तात्पर्यम्

तात्पर्यम्

न च सदसद्विलक्षणं किञ्चिदस्तीत्यत्र किञ्चिन्मानम् । न चासतः ख्यात्ययोगात्सतो बाधायोगादुभयविलक्षणं भ्रान्तिविषयम् । असतः ख्यात्ययोगादिति वदतोऽसतः ख्यातिरभून्न वा । यदि नाभून्न तत्ख्यातिनिराकरणम् । यद्यभूत्तथापि । न चासतोऽसत्वेन भ्रान्तौ सत्वेन च ख्यातिर्नास्तीत्यत्र किञ्चिन्मानम् । असद्व्यवहारलोपप्रसङ्गाच्च । यदविद्यमानं रूपं तस्य सत्त्वेन प्रतीतेरेव भ्रान्तित्वाच्च ।

प्रकाशिका

यथानाशान्यथानुपपत्त्या न सद्वैलक्षण्यं घटादेः । सतो नाशसम्भवात् । एवं प्रतीत्यन्यथानुपपत्त्या नासद्वैलक्षण्यं शुक्तिरजतादेः भ्रान्तिविषयस्यासतः प्रतीतिसम्भवादित्याह ।। न च सदसदिति ।। असत्ख्यातिं विवृणोति । न चासत इत्यादिना ।। भ्रान्तौ सत्त्वेन ख्यातिरसतो विद्यते इत्येतद्विवृणोति ।। यदविद्यमानमित्यादिना ।। तस्मान्नासद्वैलक्षण्यं भ्रान्तिविषयस्य प्रपञ्चस्य सत्त्वाभावं श्रुतिर्दूषयति विश्वं सत्यमित्यादिना ।।

न्यायदीपिका

यदपि सदसद्धिलक्षणत्वं विश्वस्यानेन श्लोकेनोच्यत इति व्याख्यानं तन्निराचष्टे ।। नचेति ।। सदसद्विलक्षणं किञ्चिदपि न प्रामाणिकम् । कुतो विश्वमित्यर्थः । नन्वसतो भावो भानं ख्यातिर्नविद्यते सतोऽभावो बाधोन विद्यते । अतस्तदुभयवतो भ्रमविषयस्यार्थापत्त्या सदसद्विलक्षणत्वात्कथं सदसद्विलक्षणं किञ्चिदपि न प्रामाणिकमित्यत आह ।। नचेति ।। यद्भ्रमविषयस्य शुक्तिरजतादेः सद्धैलक्षण्यमुक्तं तदङ्गीक्रियत एव ख्यात्यनुपपत्त्या यद सद्वैलक्षण्यमुक्तं न तद्युक्तम् । तथाहि । असतः ख्यातिरनुपपन्नेति किमसत्त्वेनोतसत्त्वेन । आद्ये विकल्पयति ।। असत इति ।। द्वितीयं दूषयति ।। यदीति ।। प्रतीत एव धर्मिणि धर्मनिषेधस्य दृष्टत्वादसतो प्रतीतौ न तत्र प्रतीतत्वधर्मो निषेद्धूं शक्यत इति भावः । आद्यं पराह ।। यदीति ।। तथापि न तत्ख्यातिनिराकरणं सम्भवति । व्याघातादिति भावः ।। द्वितीयेपि किं भ्रान्तावभ्रान्तौ वा असतः सत्वेन ख्यात्ययोगः । द्वितीयोऽनङ्गीकारपरास्तः । प्राचीनपक्षे दूषणान्तरं वदन्नाद्यं दूषयति ।। नचेति ।। प्राचीनपक्षे दूषणान्तरमाह ।। असदिति ।। न केवलमसतोऽप्रतीतौ तद्धर्मनिराकरणानुपपत्तिरपि तु न कोपि व्यवहारस्तत्र युज्यते । सर्वव्यवहाराणां प्रतीतिमूलत्वादिति भावः । असतो भ्रान्तौ सत्त्वेन प्रतीत्यभावे न मानमित्युक्तम् । तद्भावोपि कुत इत्यत आह ।। यदिति ।। शुक्तयादेरधिष्ठानस्य योऽसद्रजताद्याकारस्तस्य सत्त्वेन प्रतीतेरेव भ्रान्तित्वात् । भ्रान्तावसतः सत्वेन प्रतीत्यनङ्गीकारे भ्रान्त्युच्छेदप्रसक्तेः सा अङ्गीकार्येति भावः ।

