गीता
गीता
उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ।
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ।। ५ ।।
बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः ।
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ।। ६ ।।
तात्पर्यम्
‘उद्धरेतैव संसाराज्जीवात्मानं परात्मना ।
विष्णुर्बन्धुः सतां नित्यं परात्मा ह्यसतामरिः ।
तत्प्रसादजया भक्तया जितो यस्य वशेत्विव ।
वर्तते तस्य मित्रं स तदन्यस्य च शत्रुवत्’ इति च ।
‘परमात्मा समाहितः’ इति वाक्यशेषाच्च ।। ५, ६ ।।
प्रकाशिका
उद्धरेदित्यादि व्याचष्टे ।। उद्धरेतैवेत्यादिना ।। ‘जितात्मनः प्रशान्तस्य परमात्मा समाहितः’’ इति वाक्यशेषात् ‘‘बन्धुरात्मेत्यादिरुक्तार्थो युज्यत इत्यर्थः ।। ५,६ ।।
न्यायदीपिका
योगारोहस्य भगवत्प्रसादो मुख्यसाधनमित्युच्यते ।। उद्धरेदिति ।। तत्रात्मपदं जीवादिमात्रविषयं न परमात्मविषयमित्यन्यथाप्रतीतिनिरासाय स्मृत्यैव व्याचष्टे ।। उद्धरेदिति ।। कुतः परमात्मना स्वात्मानमुद्धरेदित्यत आह ।। विष्णुरिति ।। कीदृशाः सन्तः कीदृशा असन्त इत्यत उक्तं विवृणोति ।। तदिति ।। तदन्यस्य भक्तयाऽवशीकृत परमात्मनः पुरुषस्य इतोप्यत्रात्मपदेन परमात्मग्रहणं युक्तमित्याह ।। परमात्मेति ।। येन आत्मावशीकृतस्तस्यासौ बन्धुतया किं करोतीत्यपेक्षायां वाक्यशेषे वशीकृतोसौ परमात्मा तस्य हृदि सम्यगाहितो भवतीत्युक्तत्वात्पूर्वमप्यात्मपदेन परमात्मैवोच्यत इति ज्ञायत इति भावः ।। ५,६ ।।
भावदीपः
योगारोहस्येति ।। उपायसंपूर्तेरित्यर्थः ।