तात्पर्यम्

तात्पर्यम्

ओयत्वादहंनामा भगवान्हरिख्ययः ।

ब्रह्मासौ गुणपूर्णत्वादस्म्यसावसनान्मितेः ।

असनादसिनामाऽसौ तेजस्त्वात्त्वमितीरितः ।

सर्वैः क्रियापदैश्चैवं सर्वैर्द्रव्यपदैरपि ।

सर्वैर्गुणपदैश्चैव वाच्य एको हरिः स्वयम् ।

युष्मत्पदैः प्रातियोग्यात्तद्युतैश्च क्रियापदैः ।

अस्मत्पदैरान्तरत्वात्क्रियार्थैश्च तदन्वयैः ।

परोक्षत्वात्तत्पदैश्च मुख्यवाच्यः स एव तु ।

सर्वान्वेदानधीत्यैव प्रज्ञाधिक्येन हेतुना

श्वेतकेतुरहङ्कारात्प्रायशो नास्मि मानुषः ।

देवो वा केशवांशो वा नैषा प्रज्ञाऽन्यथा भवेत् ।

एवं महत्त्वबुद्ध्यैव दर्पपूर्णोऽभ्यगात्पितुः ।

सकाशमकृताचारं तं दृष्ट्वा स्तब्धमज्ञवत् ।

पितोवाच कुतः पुत्र स्तब्धता त्वामुपागता ।

प्रायो नारायणं देवं नैव त्वं पृष्टवानसि ।

यस्मिञ्ज्ञाते त्वविज्ञातज्ञानादीनां फलं भवेत् ।

प्राधान्यात्सदृशत्वाच्च तदधीनमिति स्फुटम्।

तत्सृष्टं चेति विज्ञातं फलवद्धि भवेज्जगत् ।

स्वातन्त्र्येणास्य विज्ञानं मिथ्याज्ञानमनर्थकृत् ।

प्रकाशिका

अहं ब्रह्मास्मि तत्त्वमसि’ इत्याद्या श्रुतिर्व्याख्यायते । ओयत्वादित्यादिना ।। सर्वान्वेदानधीत्य महामना अनूचानमानी स्तब्ध एयाय । तं ह पितोवाच श्वेतकेतो यन्नु खलु सोम्येदं महामना अनूचानमानी स्तब्धोऽसि । उत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवति, अमतं मतमविज्ञातं विज्ञातमिति ।। यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्यात् वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ।। ‘सदेव सौम्येदमग्र आसीत्’ एकमेवाद्वितीयं तदैक्षत बहुस्यां प्रजायेयेति । तत्तेजोऽसृजत । सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः’ इत्येताः श्रुतीर्व्याचष्टे ।। सर्वान्वेदानित्यादिना । अनयोर्यथाक्रमं श्रुत्यादिविरोधात् ‘स य एषोऽणिमा एैतदात्म्यमिदं सर्वं स आत्मा तत्त्वमसि श्वेतकेतो इत्येषा श्रुतिर्जीवेशाभेदपरा नेत्याह ।। सुसूक्ष्मेति ।।

न्यायदीपिका

‘अहं ब्रह्मास्मि’ ‘तत्त्वमसीति’ श्रुतिद्वयं व्याचष्टे ।। ओयत्वादिति ।। असनान्मितेरिति स्वस्मिन्परिमितेर्निरासादित्यर्थः । विरोधिनां निरसनात्प्रमितिरूपत्वाच्चेतिवा । त्विट्(त्विङ्)प्रकाशन इति धातोस्तेजस्त्वात्त्वमितीरितः । न केवलमेतच्छब्दवाच्यत्वं हरेरपितु सर्वशब्दवाच्यत्वं चेत्याह ।। सर्वैरिति ।। सर्वशब्दवाच्यत्वेपि रूपविशेषनियमोस्तीत्याह ।। युष्मदिति ।।