किरणावली

गीताव्याख्यानसमये अनिर्वचनीयभङ्गारम्भणमसङ्गतमित्यतोऽवतारयति ।। यदपीति ।। भास्करकृतमपव्याख्यानं निरस्य मायावादिकृतं यदपव्याख्यानं तदपि निराकरोतीत्यर्थः । अत्र मूले न च सदसद्विलक्षणं किञ्चिदस्तीत्यत्र किञ्चिन्मानमित्येकः पाठः । तदनुसारेण टीकायां सदसद्विलक्षणं किञ्चिदपि न प्रामाणिकं कुतो विश्वमित्यर्थः । नन्वसतो भावो भानं ख्यातिर्न विद्यते सतोऽभावो बाधो न विद्यतेऽतस्तदुभयवतो भ्रमविषयस्यार्थापत्त्या सदसद्विलक्षणत्वात्कथं सदसद्विलक्षणं किञ्चिदपि न प्रामाणिकमित्यत आह ।। नचेति ।। यद्भ्रमविषयस्येति पर्यन्तमेकः पाठः । अस्यार्थः । मूले न किञ्चिन्मानमित्युक्तत्वात्किञ्चिदपि न प्रामाणिकमित्युक्तम् । आद्येन किञ्चिच्छब्देन लब्धमाह ।। कुतो विश्वमिति ।। विश्वमित्यतः परं येन न विश्वसदसद्वैलक्षण्यस्यैतच्छ्लोकार्थत्वं स्यादिति वाक्यशेषः ।

ननु नास्माभिःप्रमाणं मृग्यं अस्मिन्नेव श्लोके शुक्तिरजतादेरर्थापत्त्या सदसद्वैलक्षण्यस्योक्तत्वादिति भावेन शङ्कते ।। नन्विति ।। भावो भानं ख्यातिरिति ।। भवतेरनुभवार्थत्वान्न भावोऽनुपलब्धेरिति प्रयोगाच्चेति भावः । स्पष्टमेतत्सुधायाम् ।। अभावो बाध इति ।। नञो विपरीतार्थकत्वाद्विपरीतप्रमाबाध इति भावः । स्पष्टमेतत्सुधायां ।।

न च सदसद्विलक्षणं किंचिदस्तीत्यत्र मानमिति मूले परःपाठः । तदनुसारेण टीकायां मानं तत्प्रतिपादकोऽयं श्लोक इति संबध्यते । तत्प्रतिपादकत्वेनाप्रतीतेरिति भावः । नन्वसतो भावः भानं ख्यातिर्न विद्यते । सत अभावो बाधोन विद्यतेऽतस्तदुभयवतो भ्रम विषयस्यार्थापत्त्या सदसद्विलक्षणत्व मित्यत्र स्फुटं प्रतीतेः कथमयं श्लोको न तत्र मानमित्यत आह ।। नचेति ।। कथं चित्प्रतीतोऽपि युक्तिपराहतत्वान्न परमार्थ इति भावः । कथमिति चेत् यद्भ्रमविषयस्येति पर्यन्तमपरःपाठः । अस्यायमर्थः । मूले मानमित्यनूद्य तदर्थं च वदन् (दिक्) सम्बन्धं दर्शयति ।। मानमिति ।। न चाविद्यमानविद्यमानयोरुत्पत्तिनाशनिषेधकोऽयं श्लोक इति पूर्वग्रन्थात् मण्डूकप्लुत्याऽयं श्लोक इति सम्बध्यत इत्यर्थः । कथञ्चित्प्रतीतेऽपीति । भावाभावशब्दयोःख्यातिबाधवाचकत्वस्योक्तरीत्या कथञ्चित्कल्प्यत्वादिति भावः ।

श्रीमत्पद्मनाभतीर्थभट्टारकविरचितायां प्रकाशिकायां ‘‘न च सदसद्विलक्षणे नासत’’ इति श्लोकः प्रमाणं अन्यार्थत्वेनोक्तत्वादित्यर्थस्योक्तत्वात् । न च सदसद्विलक्षणं किञ्चिदस्तीत्यत्र मानमिति मूलपाठस्तदभिप्रेत इति भाति ।।

