गीता

गीता

य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ।

उभौ तौ न विजानीतो नायं हन्ति न हन्यते ।। १९ ।।

तात्पर्यम्

य एनं जीवं वेत्ति हन्तारं स्वातन्त्र्येण । अन्यथा मया हतांस्त्वं जहीत्यादिविरोधः । चेतनं प्रति य एनमिति परमात्मनोऽपि समम् ।। १९ ।।

प्रकाशिका

प्रकृतमनुसरन् य एनं वेत्तीत्येतत् व्याचष्टे ।। य एनमिति ।। य एनं जीवं स्वातन्त्र्येण हन्तारं वेत्ति, नासौ सम्यक् जानाति न तु सर्वथा जीवो न हन्तेति ।। तथा सति ‘मया हतांस्त्वं जही’ति कौरव हनने भगवता अर्जुनो न युज्येत । चेतनं प्रति न हन्तेति जीवे ईश्वरेऽपि व्याख्यातुं शक्यते । ईश्वरेणाहन्यमानत्वात् । (चेतनस्येश्वरेणाप्याहन्यमानत्वात्) इत्यर्थः ।।१९।।

न्यायदीपिका

यदुक्तं सर्वप्रकारेणाविनाशित्वादीश्वरः स्वतन्त्र इति । तदयुक्तम् । अयमस्य देह वियोगकर्ता । अनेनायं देहाद्वियोजित इति जीवस्यापि स्वातन्त्र्य प्रतीतेरित्याशङ्कापरिहारायोच्यते ।। य एनमिति ।। तत्र जीवस्य देहवियोगादौ कथमपि कर्तृत्वं नास्तीत्यन्यथाप्रतीति निरासायाह ।। य एनमिति ।। य एनं जीवं स्वातन्त्र्येण देहवियोगकर्तारं पश्यति यश्चैनं जीवं जीवान्तरेण स्वातन्त्र्येण देहा द्वियोजितं पश्यति तौ न विजानीत इत्येव व्याख्येयम् । नतु पारतन्त्र्येणापि जीवस्यहंतृत्वादिकं पश्यन् न जानातीत्यर्थः । कुतोऽन्योऽर्थोनस्यादित्यत आह ।। अन्यथेति ।। जीवस्य पारतन्त्र्योणापि हंतृत्वाभावे मया हतांस्त्वं जहीतीश्वराधीनतया जीवस्य हंतृत्वोक्तिविरोधः स्यादित्यर्थः । यदुक्तं जीवो नित्य इति न तद्युक्तम् । अयं जीवस्य हन्ता अनेनायं जीवो हत इति व्यवहारेण चेतनस्या नित्यत्वावगमादित्याशङ्कापरिहारायाप्ययमेवश्लोकः । तत्र प्रथमपक्षे य एनमिति पदं जीवविषयतया व्याख्यातं नेश्वरविषयतया । तत्र देहवियोगरूप हननस्य विवक्षितत्वात् । तत्र जीवस्यैव स्वातन्त्र्या भावादीश्वरस्य तद्भावात् । अस्मिन् पक्षे तु य एनं चेतनं हन्तारं पश्यति स नजानातीति चेतनं प्रति हननस्य विवक्षितत्वात् । चेतनहननस्य जीववदीश्वरेणाप्यकरणादेनमिति पदमुभयोरपि वाचकमित्याह ।। चेतनमिति ।। १९ ।।

किरणावली

यदुक्तमिति ।। अविनाशि तु तद्विद्धीत्यत्रेति शेषः ।। यदुक्तं जीवोनित्य इतीति ।। नत्वं नेमे जनाधिपा इत्यत्रेति शेषः । प्रथमपक्षे जीवस्य स्वातन्त्र्येण देहवियोग लक्षणहननकर्तृत्वं नास्तीति प्रथमव्याख्यान इत्यर्थः ।। हन्तारं पश्यतीति ।। चेतनस्य हन्तारं पश्यतीत्यर्थः ।। १९ ।।

भावदीपः

हन्तृशब्दार्थमाह ।।  देहवियोगकर्तेति ।। हतशब्दार्थो देहाद्वियोजित इति ।। मयेति ।।

मया हतांस्त्वं जहि मा व्यतिष्ठा

 युध्यस्व जेताऽसि रणे सपत्नान् ।’

इत्येकादशोक्तिविरोध इत्यर्थः ।। अयमेव श्लोक इति ।। भाष्ये तथा योजितत्वादिति भावः ।।१९।।

भावप्रकाशः

यदुक्तमिति । अविनाशित्वित्यनेत्यर्थः ।। हन्तारमित्यस्य स्वरूपनाशकर्तारमित्यर्थकत्वे चेतनं प्रतीति करिष्यमाणव्याख्यानान्तरात् भेदो नस्यादित्यतः प्रकारान्तरेण व्याचष्टे ।।

देहवियोगकर्तारमिति ।। यदुक्तं जीवो नित्य इतीति । नत्वं नेमे जनाधिपा इत्यनेनेत्यर्थः ।। १९ ।।

वाक्यविवेकः

तदयुक्तमिति । सर्वप्रकारेण अविनाशित्वात् ईश्वरस्यैव स्वातन्त्र्यं नान्यस्येति यदुक्तम् । तदयुक्तमित्यर्थः । एतेन जीवस्य स्वातन्त्र्येऽपि ईश्वरस्वातन्त्र्याविघातात् जीवस्य स्वातन्त्र्यदर्शनेन ईश्वरस्य स्वातन्त्र्यदूषणमयुक्तमिति परास्तम् । ईश्वरस्यैव स्वातन्त्र्यं नान्यस्येत्यस्य दूषणमित्यङ्गीकारात् । चेतनस्यानित्यत्वावगमादिति । उदाहृतव्यवहारजनकानुभवश्चेतनानित्यत्वे प्रमाणमिति भावः । एतेन गीतायामुभौ तौ न विजानीत इति ज्ञानभ्रमत्त्वोक्तेरनुभवबलेन मिथ्यात्वमाशङ्कनीयं न तु व्यवहारबलेनेति परास्तम् ।। १९ ।।