब्रह्मशब्देन परामृश्यत इति भास्करपक्षे दोषमाह । यत्पदेनेति । अन्नात्पुरुषः सवा एष पुरुषोऽन्नरसमयः इत्यादि व्यावृत्यर्थं कारणविशेषं विनेत्युक्तम् । तत्र च रसशब्देन विशेषणादर्थान्तरग्रहणम् । अत्रापि सर्वगतमिति विशेषणमस्तीति चेन्न । वर्णानामपि सर्वगतत्वादिति भावः । इदानीं पूर्वं ब्रह्मपदोक्तवेदस्यैव तस्मात्सर्वगतं ब्रह्मेति परामृश्यत एव इति मायावादिपक्षं दूषयति ।। न च तत्रेति । बहूनां पदानामिति । उद्भवशब्दस्य मुख्येऽभिधेये जन्मनि सम्भाव्यमाने सत्यौपचारिकप्रकाशनार्थत्वं तथा ब्रह्मशब्दस्य मुख्याभिधेये परब्रह्मणि सम्भाव्यमाने सत्यमुख्यवेदार्थत्वमक्षरशब्दस्य वर्णेषु रूढस्य अक्षरगुणयोगेन ब्रह्मार्थत्वमिति बहूनां पदानाममुख्यार्थतापात इति भावः ।। १४१६ ।।
वाक्यविवेकः
परं जन्यमिति । परशब्दालोपे जनेर्यत्प्रत्यये पर्जन्य इति रूपम् । अक्षरसमुद्भवमित्यत्राक्षरसमुद्भवशब्दयोरर्थं सूचयन्वाक्यादित्यस्याध्याहृतेन जायत इत्यनेनान्वयं दर्शयति । वाक्याज्जायत इति । समुद्भवशब्दस्य जायत इत्यर्थो अनुपपन्न इति शङ्कते कथं नित्य इति । हेत्त्वन्तरेणेति । पूर्वां स्मृतिविरोधित्वयुक्त्या ब्रह्माक्षरपदयोरपव्याख्यानं निराकृतं इदानीं हेत्वन्तरेण निराकारोतीत्यर्थः । मूले ब्रह्मेति प्रत्यभिज्ञाविरोध इति । ब्रह्मेति परामर्शविरोध इत्यर्थः । तस्य यज्ञ इति । चक्रनिरूपणमात्रेण कृतत्त्वात् वेदस्य यज्ञे प्रतिष्टितत्त्वोक्तिर्व्यथेत्यर्थः । नन्वीश्वरपरामर्शेऽप्ययं दोषः समान इति चेन्न । भगवतो यज्ञे प्रतिष्ठितत्वात् यज्ञानुष्ठानेन चक्रप्रवृतौ भगवद्व्यक्तिनिमित्तं सुकृतं भवतीति ज्ञापनलक्षणप्रयोजनसद्भावात् ।। चक्रप्रवेशमेवोपपादयति । वेदेति । बहूनां पदानामिति । कर्मब्रह्मोद्भवं ब्रह्माक्षरसमुद्भवमित्यत्र विद्यमानयोर्द्वयोरुद्भवशब्दयोरेकस्य संशब्दस्य च अमुख्यार्थतापातादिति भावः ।। १४१६ ।।