गीता
गुणभेदोक्तिः
गीता
ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः ।
प्रोच्यते गुणसंख्याने यथावच्छृणु तान्यपि ।। १९ ।।
तात्पर्यम्
एवं गुणसङ्ख्याने परमसाङ्ख्यशास्त्रे ।। १९ ।।
न्यायदीपिका
सात्विकज्ञानादिसाधनानुष्ठानाय गुणभेदा उच्यन्ते ।। ज्ञानमिति ।। तत्र गुणाः सङ्ख्यायन्तेऽस्मिन्निति गुणसङ्ख्यानपदेन प्रसिद्धसाङ्ख्यशास्त्रमुच्यत इत्यन्यथाप्रतीतिनिरासायाह ।। एवमिति ।। प्रसिद्धसाङ्ख्यशास्त्रमेवात्र किं न स्यादित्यत एवमित्युक्तम् । एवं सर्वगतस्येश्वरस्य सर्वतो भेदादिविषयं ज्ञानं सात्विकमित्यादि गुणसङ्ख्याने प्रोच्यत इति ह्यत्रोच्यते । तच्च परमसाङ्ख्यशास्त्रग्रहण एवोपपद्यते । न निरीश्वरसाङ्ख्यग्रहण इति भावः ।। १९ ।।
किरणावली
सात्विकज्ञानादिसाधनानुष्ठानायेति ।। सात्विकं यज्ज्ञानादिरूपं मोक्षसाधनं तदनुष्ठानाय गुणनिमित्ताज्ज्ञानादिभेदानाहेत्यर्थः । तदुक्तं प्रमेयदीपे । सात्विकं ज्ञानादिकं मोक्षसाधनमिति । गुणसङ्ख्याने इत्यनूद्य परमसाङ्ख्यशास्त्र इति व्याख्यानेन पूर्णत्वादेवमिति व्यर्थमित्यत आह ।। प्रसिद्धेति ।। कथमेवमित्यनेन शङ्कापरिहार इत्यत एवं गुणसङ्ख्याने इत्यतः परंप्रोच्यत इति ह्यत्रोच्यत इति पदान्यध्याहृत्यैवमित्यनूद्यैवमेवं रूपं प्रमेयमित्यर्थं मनसि निधाय व्याचष्टे ।। एवं सर्वगतस्येत्यादिना ।। ततश्च किमित्यत आह ।। तच्चेति ।। १९ ।।
भावदीपः
सात्विकज्ञानादिसाधनेति ।। सात्विकज्ञानकर्मादेः मोक्षसाधनत्वात्सात्विकज्ञानादिरूपमोक्षसाधनानुष्ठानाय गुणनिमित्तसात्विकज्ञानादिभेदा उच्यन्त इत्यर्थः । एवमित्यनुवादः । सर्वगतस्येति व्याख्या ।। १९ ।।
भावप्रकाशः
गुणभेदा उच्यत इति । गुणनिमित्तज्ञानादिभेदाः उच्यन्त इत्यर्थः ।। १९ ।।