द्वितीयं दूषयतीति ।। अभावस्य भावप्रतीतिसापेक्षप्रतीतिकत्वेन प्रथमं निर्देशेऽपि पराभिमतत्वात् द्वितीयं प्रथमं दूषयतीत्यर्थः ।। व्याघातादिति ।। ख्यातिरभून्न वेत्यस्माभिः पृष्टे ख्यातिरभूदिति वदसि ख्यातिर्नास्तीति च निषेधसि । तथा च स्ववचनव्याघातः । यद्वा असज्जानासि ख्यातिर्नास्तीति च वदसि । तथा च स्वक्रियया ज्ञानलक्षणया व्याघातः ।। प्राचीनपक्षे दूषणान्तरमिति ।। एतेन न चासतो असत्वेन ख्यातिर्नास्तीत्यत्र किञ्चिन्मानमिति । न चासतो भ्रान्तौ सत्वेन च ख्यातिर्नास्तीत्यत्र किञ्चिन्मानमिति च विभज्य मूलं योज्यमित्युक्तं भवति । प्राचीनपक्षे असतो असत्वेन प्रतीतिर्नास्तीति पक्षे दूषणान्तरमित्यर्थः । दूषणान्तरत्वस्पष्टनाय चशब्दसमुच्चेयमाह ।। न केवलमिति ।। तद्धर्मेति ।। तत्तत्र प्रतीतत्वरूपधर्मनिराकरणानुपपत्तिरित्यर्थः । असद्व्यवहारलोपेति मूले असति सर्वव्यवहारलोपप्रसङ्गादित्यर्थमभिप्रेत्याह ।। न कोऽपि व्यवहारस्तत्रेति ।। असदत्यन्ताभावप्रतियोग्यप्रामाणिकं सकलक्रियाविधुरमित्यादिरूपः कोऽपि व्यवहार इत्यर्थः ।। तद्भावोऽपीति ।। भ्रान्तावसतः सत्वेन प्रतीतिभावोऽपि कुतः प्रमाणादित्यर्थः । एतावतासतो भ्रान्तौ सत्त्वेन प्रतीतिसद्भावे किं प्रमाणमुपन्यस्तमित्यतो भ्रान्त्यन्यथानुपपत्तिरेवेत्याह ।।

भ्रान्तावसतःसत्त्वेनेति ।। भ्रमत्वोपपत्तेरिति ।। ममानिर्वचनीयख्यातिवादित्वादिति भावः । अनिर्वचनीयत्वपक्षेऽपि सदिदं रजतमित्यविद्यमानसत्त्वप्रतीतिं विना न हि भ्रान्तित्वमिति मूले अनिर्वचनीयत्वपक्षेऽप्यविद्यमानस्यासतः सत्त्वप्रतीतिं विना न भ्रान्तित्वमित्यंशं तावद्योजयति ।।

भावदीपः

भ्रमविषयस्येति ।। शुक्तिरूप्यादेः ख्यातिबाधान्यथानुपपत्तिरूपार्थापत्त्येत्यर्थः ।। प्राचीनपक्ष इति ।। असतोऽसत्त्वेन प्रतीतिर्नेति पक्षे मानाभावरूपदूषणान्तरमित्यर्थः ।। चशब्दार्थमाह ।। न केवलमिति ।। तद्धर्मेति ।। प्रतीतत्वरूपधर्मेत्यर्थः ।। तद्भावोऽपीति ।। असतस्सत्त्वेन प्रतीतिभावोऽपीत्यर्थः ।।

भावप्रकाशः

एवं भास्करकृतागमव्याख्यानं निरस्य इदानीं मायावादिनामपव्याख्यानं निराकरोति । यदपि सदसद्विलक्षणत्वमिति ।। सदसद्विलक्षणं किञ्चिदपि न प्रामाणिकं कुतो विश्वमित्यर्थ इति टीकापाठे मूले किञ्चिन्मानं नेत्युक्तत्वात्तदनुसारेण न प्रामाणिकमित्युक्तम् । आद्य किञ्चिच्छब्देन लब्धमर्थमाह ।। कुतो विश्वमिति ।। न च सदसद्विलक्षणं किञ्चिदस्तीत्यत्र मानमिति मूले पाठान्तरं तत्र मानमित्यनूद्य तदर्थं वदन् सम्बन्धं दर्शयति । मानं तत्प्रतिपादकोयं श्लोक इति सम्बन्ध्यत इति । न चा विद्यमानविद्यमानयोरुत्पत्तिविनाश निषेधकोऽयं श्लोक इति पूर्ववाक्यात् मण्डूकप्लुत्याऽयं श्लोक इति सम्बध्यत इत्यर्थः । नन्विदं नीलमितिवदिदं सदसद्विलक्षणमित्यप्रतिभासात्प्रत्यक्षस्य । विमतं सदसद्विलक्षणं बाध्यत्वादित्यस्य सिद्धसाधनादिग्रस्तत्वेनानुमानस्य नियतविषयत्वेनोपमानस्य इदं सदसद्विलक्षणमित्यश्रवणादागमस्या भावेऽप्यर्थापत्तिः प्रमाणं भविष्यतीति शङ्कते ।। नन्वसतो भाव इति । ख्यातिरिति ।। अपरोक्षप्रतीतिरित्यर्थः ।। भावभावशब्दयोः ख्यातिबाधवाचकत्वे प्रमाणाभावात्पाठान्तरे कथञ्चिदित्युक्तम् । भ्रान्तिविषयस्योभयवैलक्षण्यं नेत्युक्ते उभयात्मकत्वमस्तीति प्रतीतिनिरासायाह ।। यद्भ्रमविषयस्येति ।। न चासतोऽसत्वेन भ्रान्तौ सत्वेन चेत्युत्तरमूलानुसारेण विकल्पयति ।। असतः ख्यातिरनुपपन्नेति ।। इति वदत इति मूलस्यासत्संबधित्वेन ख्यातिं निषेधत इत्यर्थः ।। द्वितीयं दूषयतीति ।। अभावज्ञानस्य प्रतियोगिज्ञानाधीनत्वात्पश्चादुद्दिष्टमपि द्वितीयं पराङ्गीकृतत्वादादौ दूषयतीत्यर्थः ।। व्याघातदिति ।। ख्यात्यङ्गीकारक्रियया निषेधक्रियाव्याघातादित्यर्थः द्वितीयेऽपीति । उत सत्वेनेति द्वितीयेऽपीत्यर्थः ।। भ्रान्तौसत्वेन चेति । मूलानुसारेण विकल्प्याद्यं बहिरेव दूषयति । किं भ्रान्तावभ्रान्ताविति ।। द्वितीयोऽनङ्गीकार परास्त इति ।। अभ्रान्तौ असतः सत्वेन प्रतीतेरनङ्गीकारोत्तदभावोऽस्माकमभिमत एवेत्यर्थः ।। तथा चार्थापत्तेराक्षेपकासिद्धिरिति भावः ।।

