तात्पर्यम्

तात्पर्यम्

विनायकस्तथाऽऽकाशो निरावृत्या प्रकाशनात् ।

प्रधानवायुजो भूतवायुर्नाम्ना मरीचिकः ।

अग्निश्च पृथिवी चैव प्रसिद्धौ वरुणो जलम् ।

अदनात् प्रथनाज्जन्मजयहेतोस्तथाऽभिधाः ।

शब्दाद्याः पञ्च शिवजाः शब्दनात् स्पर्शनादपि ।

रूपणाद् रसनाच्चैव गन्धनाच्च तथाऽभिधाः ।

सुखं धृतिश्चेतना च सुखनाद् विधृतेरपि ।

चेतोनेतृत्वतश्चैव मुख्यवायुः सरस्वती ।

श्रीश्चेच्छा चैव सा वायोः पत्नी त्वेव धृतिर्मता ।

इच्छादानात्तु सैवेच्छा स्थानभेदात्तु देवताः ।

पृथक् पृथक् च कथ्यन्ते लक्ष्म्याद्या उदिता अपि ।

दुःखद्वेषौ कलिश्चैव द्वापरो ब्रह्मणः सुतौ ।

प्रवरावसुराणां तौ सङ्घातश्चेतनाः परे ।

एतैरभिमतं यच्च तत्तन्नाम्नाऽभिधीयते ।

न्यायदीपिका

निरावृत्या प्रतिबन्धाभावेन । वातीति वायुः । अदनादग्निः । प्रथनाद्विस्तृतत्वात्पृथिवी । जन्मलयहेतुत्वाज्जलमित्यर्थः । पृथुविस्तार इति धातुः । उत्पत्तिलययोर्जलाधीनत्वदर्शनात्तन्नियामकदेवतायास्तत्सिद्धम् । शब्दनादित्यादेः शब्दादिप्रवर्तकत्वादित्यर्थः । मुख्यवायुः सुखनात्सुखमित्यादि द्रष्टव्यम् । सा श्रीरेव । एवं सरस्वतीवद्वायोः पत्नीविधृतेर्धृतिर्मतेत्यर्थः ।

श्रीरेवेच्छेत्युक्तम् । तदुपपादयति ।। इच्छेति ।। यद्यव्यक्तचेतनेच्छादिशब्दैर्लक्ष्म्यादिदेवता उच्यन्ते तर्हि क्वचिदव्यक्तमुक्त्वा पुनश्चेतनादिकं कथमुच्यत इत्यत आह ।। स्थानेति ।। अव्यक्तपदोक्तश्रियश्चेतनादिपदेन पुनरुक्तिर्युक्ता । अभिमन्यमानस्थानभेदेन रूपभेदादित्यर्थः । एवं देवतान्तरेऽपि द्रष्टव्यम् । कथं तर्हि जडपदार्थेष्वव्यक्तादिशब्दाः प्रवर्तन्त इत्यत आह ।। एतैरिति ।। अव्यक्तादिनामकदेवताभिमन्यमानत्वाज्जडानामव्यक्तादिशब्दवाच्यत्वमिति भावः ।