तत्त्वमसी’ति वाक्यं नाभेदपरम् । पूर्वोत्तरवाक्याननुसारित्वादिति भावेनादित एव प्रकारान्तरेण व्याक्रियते । तत्र सर्वान्वेदानधीत्य महामना अनूचानमानीस्तब्ध एयायेत्येतद्व्याक्रियते ।। सर्वानिति ।। तं ह पितोवाच श्वेतकेतो यन्नु खलुसोम्यैवं महामना अनूचानमानी स्तब्धोऽस्युत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातं भवतीत्येतद्व्याक्रियते ।। अकृताचारमिति ।। आदिश्यत इत्यादेशो नारायणः ज्ञाते श्रुते मतेच ।। अविज्ञातज्ञानादीनामिति ।। अविज्ञाता श्रुतामतज्ञानश्रवणमननानामित्यर्थः । अविज्ञातान्यज्ञानादीनां यत्फलं तत्तदभावेपि भगवज्ज्ञानादिमात्रेणापि भवतीत्यर्थः । अविज्ञातान्यज्ञानादीनां जातानामपि यत्फलं तदपि भगवज्ज्ञानादौ जात एव जातं भवतीति च । परमात्मज्ञानादौ सत्यन्यदज्ञाताद्यपिज्ञातादिवद्भवतीति वा । एवंविधत्वादीश्वरस्य तज्ज्ञानेस्वात्मनोत्यंताधमत्वज्ञान सम्भवेन केशवोऽस्मीत्याद्यभिमानायोगान्नासौ त्वया पृष्ट इति भावः । तत्राद्ययोजनाद्वये प्राधान्यं हेतुः । तृतीय योजनायां सादृश्यं हेतुः । जातमपि जगज्ज्ञानादि परमात्मज्ञानादौ सत्येव सफलमितिकथमित्यत आह ।। तदधीनमिति ।। भगवज्ज्ञानादितावदेवं भवति । वशीकृतविश्वो जगत्सृष्ट्यादिकर्तेश्वर इति । एवं च भगवज्ज्ञानादौ सति जगत्तदधीनमिति ज्ञानादिकं दृढं भवति । ततश्च मोक्षादिफलं भवतीत्यर्थः ।

एवमज्ञातस्यापि जगतो ज्ञानादिना फलं किं न स्यादित्यतः का फलप्रत्याशा प्रत्युतानर्थ एव भवतीत्याह ।। स्वातन्त्र्येणेति ।। उक्तरीत्या भगवज्ज्ञानाद्यभावे जगतः स्वातन्त्र्येणैव ज्ञानादि प्राप्यते । तच्च मिथ्याज्ञानत्वादनर्थकृदित्यर्थः ।

किरणावली

यदि जीवस्येति ।। त्विट्प्रकाशन इति धातोरिति ।। त्विषदीप्ताविति धातोर्डप्रत्यये टिलोपाभिप्रायेण वा प्रकृत्यन्तराभिप्रायेण वा एवमुक्तम् । त्विङ् प्रकाश इति धातोरिति क्वचित्पाठः । सर्वैः क्रियापदैश्चैवेत्यादावेकस्यैवकारस्यैक एवेत्यन्वयः । अन्यस्य वाच्य एव । न तु लक्ष्य इति वा प्राधान्येन वाच्य इति वार्थः । अत एव मुख्यवाच्यः स एव त्विति वक्ष्यति । प्रातियोग्यात् प्रतियोगित्वादाभिमुख्येन स्थितत्वादिति यावत् । तद्युतैर्युष्मच्छब्दरूपघटितैः क्रियापदैः । त्वमसीत्यादिभिः । अस्मत्पदैरस्मच्छब्दरूपैः तदन्वितैरहमस्मीत्यादिभिः ।।

प्रकारान्तरेणेति ।। पदसमन्वयमङ्गीकृत्य तेजस्त्वात्त्वमितीरित इत्युक्तत्वात् । वाक्यान्वयपक्षं चाङ्गीकृत्य तत्परोक्षं ब्रह्मत्वं मदभिमुखोऽसीति च व्याख्यातत्वात् भेदपरतया प्रकारान्तरेणेत्यर्थः । सर्वान्वेदानधीत्यैवेति मूले अनूचानमानी सर्ववेदार्थज्ञोऽहमित्यहङ्कारादित्युक्तेऽहंकारे प्रज्ञाधिक्यं हेतुस्तत्र सर्ववेदाध्ययनं हेतुरहङ्कारश्च महामनस्त्वे हेतुस्तच्च स्तब्धतायामिति भावेनोक्तम् ।। सर्वान्वेदानित्यादि ।। महामना इत्यस्याहं महान्देवो वा केशवांशो वेति मनो यस्य स इत्यर्थमभिप्रेत्योक्तं प्रायश इत्यादि ।

