गीता
बहुरूपाणि हरेः
गीता
ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते ।
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ।। १५ ।।
तात्पर्यम्
‘एकमूर्तिश्चतुर्मूर्तिरथवा पञ्चमूर्तिकः ।
द्वादशादिप्रभेदो वा पूज्यते सज्जनैर्हरिः’ इति च ।। १५ ।।
प्रकाशिका
नित्ययुक्ता उपासते । एकत्वेनेत्यस्यार्थमाह ।। एकमूर्तिरिति ।। अस्यार्थः तन्त्रसारसङ्ग्रहे द्रष्टव्यः ।। १५ ।।
न्यायदीपिका
तत्रैकत्वेनेत्येतदन्यथाप्रतीतिनिरासाय स्मृत्यैव व्याचष्टे ।। एकेति ।। एकत्वेनेत्यादिपदचतुष्टयस्यैकमूर्तिरित्यादि यथाक्रमं व्याख्यानम् ।। १५ ।।
किरणावली
तत्रैकत्वेनेत्येतदिति ।। एकत्वेन सर्वाभिन्नत्वेन पृथक्त्वेन भिन्नत्वेन, बहुधा आदित्यादिरूपेणेति । भेदाभेदवादिरीत्या पृथक्त्वेनादित्यादिप्रतीकत्वेन, बहुधा, बहुजीवात्मनेति मायावादिरीत्या वाऽन्यथाप्रतीतिनिरासायेत्यर्थः ।। पदचतुष्टस्येति ।। विश्वतो मुखमिति द्वितीयान्तेन सह पदचतुष्टयं बोध्यम् ।। १५ ।।
भावदीपः
तदस्तीति ।। यत्प्रामाणिकमित्यर्थः ।। १५ ।।