किरणावली

प्रधानवायुजो भूतवायुरित्यत्र ‘‘मरीचिर्मरुतामस्मी’’त्यत्र नाम्ना मरीचिकः प्रसिद्धो यःप्रधानवायुजः स भूतवायुर्भूतान्तर्गतत्वाद्वातीति व्युत्पत्तेश्चेत्यर्थः ।। उत्पत्तिलययोर्जलाधीनत्वदर्शनादिति ।। रेतोरक्तयोर्जलात्मकत्वात् गर्भिणीदेहे जलवृद्ध्यनन्तरमेव शीघ्रप्रसवाच्चोत्पत्तेर्जलाधीनत्वम् । शरीरे जलकृतशैत्यातिशयेन तेजस उपशान्तौ मरणदर्शनाल्लयस्य जलाधीनत्वं द्रष्टव्यम् । यद्वा सर्वगतप्रधानाण्डसृष्टेर्जलाधीनत्वात् । तद्यदपांशर आसीत्सा पृथिव्यभवदित्यण्डान्तः पृथिवीसृष्टेर्जलाधीनत्वात् । सम्भूयसर्वशरीरेषूपादानतयाऽपांभूयस्त्वस्य शास्त्रे निर्णीतत्वाच्चोत्पत्तेर्जलाधीनत्वं अवान्तरप्रलये महाप्रलये चाप्सुलयस्य निर्णीतत्वेन लयस्य तदधीनत्वमिति बोध्यम् । शब्दाद्याः पञ्चशिवजा इत्यत्र तन्मात्राणामहङ्कारकार्यत्वाच्छिवजाः पञ्चबृहस्पत्यपानादयः शब्दाद्याः शब्दस्पर्शादिशब्दवाच्या इत्यर्थः । तदुक्तं भागवते । तामसात्तु विकुर्वाणाद्भगवद्वीर्यचोदितात् । शब्दमात्रमभूदित्यादिना ।। मुख्यवायुस्सुखनात्सुखमित्यादि द्रष्टव्यमिति ।। मुख्यवायुः सुखनात्सुखं सरस्वतीविधृतेर्धृतिः । श्रीश्चेतोनेतृत्वतश्चेतनेति द्रष्टव्यमित्यर्थः । इच्छा चैव सेत्यत्र सैवेच्छा चेत्यन्वयमभिप्रेत्य सैवेत्येतद्व्याचष्टे ।। सा श्रीरेवेति ।। वायोः पत्नीत्वेवमित्येतद्व्याचष्टे ।। एवमिति ।। मूलवायोः पत्नी तु पत्न््नयपीत्यर्थे तुशब्दः ।। यद्यव्यक्तचेतनेच्छादिशब्दैरिति ।। अव्यक्तचेतनेच्छाशब्दैर्लक्ष्मीः । अहंकारोपस्थ शब्दाभ्यां शिवः । स्पर्शभूतवायुपदाभ्यां प्रवहः । जिह्वाजलपदाभ्यां वरुणः । वागग्निपदाभ्यामग्निश्चोच्यत इत्यर्थः । स्थानभेदात्तु देवता इत्यत्र तुरवधारणे विशेषे च । उदिता अपि लक्ष्म्याद्या देवतास्थानभेदादेव रूपविशेषेण पुनः पृथक् पृथक् । शब्दान्तरैश्च कथ्यन्त इत्यभिप्रेत्यैकत्रोदाहरति ।। अव्यक्तपदोक्तश्रिय इति ।। उक्तमन्यत्रातिदिशति ।। एवमिति ।। देवतान्तरे शिवादौ । दुःखद्वेषौ कलिश्चेत्यत्र कलिद्वापरश्च दुःखद्वेषावित्युभयोरुभयाभिमानो वा कलिर्दुःखं द्वेषो द्वापर इति वेति सन्दिह्यत इति चेन्न । कलेर्दुःखद्वेषोभयाभिमानो द्वापरस्य द्वेषाभिमान इति विवक्षितत्वात् । स्थानेषुत्ववरेषान्तु परे सन्ति न संशय इति न्यायात् । प्रवराविति कलिरुत्तमः तदनन्तरं द्वापर इत्यर्थः । ‘‘कलिर्दुखादिकस्तत्रे’’ति वचनान्महाभारतनिर्णये । अतः कलेरनन्तरः स विप्रचित्तिनामक इति विप्रचित्तेः कल्यानन्तर्यमुक्तमिति चेन्न । द्वापरविप्रचित्त्योः साम्यसम्भवात् । कलेरनन्तर इति मुखत उक्तत्वात् । द्वेषस्य दुःखान्तरङ्गसाधनत्वेन कल्यानन्तर्यौचित्याच्चेति । संघातश्चेतनाः पर इत्यत्र सङ्घातस्तत्तद्देहः परेऽन्ये तत्तद्देहमानिनो जीवा इत्यर्थः । इच्छाद्वेषः सुखं दुःखं देहश्चेत्यध्यायोपक्रमे सङ्घातशब्दस्य देहपरत्वेनोक्तत्वात् । यद्वा देहमानी वैश्रवणः । देहेन्द्रियप्राणधियां त्रिधैव ह्यभिमानिन इति वचनादन्ये चेतना वैश्रवणाद्या इत्यर्थः ।

भावदीपः

एवकारान्वयेनार्थमाह ।। सा श्रीरेवेति ।। इच्छा च सैवेत्यर्थः ।। एवं देवतान्तरेऽपीति ।। जिह्वावारिपतिर्वरुणो जलं शिवोऽहङ्कार इति प्रोक्तः उपस्थः स शिवो मनुरित्याद्युक्तदेवतान्तर इत्यर्थः ।

भावप्रकाशः

सुखनात्सुखमिदित्याद्रष्टव्यमित्यत्र सरस्वती विर्धृतेर्धृतिः ।। श्रीश्चेतोनेतृत्व तश्चेतनेत्यादिशब्दार्थः ।।

वाक्यविवेक

वातीति वायुरिति । वागतिगन्धनयोरित्यस्मादुण्प्रत्यये युगागमेच वायुरिति रूपम् । अदनादिति ।। अदभक्षण इत्यस्मात् निप्रत्यये दकारस्य गकारे अग्निरिति रूपम् । पृथुविस्तार इति धातुरिति । अस्मात् षिव प्रत्यये छान्दसे गुणाभावे ङीषिच पृथिवीति रूपम् । प्रथेः षिवन्संप्रसारणं चेति सूत्रे पृथिवीति रूपं प्रकारान्तरेण साधितमिति द्रष्टव्यम् । मुख्यवायुरिति । अत्रादिशब्देन सरस्वतीविधृतेति श्रीश्चेतोनेतृत्वतश्चेतनेत्ये तद्ग्राह्यम् ।