स्तब्धपदस्यार्थो दर्पपूर्ण इति ।। व्याक्रियत इति ।। तमकृताचारं स्वाभिवन्दनादिसदाचाररहितम् । अज्ञवत्सर्वथा धर्मशास्त्रानभिज्ञवत् स्तब्धं दृप्तं पुत्रं दृष्ट्वा पितोवाच । किमिति । नारायणं देवं यदि पृष्टवानसि तर्हि त्वां स्तब्धता कुत उपागता स्यान्नोपागतैव स्यादुपागता चेदानीं त्वां स्तब्धता तं प्रायो नारायणं देवं नैव त्वं पृष्टवानसीति योजना । एतेन सोम्य ज्ञानाख्यसोमपानार्ह श्वेतकेतो यद्यस्मान्नु इदानीं महामना अनूचानमानी स्तब्धोऽसि ।

उत तस्मात्तमादेशमप्राक्ष्य उत पृष्टवानसि किं नैव पृष्टवानसीति योजनोक्ता भवति । नारायणं देवमित्यस्य व्याख्येयं दर्शयति ।। आदिश्यत इत्यादेशो नारायण इति ।। गुरुं प्रति भगवद्विषयप्रश्ने कृते तदुपदेशेन ब्रह्मणि ज्ञाते स्तब्धता न स्यात् । उपदेशस्य स्तब्धतानिवर्तकत्वादस्ति च स्तब्धता तोन प्रश्नमूलकगुरूपदेश इत्युक्तम् । कथं प्रश्नमूलकगुरूपदेशप्राप्तब्रह्मज्ञानस्य स्तब्धतानिवर्तकत्वमित्यतो ब्रह्मज्ञानस्वरूपमर्थवादरूपेणोच्यते येनाश्रुतमित्यादिना ।

कथं ब्रह्मश्रवणमननविज्ञानैरश्रुतादिश्रवणादिकमतिप्रसङ्गादित्यतस्त्रेधा तदुपपादनाय यस्मिन् ज्ञाते त्वविज्ञातेति मूलवाक्यं प्रवृत्तम् । अत्र ज्ञानादीनामिति श्रवणात्तदनुसारेण ज्ञात इत्येतदुपलक्षणमिति मत्त्वाह ।। ज्ञाते श्रुते मते चेति ।। अविज्ञातेत्येतदपि अश्रुतमतमविज्ञातमिति श्रुत्यनुसारेणोपलक्षणं मत्वाह ।। अविज्ञातेति ।। अविज्ञातान्येति ।। यान्यविज्ञाताश्रुतामतान्यन्यानि त द्विषयाणि यानि ज्ञानादीनि तेषां यत्फलं स्वर्गादिसम्भावितम् । तत्तदभावेऽपि ज्ञानाद्यभावेपि वक्ष्यमाणरीत्या सर्वप्रधानत्वेन भगवज्ज्ञानादिमात्रेणेत्यर्थः ।। अविज्ञातान्येति ।। यत् फलं मोक्षादि । भगवज्ज्ञानादौ सर्वप्रधानत्वेन भगवज्ज्ञानादौ । परमात्मज्ञानादौ सति निरवधिकसत्ताकत्वेन ज्ञानानन्दादिपूर्णत्वेन च परमात्मज्ञानादौ सति अन्यद्विविच्योपदेशेनाविज्ञाताद्यपि वक्ष्यमाणरीत्या प्रामाणिकत्वसत्वादीषत्सादृश्येनानुभवसिद्धेन ज्ञातादिवत् भवति । यथाविविच्योपदेशेन ज्ञातं व्यवहारावलंबनं भवति तथा नाहं त्रिकालातीततया निरवधिकसत्ताकः पूर्णज्ञानादिमांश्च किं त्वत्यल्पक एवेत्यभिज्ञाभिलपनव्यवहारावलंबनं भवतीत्यर्थः । एतेनाविज्ञातज्ञानादीनां फलं व्यवहाररूपं भवेदित्यर्थ उक्तो भवति ।

