तात्पर्यम्

तात्पर्यम्

सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम ।

देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ।।

इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ।

दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता ।।

मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ।

महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।।

भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ।

दर्शयात्मानमव्ययं’

दर्शयामास पार्थाय परमं रूपमैश्वरम् ।

इत्यादिनाऽर्जुनस्योत्तमाधिकारित्वमपरोक्षज्ञानित्वं च ।

न्यायदीपिका

यदुक्तमर्जुनो भगवतोऽतिप्रियो परोक्षज्ञान्युत्तमाधिकारी देवश्चेति । तत्केनावगम्यत इत्यत आह ।। सुदुर्दर्शमिति ।। सुदुर्दर्शमित्यनेनापरोक्षज्ञानित्वमवगम्यते ।। देवैःसह पठितत्वेन देवत्वं च ।। इष्टोऽसीति प्रियतमत्वम् ।। दैवीति देवत्वम् ।। महात्मान इत्यनन्यमनस्कतया भगवन्तं भजतां देवत्वमपरोक्षज्ञानित्वं चावगम्यते ।। तादृशभजनवतश्चार्जुनस्य तज्ज्ञायते ।। दर्शयामासेत्यपरोक्षज्ञानित्वं भगवदतिप्रियत्वं देवत्वं चेति संयोज्यम् ।। देवत्वेनैवोत्तमाधिकारित्वं चावगतम् ।।

यदुक्तं सर्वस्य भगवदधीनत्वं तत्केनावगम्यते ।। तथात्वे च तस्य सर्वस्माद्भेदेन सर्वस्यच सत्यत्वेन तस्य सर्वोत्तमत्वेन सर्वगुणपूर्णत्वेन निर्दोषत्वेनानन्याधीनत्वेन मोक्षप्रदत्वेन सर्वशास्त्रप्रतिपाद्यत्वेन च भाव्यम् । सर्वस्य तदधीनतायाः साक्षात्परंपरया चैतत्सापेक्षत्वात् । तदेतत्सर्वं केनावगम्यत इत्यत आह ।। नेति ।।

किरणावली

देवैः सह पठितत्वेनेति ।। ‘‘द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तमे’’त्यर्जुनकाङ्क्षानुसारेण रूपं दर्शयित्वा यन्मम रूपं दृष्टवानसि इदमन्यैर्मानुषादिभिः सुदुर्दर्शम् । यथा त्वं तथा देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिण इति देवैः सह तत्समानयोगक्षेमत्वेन पठितत्वादिति भावः ।।

इष्टोसीति प्रियतमत्वमिति ।। दृढं यथा भवति तथेष्टोऽसीत्यनेन प्रियतमत्वमवगम्यते ।। दैवीति देवत्वमि’’ति ।। दैवीसंपत् विमोक्षायेति श्लोके दैवीं संपदमभिजातोऽसीत्यनेन देवत्वमवगम्यते । दैवीं संपदमभिजातः प्रतिजातः । जातस्य तव दैवीसंपल्लक्षणमिति व्याख्यातत्वात् । अत एव विमोक्षायेति विशिष्टमोक्षायेत्युक्तमिति भावः ।। महात्मान इतीति ।। महात्मान इति श्लोके दैवीमित्यनेन देवत्वं ज्ञात्वेत्यनेनापरोक्षज्ञानित्वं चेत्यर्थः ।। तादृशभजनवत इति ।। देवानामपरोक्षज्ञानिनां चानन्यमनस्कतया भजनं लक्षणमित्युक्तया तादृशभजनवतोऽप्यर्जुनस्य तज्ज्ञायत इति भावः । ननु देवानामसंप्रज्ञातसमाध्यभावान्नियम्ये जगति मनोवृत्तिसद्भावात्कथमेतदिति चेन्न । महोद्योगेऽपीश्वरे मनश्चलनाभावात् अन्यत्र मनः प्रणिधानाभावे यद्भगवत्यचांचल्यं तस्य तैः प्राप्तत्वात् । गौण्याऽनन्यमनस्कतयेत्युक्तिसम्भवात् । यद्वा स्वनियम्ये भगवत्साक्षात्कारेण प्रतिमात्वेन तत्र मनः प्रणिधानादनन्यमनस्कत्वं बोध्यम् । स्वायोग्येषु दुर्विषयेषु मनस अप्रणिधानाद्वेयमुक्तिः ।