प्राचीनपक्ष इति ।। असत्वेन ख्यातिरनुपपन्नेति पक्षेऽप्रमाणिकरूपं दूषणान्तरं वदन् भ्रान्तावित्याद्यपक्षं दूषयतीत्यर्थः ।। प्राचीनपक्ष इति । असत्वेनेति पक्ष इत्यर्थः । यदि नाभूदिति पूर्वोक्तदूषणादभेदं दर्शयति ।। न केवलमिति ।। न मानमित्युक्तमिति । नचासतोऽसत्वेनेत्यत्रेत्यर्थः ।। तद्भावोऽपीति ।। असतो भ्रान्तौ सत्वेन प्रतीतिभावोऽपीत्यर्थः ।। एतावता असतो भ्रान्तौ सत्वेन प्रतीतिसद्भावे किं प्रमाणमुपन्यस्तमित्यतो भ्रान्त्यन्यथानुपपत्तिरेवेत्याह । भ्रान्तावसतः सत्वेनेति ।।

वाक्यविवेकः

तन्निराचष्टे ।। नचेतीति । इतः परं टीकाभेदेन वाक्यानि भिद्यन्ते तानि विविच्य प्रदर्श्यते । तथाहि– नचेति । मानं तत्प्रतिपादकोयं श्लोक इति सम्बध्यते । तत्प्रतिपादकत्वेन प्रतीतेरिति भावः ।। नन्वसतो भावः ख्यातिर्न विद्यते । सतोऽभावः बाधो न विद्यते । अतस्तदुभयवतः भ्रमविषयस्य सदसद्विलक्षणत्वमित्यत्र स्फुटं प्रतीतेः कथमयं श्लोको न तत्र मानमित्यत आह । नचेति । कथञ्चित्प्रतीतोऽपि युक्तिरहितत्वान्नायमर्थ इति भावः । कथमिति चेदित्येव टीकागतवाक्यसन्दर्भः । अत्र मानमित्यादिकं दुर्गमार्थत्वात् व्याख्यायते । मानमित्यनूद्य तदर्थं वदन् नचाविद्यमानेति पूर्वमूलात् मण्डूकप्लुत्या अनुवर्तमानस्य अयं श्लोक इत्यस्य सम्बन्धं दर्शयति । मानं तत्प्रतिपादकोऽयं श्लोक इति । अनेन सदसद्विलक्षणं किञ्चित् अस्तीत्यत्र इत्यस्य अयं श्लोकः मानं तत्प्रतिपादको न इति मूलयोजना सूचिता । कथञ्चिदिति । अपाततः प्रतीतोपीत्यर्थ इति ।।

अथ टीकान्तरगतवाक्यसन्दर्भः प्रदर्श्यते ।। नचेति । सदसद्विलक्षणं किञ्चिदपि न प्रमाणिकं कुतो विश्वमित्यर्थः । नन्वसतः ख्यातिः न विद्यते सतो बाधो न विद्यते ततस्तदुभयवतो भ्रमविषयस्यार्थापत्या सदसद्विलक्षणात्वात् कथं सदसद्विलक्षणं किञ्चिदपि न प्रामाणिकमित्यत आह ।। न चेति । अस्यार्थः सुगमः ।

प्राचीन पक्ष इति । असतः असत्वेन प्रतीतिर्नास्ति इति प्राचीनपक्ष इत्यर्थः ।