ब्रह्मज्ञानेन स्तब्धतानिवृत्तौ हेतुकथनायैव येनाश्रुतमित्यर्थवाद आरब्धः । तेन कथं तदुपपादितमित्यतो भावमाह ।। एवंविधत्वादिति ।। सर्वप्राधान्यपरिपूर्णानन्दत्वादिप्रकारकज्ञानस्यैवं विधत्वाद्देवताकर्मादिविषयज्ञानाभावेऽपि तत्फलहेतुत्वात् । तद्भावेऽपि मोक्षादि रूपतत्फलपर्यवसानहेतुत्वान्नाहं सर्वज्ञः पूर्णानन्दः । किंतु किञ्चित्सादृश्यवानत्यल्पक एवेत्यभिज्ञाभिलपनहेतुत्वाच्चेत्यर्थः ।। तत्राद्ययोजनाद्वय इति ।। आद्ययोजनाद्वयलब्धे मोक्षादिफलमादायैकविज्ञानेन सर्वविज्ञाने प्राधान्यमुपपादकमित्यर्थः । प्राधान्यं च द्विविधं वशीकृतविश्वत्वं जगत्सृष्ट्यादिकर्तृत्वं च । तदुभयमेकीकृत्येह प्राधान्यात्सदृशत्वाच्चेति हेतुद्वयमुक्तम् । विष्णुतत्त्वनिर्णये तु प्राधान्यं द्वेधा विभज्य एकविज्ञानेन सर्वविज्ञानं च प्राधान्यात् किञ्चित्सादृश्यात्कारणत्वाच्चेत्युक्तमित्यविरोधः ।। तदधीनमित्यादीति ।। तद्वशं तत्सृष्टमित्यादि ज्ञानमननादिकमित्यर्थः ।

भावप्रकाशः

असनान्मितेरित्यस्य प्रत्येकं हेतुत्वे स्वस्मिन् परिमितेरभावादसिद्धिः स्यादत आह ।। स्वस्मिन्परिमितेरिति । असुक्षेपण इति धातुं मनसि निधायाह । निरसनादिति । प्रत्येकं हेतुत्वमङ्गीकृत्य प्रकारान्तरेण व्याचष्टे ।। विरोधिनामिति । तेजस्त्वेऽपि त्वमितिशब्दवाच्यत्वं कथमित्यत आह । त्वीति धातोरिति । त्विषदीप्ताविति धातोर्डप्रत्यये टिलोपाभिप्रायेण वा प्रकृत्यान्तराभिप्रायेण वा एवमुक्तमिति भावः ।। तद्युक्तैश्च क्रियापदैरिति युष्मद्युपपदे विहितोत्तमपुरुषोपेत क्रियापदैरित्यर्थः । एवमेव क्रियार्थैश्च तदन्वयैरित्येतदपि व्याकर्तव्यम् । मुख्यवाच्यः स एव त्विति मूले स एव वाच्य इत्युक्ते धर्माद्यसिद्धिः स्यादतो मुख्यवाच्य इत्युक्तम् । तर्हि धर्मादिकं लक्षणया प्रतिपाद्यं किमिति प्रतीतिनिरासाय तुशब्दः । एवं च परमात्मा परममुख्यवाच्यः धर्मादिकं तु मुख्यवाच्यमिति सिध्यतीति भावः ।।

प्रकारान्तरेणेति । भेदपरत्वेनेत्यर्थः ।। अथवा तेजस्त्वात्त्वमितीरित इति पूर्वमेकप्रकारेण व्याख्यातत्वात्प्रकारणान्तरेणेत्युक्तम् ।। अनूचानमानीति ।। सर्ववेदवत्वाभिमानवानित्यर्थः ।। अनूचानः सर्ववेदीत्यभिधानात् । श्वेतकेतो इति । हे सौम्यज्ञानाख्य सोमपानार्हश्वेतकेतो नु इदानीं यत् यस्मात्कारणात् एवं स्तब्धोसि उत तस्मात्तमादेशमप्राक्ष्यः किन्ना प्राक्ष्य इत्यर्थः ।। नारायणं देवमित्येतदादेशशब्दार्थकथनमित्याह । आदिश्यत इतीति । ज्ञात इत्येतत् अविज्ञा ज्ञानादीनामित्युत्तरवाक्यगतादिशब्दानुसारेण व्याचष्टे ।। ज्ञाते श्रुते मते चेति ।। अविज्ञातज्ञानादीनामित्येतद्येनाश्रुतमिति श्रुत्यनुसारेण व्याचष्टे ।। अविज्ञाताश्रुतेति । तत्राद्ययोजनाद्वये प्राधान्यं हेतुरिति । यद्यपि विष्णुतत्वविनिर्णये एकज्ञानेन सर्वविज्ञानं च प्राधान्यात् किचित्सादृश्यात्कारणत्वाच्चेति । एकविज्ञानेन सर्वविज्ञाने हेतुत्रयमुक्तं तथापि कारणत्वस्य प्राधान्यज्ञप्त्यर्थत्वेन साक्षाद्धेतुत्वाभावात् अत्र हेतुद्वयमेवोक्तमिति भावः । भगवद्ज्ञानादावित्यादिपदेन श्रवणमनने ग्राह्ये इत्यादीत्यादिपदेन तत्सृष्टमिति ग्राह्यम् । मोक्षादीत्यादिपदेन स्वर्गादिग्रहणम् ।।

