गीता
सात्विकं ज्ञानम्
गीता
सर्वभूतेषु येनैकं भावमव्ययमीक्षते ।
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ।। २० ।।
तात्पर्यम्
‘अस्तित्वाद् भूतनामभ्यः सर्वजीवेभ्य एव यत् ।
मुक्तेभ्योऽपि पृथक्तवेन विष्णोः सर्वत्रगस्य च ।
ऐक्येन च स्वरूपाणां प्रादुर्भावादिकात्मनाम् ।
तारतम्येन जीवानां भेदेनैव परस्परम् ।
जडेभ्यश्चैव जीवानां जडानां च परस्परम् ।
तेभ्यो विष्णोश्च सम्यक् तल्लक्षणज्ञानपूर्वकम् ।
ज्ञानं सात्त्विकमुद्दिष्टं यत् साक्षान्मुक्तिकारणम्’ ।। २० ।।
प्रकाशिका
‘‘सर्वभूतेषु येनैकं भावमव्ययमीक्षते ।। अविभक्तं विभक्तेषु तद्ज्ञानं विद्धि सात्विकं’’ इत्यस्यार्थमाह ।। अस्त्वित्यादिना ।। २० ।।
न्यायदीपिका
तत्र प्रतिज्ञातं ज्ञानत्रैविध्यमुच्यते ।। सर्वेति ।। तदप्रतीत्यादिनिरासाय स्मृत्यैव व्याचष्टे ।। अस्तित्वादिति ।। पृथक्त्वेनेत्यन्तेन सर्वभूतेष्विति सप्तम्या अभिप्रायोऽप्युक्तो भवति ।। विष्णोरित्यादिना अविभक्तमित्युक्तार्थं भवति ।। तारतम्येनेत्यनेन विभक्तेष्विति द्वेधा व्याख्यातं भवति । अथ भूतशब्देन भवतीति जडं चोच्यत इत्यभिप्रेत्य विभक्तेष्वित्यस्यार्थ उच्यते ।। जडेभ्य इति ।। तेभ्यो जडेभ्य इत्यनेन सप्तम्यर्थ उक्तो भवति ।। सम्यगिति ।। विष्णुः सर्वोत्तमः, जीवास्तदधीनज्ञानादिमन्तो जडं तद्रहितमित्यतो विष्ण्वादीनां भेद इत्यर्थः । अनेनैकमित्युक्ताभिप्रायं भवति ।। २० ।।
किरणावली
सर्वेतीति ।। सर्वभूतेष्वित्यादिश्लोकत्रयेणेत्यर्थः ।। तदप्रतीत्यादीति ।। एकं भावमिति सामान्येनोक्तं कोऽसावेको भाव इति न प्रतीयते । ब्रह्माख्यभावविवक्षायामपि विभक्तेषु सर्वभूतेषु भूतमयशरीरेषु नानोपाधिविभक्तं स्वगतभेदशून्यमेकमेव भावं ब्रह्माख्यं येन ज्ञानेनेक्ष्यते तदद्वैतज्ञानं सात्विकमित्यन्यथा प्रतीयतेतो व्याचष्ट इत्यर्थः । अस्तित्वादित्यादिमूलस्य भवन्तीति भूतानीति व्युत्पत्त्याऽस्तित्वाद्भूतनामभ्यः सर्वजीवेभ्यः संसारिभ्यो मुक्तेभ्योपि पृथक्त्वेनैव विष्णोर्यज्ज्ञानं सर्वत्रगस्य च भिन्नाभिन्नस्थानगस्यापि विष्णोः प्रादुर्भावादिकात्मनां प्रादुर्भावरूपेण आवेशरूपेण च स्थितानामन्तर्यामितया बहिर्व्यापकतयावस्थितानां स्वरूपाणामैक्येन च यज्ज्ञानम् । जीवानां परस्परं तारतम्येनैव न तु साम्येन भेदेनैव न तु भेदाभेदेन यज्ज्ञानं भवतीति व्युत्पत्त्यास्तित्वाद्भूत शब्दवाच्येभ्यो जडेभ्यश्च जीवानां भूतशब्दवाच्यानां भेदेन यज्ज्ञानं जडानां च भूतशब्दवाच्यानां परस्परं भेदेन