ननु मूले सुदुर्दर्शमित्यारभ्य परमं रूपमैश्वरमित्यन्तेन गीतावाक्यानां पठितत्वात्किमनेनावगम्यत इत्यतः अर्जुनस्योत्तमाधिकारित्वमपरोक्षज्ञानित्वं चावगम्यत इत्युक्तम् । भवद्भिस्तु यदुक्तमर्जुनो भगवतोऽतिप्रियोऽ परोक्षज्ञान्युत्तमाधिकारी देवश्चेति तत्केनावगम्यत इत्यत आह ।। सुदुर्दर्शमितीत्ययं प्रघट्टं अवतार्यैतदुपपादकतया व्याख्यातोऽतो मूलविसंवाद इत्यतोऽर्जुनस्योत्तमाधिकारित्वमपरोक्षज्ञानित्वं चेति चशब्देन भगवदतिप्रियत्वं देवत्वं च समुच्चीयतेऽतो न विसंवाद इत्याह ।। भगवदतिप्रियत्वं देवत्वं चेति संयोज्यमिति ।। मूले मुखत उपात्तस्योत्तमाधिकारित्वस्य पठितगीतास्ववगमकाभावात्कथं तस्य तत्रावगम इत्यत आह ।। देवत्वेनैवेति ।। अधिकार्युत्तमादेवा इति वक्ष्यमाणत्वादिति भावः । न च महात्मानस्तु मां पार्थेत्यत्रानन्यमनस्कतया भजतामुत्तमाधिकारित्वोक्तेस्तादृशभजनवतोऽर्जुनस्य तज्ज्ञायत इति देवत्वेनैवेत्ययुक्तमिति वाच्यम् । प्राप्तोत्तमाधिकारत्वे देवत्वस्यानादिनित्यसिद्धजातिलक्षणस्य योग्यतारूपस्य साक्षाद्धेतुत्वस्फुरणात् । महात्मान इत्यस्योत्तमचेतना इत्यर्थत्वेनाधिकारवन्त इत्येतदर्थकत्वाभावाच्चेति भावः ।। तथात्वे चेति ।। सर्वस्य तदधीनतायाः साक्षात्सर्वोत्तमत्वेनेत्यन्ते सापेक्षत्वं साक्षात्परंपरया च सर्वगुणपूर्णत्वेनेत्यादिसापेक्षत्वं अत एव परंपरया वेत्यनुक्त्वा परंपरया चेति चशब्दः । तथाहि । सर्वस्य तदभेदे असत्यत्वम् । तस्य सर्वोत्तमत्वाभावे च न सर्वस्य तदधीनत्वमिति । सर्वस्य तदधीनतायाः साक्षादेतत् सापेक्षत्वम् । सार्वज्ञसर्वशक्तयादिगुणहीनत्वेन सर्वनियामकत्वम् । ततश्च न सर्वस्य तदधीनत्वम् । जननमरणादिदोषवत्त्वेन सार्वकालिकवस्तुनियामकत्वम् । ततश्च न सर्वस्य तदधीनत्वम् । तदुत्पादकस्य मारकस्य च न तदधीनत्वम् । अन्याधीनत्वे तदनुमतिं विना प्रवृत्त्यभावः । ततश्च न सर्वनियामकत्वमिति न सर्वस्य तदधीनत्वम् । किञ्च । यदधीनोऽयं तस्यैतदनधीनत्वात् । न सर्वस्य तदधीनत्वम् । मोक्षाप्रदत्वे मोक्षस्यैतदनायत्तत्वात् न सर्वस्य तदधीनत्वम् । अन्यस्यैव मोक्षप्रदत्वम् । ततश्च मुमुक्षूणां तदधीनत्वमिति न सर्वस्य तदधीनत्वम् । सर्वशास्त्राप्रतिपाद्यत्वे शास्त्रैकदेशे शिवादेरेव सर्वप्राधान्योक्तेर्न सर्वस्य तदधीनत्वम् । मोक्षाप्रदत्वे मोक्षस्यैतदनायत्तत्वात् । शास्त्रैकदेशोक्तगुणपूर्त्यलाभेनापूर्णत्वेनाप्राधान्यमिति न सर्वस्य तदधीनत्वमित्यादिरूपेण साक्षात्परंपराभाव उपपादनीयः ।।