वाक्यविवेकः

त्वीति धातोरिति । अत्र त्विषधातोरित्येव पाठः । त्वीति धातोरिति पाठस्तु प्रक्षिप्त इति बोध्यम् ।

वाक्यसमन्वयेन श्रुतिद्वयं व्याख्यातुमाह । सर्वशब्दवाच्यत्वेऽपीति । मूले युष्मत्पदेनेति । यथा एका स्त्री दारा इति पुल्लिङ्गबहुवचनान्तशब्देन वाच्या भवति । तदनुसारेण प्रयुक्तेन आगता इति बहुवचनान्तशब्देन वाच्या भवति । तथा अभिमुखपुरुषान्तर्गतभगवद्रूपविशेषः युष्मत्पदैर्वाच्यः ।। युष्मादि मध्यम इति वचनानुसारेण प्रयुक्तैः मध्यमपुरुषपदैश्च वाच्यः । अस्मद्युत्तम इति वचनानुसारेण प्रयुक्तैरुत्तमपुरुषपदैश्च वाच्यः इत्यर्थः । एतेन तत्वमसीति वाक्यस्य त्वं सम्बोध्यपुरुषगतं रूपं तत् ब्रह्म असि भवतीत्यर्थः । तथा अहं ब्रह्मास्मीति वाक्यस्य अहं मदन्तर्गतं रूपं ब्रह्म अस्मि भवतीत्यर्थः सूचितो भवतीति बोध्यम् ।

मूले अकृताचारमिति । अकृतवन्दनाद्याचारमित्यर्थः । आदेशमिति श्रौतपदस्य नारायणमिति कथं व्याख्यानमित्यत आह । आदिश्यत इतीति । अज्ञानादीनां फलं भवेदिति वाक्यं प्रतीकतयोपादाय पदार्थकथनपूर्वकं वाक्यार्थमाह । अविज्ञातज्ञानादीनामितीति । अविज्ञातपदमश्रुतामतयोरुपलक्षणमिति भावः । अस्यैव वाक्यस्य अर्थान्तरमाह । अज्ञातान्यज्ञानादीनामिति । अर्थान्तरमाह । परमात्मज्ञानादाविति । आद्ययोजनाद्वय इति । जगद्ज्ञानाभावेऽपि ब्रह्मज्ञानेनैव तत्फलं भवतीत्याद्ययोजनायां ब्रह्मज्ञानेन जगद्ज्ञानफलं कुतो भवति वैपरित्यं किन्नस्यात् इत्याशङ्कानिरासाय इश्वरस्य प्राधान्यं हेतुत्वेनोच्यते । तथा जगज्ज्ञाने सत्यपि न फलं किन्तु ईश्वरज्ञानसंपत्यनन्तरं फलं भवतीति द्वितीय योजनायां कुत एवमभ्युपेयं वैपरीत्यं किं न स्यात् इत्याशङ्कानिवारणाय ईश्वरस्य प्रधान्यहेतुत्वभावात् योजनाद्वये प्राधान्यं हेतुरित्यभिधानमयुक्तमिति निरस्तम् । तृतीययोजनायां ईश्वरे ज्ञाते अन्यत् ज्ञातमित्यस्य किं निमित्तमिति यः प्रश्नः तत्परिहारे सादृश्यं हेतुरित्यर्थः । भगवज्ज्ञानादि तावदेवमिति । आदौ जगद्ज्ञानं भवति । तेन फलं न भवति । उक्तप्रकारेणेश्वरज्ञाने सर्वजगदीश्वराधीनमिति ज्ञानं भवति । तेन ज्ञानेन प्रसन्नात् परमेश्वरात् जगज्ज्ञानफलं भवतीति भावः ।