यज्ज्ञानन्तेभ्योविष्णोश्च पृथक् त्वेन यज्ज्ञानं तत्सात्विकमुद्दिष्टम् । कुतोयद्यस्मात्साक्षान्मुक्तिसाधनं तस्मादित्यर्थमभिप्रेत्य गीतारोहं तात्पर्यस्य दर्शयति ।। पृथक्त्वेनेत्यन्तेनेति ।। अस्तित्वादित्यारभ्य पृथक्त्वेनेत्यन्तेन न केवलं भूतपदार्थः । भूतेष्विति सप्तम्या अधिकरणार्थकत्वात् । भूतानां तदधिकरणस्य भावपदोदितस्य विष्णोश्चाधिकरणाधिकर्तव्यभावेन भेद इत्यभिप्राय उक्तो भवतीत्यर्थः ।।
विष्णोरित्यादिनेति ।। प्रादुर्भावादिकात्मनामित्यन्तेनेति भावः ।। तारतम्येनेत्यनेनेति ।। तारतम्येन भेदेनैवेत्यनेन विभक्तेषु भेदवत्सु तारतम्यवत्सुचेति द्वेधेत्यर्थः । जडेभ्यश्चेत्यादिकमुद्गीतमित्यत आह ।। अथेति ।। भवतीति व्युत्पत्त्येति शेषः ।। विभक्तेष्वित्यस्येति ।। विभक्तेषु सर्वभूतेष्वित्यस्य जडजीवलक्षणेषु सर्वभूतेषु जातिभेदेन परस्परं विभक्तेषु जडाख्येषु सर्वभूतेषु परस्परं विभक्तेष्वित्यर्थ उक्तो भवतीत्यर्थः । तेभ्यो विष्णोश्चेत्यत्र तेभ्य इति न जीवानामपि परामर्शः । विष्णोर्जीवभेदस्य सर्वजीवेभ्यो मुक्तेभ्योपीत्यनेन प्राप्तत्वादित्यभिप्रेत्याह ।। तेभ्यो जडेभ्य इत्यनेनेति ।। तेभ्यो जडेभ्यो विष्णोश्च भेदेनेत्यनेन जडपक्षे भूतेषु इत्यधिकरण सप्तम्यर्थ उक्तो भवतीत्यर्थः । सम्यक्तल्लक्षणज्ञानपूर्वकमित्यत्र तदिति विष्णुमात्रपरामर्श इति प्रतीतिं निराकुर्वन्नाह ।। सम्यगितीति ।। इत्यत इति ।। इत्यस्माल्लक्षणभेदाद्विष्ण्वादीनां भेदः प्रतिपत्तव्य इत्यर्थः । तेन भेद ज्ञानस्य लक्षणज्ञानपूर्वकत्वमुपपादितं भवति ।। अनेनैकमितीति ।। एकं प्रधानमुद्दिष्टमिति वचनादेकं सर्वोत्तममित्यस्य तात्पर्यमुक्तं भवतीत्यर्थः ।। २० ।।
भावदीपः
सप्तम्या अभिप्राय इति ।। आधारत्वस्य भेदनिबन्धनत्वात्तेन पृथक्त्वं लब्धमिति भावः ।। भवतीति जडं चोच्यत इति ।। भू सत्तायामिति धातोः प्रकृत्यादिजडस्यापि सद्रूपत्वाद् भूतपदेन ग्रहणमित्यर्थः ।। २० ।।
भावप्रकाशः
सप्तम्या अभिप्रायोऽपीति ।। अधिकरणत्वार्थकसप्तम्याः अधिकरणाधेययोर्भेदे अभिप्राय इत्यर्थः ।। न केवलं भूतादिपदार्थ इत्यपिशब्दार्थः । द्वेधाव्याख्यातमिति । तारतम्येपे तेषु भिन्नेषु चेति द्वेधा व्याख्यातमित्यर्थः । तेभ्य इत्यनेन न जीवानां परामर्शे मुक्तेभ्योऽपि पृथक्त्वेनेत्यनेन पुनरुक्तिः स्यादतो जडपरामर्श इत्यभिप्रेत्य तद्व्याख्येयं च दर्शयति ।। तेभ्यो जडेभ्य इत्यनेन सप्तम्यर्थ इति । अधिकरणत्वार्थकसप्तम्याः अभिप्रेतार्थो भेद इत्यर्थः ।। २० ।।