गीता
त्रयोदशोऽध्यायः
शरीरक्षेत्रशब्दार्थः
गीता
अर्जुन उवाच—
प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च ।
एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव ।। १ ।।
तात्पर्यम्
सर्वार्थसंक्षेपोऽयम् ।। १ ।।
प्रकाशिका
सर्वान् संक्षिपति संक्षिप्य प्रतिपादयति इति सर्वार्थसंक्षेपोऽयमध्यायः इत्यर्थः
।। १ ।।
न्यायदीपिका
एतदध्यायप्रतिपाद्यमर्थं दर्शयति ।। सर्वेति ।। यत्प्रथमषट्के प्राचुर्येण ज्ञानसाधनमुक्तं यच्च द्वितीये भगवत्स्वरूपं निरूपितं, नत्वेवाहमित्यादौ यज्जीवस्वरूपं प्रदर्शितं, भूमिरापोऽनल इत्यादौ यत्क्षेत्रमभिहितं तद्विप्रकीर्णतयोक्तं सर्वं बुध्द्यारोहार्थं संक्षिप्यास्मिन्नध्याये प्रदर्शयतीत्यर्थः । सर्वेषामध्यायानामर्थान्संक्षिपति संक्षिप्य दर्शयतीति सर्वार्थसंक्षेपः ।। १ ।।
किरणावली
पूर्वोक्तज्ञानज्ञेयक्षेत्रपुरुषान्विविच्य दर्शयत्यनेनाध्यायेनेति भाष्यं मनसि निधाय सर्वार्थेति मूलार्थमाह ।। यदित्यादिना ।। नन्वस्याध्यायस्य सर्वाध्यायार्थसंक्षेपरूपत्वोक्तेः । कथमस्मिन्नध्यायेऽर्थात्संक्षिप्य दर्शयतीति व्याख्यानमित्यतः सर्वार्थसंक्षेपपदाक्षरार्थमाह ।। सर्वेषामिति ।। नायं संक्षेपशब्दो भावार्थः । किंतु कर्तरि निष्पन्नः सन् प्रदर्शनलक्षक इति भावेनोक्तम् ।। संक्षिपति संक्षिप्य प्रदर्शयतीति ।। प्रदर्शक इत्यर्थः । करणे कर्तृत्वोपचार इति ज्ञेयम् ।। १ ।।
भावदीपः
पूर्वोक्तज्ञानज्ञेयक्षेत्रपुरुषानित्यादिभाष्योक्तदिशा तात्पर्यवाक्यं विवृणोति ।। यत्प्रथमेत्यादिना ।। बहूनि मे व्यतीतानि जन्मानीत्यादेरपि कथनादुक्तं प्राचुर्येणेति ।। द्वितीय इति ।। षट्क इत्यनुषज्यते ।। न त्वेवाहमित्यादौ यज्जीवस्वरूपमिति ।। द्वितीयाध्यायादाविति योज्यम् । तत्र जीवस्वरूपोक्तेरेव प्राधान्यं भगवत्स्वरूपं तु तादर्थ्येनेति भावः ।। क्षेत्रमिति ।। क्षीयते हरिरत्रेति भगवदावासस्थानमुक्तमित्यर्थः । संक्षेपशब्दस्य भावार्थत्वेऽध्याहृताध्यायपदेन सामानाधिकरण्यायोगात्कर्तरि निष्पन्नः सन् प्रदर्शनलक्षक इति भावेनाह ।। संक्षिपति संक्षिप्य प्रदर्शयतीति । सर्वार्थसंक्षेप इति ।। संक्षिप्य प्रदर्शक इत्यर्थः । करणे कर्तृत्वोपचार इति भावः ।। १ ।।