गीता
गीता
ज्ञेयः स नित्यसंन्यासी यो न द्वेष्यि न काङ्क्षति ।
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ।। ३ ।।
तात्पर्यम्
द्वेषादिवर्जनमेव संन्यासशब्दार्थो न यत्याश्रमोऽत्राभिप्रेत इत्याह ज्ञेय इति । न च ‘काम्यानां कर्मणां न्यासमि’ त्यनेन विरोधः । तेनापि सहितस्य न्यासत्वात् । न च त्यागस्य पृथग्वचनाद्विरोधः । कुरुपाण्डववन्न्यासावान्तरभेदत्वात्त्यागस्य ।। ३ ।।
प्रकाशिका
ननु गार्हस्थ्यं त्यक्त्वा सन्न्यासः स्वीक्रियते । कथं तस्य कर्मयोगेन समुच्चय इत्यत आह ।। द्वेषादिति ।। द्वेषरागादिवर्जनमात्रं न्यासशब्देन विवक्षितम् । ‘‘ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति’’ इति वचनात् । तथा काम्यकर्मवर्जनं च न्यासशब्देन स्वीकर्तव्यम् । अन्यथा ‘‘काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुरि’’त्येतद्वचनविरोधः स्यादित्यर्थः । ननु सर्वकर्मफलत्यागं प्राहुस्त्यागमिति संन्यासात् त्यागः पृथक् निर्दिष्टः । कथमसावत्र योगं न काङ्क्षतीति, सोऽपि सन्न्यासीति सन्न्यासेऽन्तर्भाव्यत इत्याशङ्क्याह ।। कुरुपाण्डववदिति ।। यथा कुरुषु अन्तर्भूता अपि पाण्डवाः कुरुभ्यः पृथक् निर्दिश्यन्ते, एवं संन्यासे अन्तर्भूतोऽपि योगः पृथक् निर्दिष्टः ।। ३ ।।
न्यायदीपिका
कथं योगसंन्यासयोः समुच्चयो युज्यते यतिगृहस्थयोरधिकारभेदादित्याशङ्कापरिहाराय श्लोकमवतारयति ।। द्वेषादीति ।। अत्र संन्यस्तकर्माणमित्यादौ । एवं योगमातिष्ठेत्यादौ भगवदर्पणादियोग एवाभिप्रेतो न गृहस्थाश्रम इत्यपि द्रष्टव्यम् । ननु कथं द्वेषादिवर्जनस्य संन्यासत्वमत्रोच्यते । काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुरिति काम्यकर्मपरित्यागस्य सन्न्यासत्वाभिधायकवाक्यविरोधादित्यत आह ।। नचेति ।। भवेत्तद्विरोधो यद्यत्र द्वेषादिवर्जनस्य सन्न्यासत्वेन विवक्षितं स्यात् । नैतदस्ति । काम्यकर्मपरित्यागेनापि सहितस्य द्वेषादिवर्जनमात्रं सन्यासत्वेनाभिप्रेतत्वादित्यर्थः । कथमत्र काङ्क्षादिवर्जनस्य संन्यासत्वमुच्यते सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणा इति तस्य त्यागत्वेनोक्तत्वात् । न च संन्यासत्यागयोरैक्यादविरोधः । काम्यानामिति श्लोके न्यासत् त्यागस्य पृथक्त्वेनोक्तेस्तद्विरोधादित्यत आह ।। नचेति ।। भवत्येवाकाङ्क्षादिवर्जनं न्यासः । न च तस्य त्यागत्वोक्तिविरोधः । न्यासत्यागयोरेकार्थत्वात् । न च पृथक्त्वोक्तिविरोधः । यथा खलु पाण्डवानां कुरुत्वेऽपि सन्तानबीजं कुरु पाण्डवानामिति पृथगुक्तिर्युज्यते । पाण्डवानां कुर्ववान्तरभेदत्वेन कुरुपाण्डवानां साक्षादैक्याभावात् । एवं त्यागस्य न्यासत्वेऽपि न्यासावान्तरभेदत्वेन त्यागन्यासयोः साक्षादैक्याभावात्पृथग्वचनोपपत्तेरिति भावः । न्यासादिशब्दस्य यत्याद्याश्रमार्थत्वं गृहीत्वा तयोरधिकारभेदात्समावेशायोगो यश्चोदितोऽसौ न्यासादिशब्दस्य तदर्थत्वानङ्गीकारेण परिहृतः ।। ३ ।।
किरणावली
मूले योगशब्दार्थस्यानिर्धारितत्वात्स्वयमाह ।। एवमिति ।। काङ्क्षादिवर्जनस्येति ।। यो नद्वेष्टि नकाङ्क्षतीत्यादौ फलकाङ्क्षादिवर्जनस्येत्यर्थः । द्वेषवर्जनस्य प्राथमिकत्वेपि सर्वकर्मफलत्यागं प्राहुस्त्यागमित्यनेन न काङ्क्षतीति संन्यासीत्यस्यैव प्राप्तत्वेन द्वेषवर्जनस्य आदित्वेन ग्रहणम् ।। साक्षादैक्याभावादिति ।। पाण्डवानां कुरुत्ववत् कुरूणां पाण्डवत्वाभावेन परस्परनिरूपितैक्याभावादित्यर्थः ।। न्यासावान्तरभेदत्वेनेति ।। संन्यासोहि काम्यकर्मत्यागः द्वेषत्यागः काङ्क्षात्याग इत्यनेकविधः । तत्र फलत्यागोपि प्रविष्ट इति तदवान्तरभेदत्वेनेत्यर्थः ।। ३ ।।
भावदीपः
त्यागस्य पृथक्त्वेनोक्तेरिति ।। ‘‘सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणा’’ इत्यष्टादशोक्तेरित्यर्थः ।। पृथगुक्तिरिति दशमस्कन्धे । अधिकारपदप्रयोगतात्पर्यमाह ।। ३ ।।
भावप्रकाशः
संन्यासः कर्मयोगश्चेत्यत्रेति प्रतीतिनिरासाह । सन्यस्तकर्मणामित्यादाविति ।। तत्रैवार्जुनेन सर्वकर्मपरित्यागपरत्वस्य शङ्कितत्वादिति भावः ।। संन्यासयोगशब्दयोर्यतिगृहस्थाश्रमपरत्वस्य शङ्कितत्वात्तदनुसारेणाह ।। एवं योगमातिष्टेत्यादाविति ।। काङ्क्षादिवर्जनस्येति ।। यद्यपि न द्वेष्टीत्युक्तत्वात् द्वेषादिवर्जनस्येति वक्तव्यम् ।। तथापि सर्वकामपरित्यागमित्यनेन कांक्षावर्जनस्यैव त्यागत्वेनोक्तत्वात्तद्विरोधं स्फोरयितुं एवमुक्तमिति द्रष्टव्यम् ।। साक्षादैक्याभावादिति ।। पाण्डवानां कुर्ववान्तरत्ववत् कुरूणां पाण्डवावान्तरत्वाभावादित्यर्थः ।। न्यासावान्तरभेदत्वेनेति । संन्यासस्य काम्यानां कर्मणां न्यासम् । ज्ञेयः स नित्यसंन्यासीत्युक्तरीत्याऽनेकविधत्वेन त्यागस्य तदवान्तरभेदत्वमित्यर्थः ।। ३ ।।