भावदीपः

इत्यनेनेति ।। इत्यर्धेनेत्यर्थः । साक्षात्परम्परयेति ।। निर्दोषत्वेनेत्यन्तस्य साक्षादपेक्षितत्वम् । अन्येषां तु परम्परया ।। अभिन्ने निस्स्वरूपे स्वस्मादुत्तमे वस्तुनि स्वस्य सार्वज्ञसर्वशक्त्यादिगुणहीनत्वेन, जननमृत्यादिदोषवत्त्वे सार्वकालिके सार्वदैशिके च सर्ववस्तुनि नियमनायोगात्, अन्याधीनत्वे तदनुमतिं विना स्वेच्छाऽदिद्वाराऽन्यस्यैव मोक्षहेतुत्वे पुमर्थदानद्वारा शास्त्रप्रतिपाद्यत्वस्यापि विधिनिषेधज्ञापनस्योपास्त्यादिद्वारा नियमनस्याकार्यत्वादिति भावः ।।

भावप्रकाशः

देवैः सह पठितत्वेनेति । यन्ममरूपं त्वं दृष्टवानसि अस्य रूपस्य नित्यं दर्शनकांक्षिणो ये देवास्तेऽपि यद्दृष्टवन्तः तदिदं सुदुर्दर्शमिति योजनां मनसि निधायैवमुक्तमिति भावः । संपदं दैवीमभिजातोऽसि पाण्डवेत्यस्य दैवीं संपदमभिजातः प्रतिज्ञातः जातस्य तव दैवीसंपल्लक्षणमित्यर्थ इति व्याख्यानं मनसि निधाय प्रकृतोपयोगमाह । दैवीति देवत्वमिति । देवत्वमपरोक्षज्ञानित्वं चावगम्यत इति । दैवीं प्रकृतिमाश्रिता इत्यनेन देवत्वं, ज्ञात्वेत्यनेनापरोक्षज्ञानित्वं चावगम्यत इत्यर्थः । उत्तमाधिकारित्वमपरोक्ष ज्ञानित्वं चेति चशब्दसमुच्चेयं दर्शयितुमाह । भगवदतिप्रियत्वमिति ।। प्रयोजनशून्यस्य भगवतः प्रीतिं विना स्वरूपप्रदर्शनयोगात् भगवत्प्रियत्वमित्युक्तम् ।

विश्वरूपं प्रथमतो ब्रह्मापश्यत् चतुर्मुखः ।

तच्छतांशेन रुद्रस्तु तच्छतांशेन वासवः ।

यथेन्द्रेण पुरादृष्टमपश्यत्सोऽर्जुनोपि संन्निति ।

एतद्व्याख्यानरूपं ब्राह्मवचनं मनसि निधायाह ।

देवत्वं चेतीति । देवत्वेनैवोत्तमाधिकारित्वमिति । अधिकार्युत्तमा देवा इति वचनादिति भावः साक्षात्परंपरयाचैतत्सापेक्षत्वादिति ।। सर्वस्माद्भेदादिकं साक्षात् सर्वगुणपूर्णत्वादिकं परंपरयाऽपेक्षितमिति भावः ।

वाक्यविवेकः

सुदुदर्शमित्यर्जुननिरूपणप्रसङ्गे देवा अप्यस्य रूपस्येति देवानां निरूपणं सहपाठः । तद्यथा अन्नमयपाठानन्तरं प्राणमयस्य पाठः । तयोः सहपाठ इत्युच्यत इति भावः ।।

ननु अर्जुनो भगवतोऽतिप्रियोऽपरोक्षज्ञानी उत्तमाधिकारी देवश्च कुत इति धर्मचतुष्टयप्रश्ने द्वयोरेव कथनमसङ्गतमित्यत आह ।। भगवदतिप्रियत्वमिति ।