गीता
गीता
उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः ।
परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ।। २३ ।।
तात्पर्यम्
अस्य जीवस्य सदसद्योनिजन्मसु कारणं सत्त्वादिगुणसङ्गः । स्वतन्त्रकारणं तु परमेश्वर एवेत्याह उपद्रष्टाऽनुमन्तेति ।
‘सर्वेभ्य उपरि द्रष्टा यदुपद्रष्टॄनामकः ।
स्वातन्त्र्यात् स्वानुकूल्येन मत्या पे्ररयति स्म यत् ।
अनुमन्तेति कथितः स्वयं प्रभुरजो हरिः ।
महाशक्तिर्यतो विष्णुर्महेश्वर इतीरितः ।
परमत्वाच्च तस्यैव ह्यनुमन्तृत्वमुच्यते ।
स एव सर्वदेहेषु देहिनोऽन्यो व्यवस्थितः’ इति च ।
‘मां विद्धि सर्वक्षेत्रेषु’ इति देहेऽप्युक्तः । तेनाहमेव स इति दर्शयति ।। २३ ।।
प्रकाशिका
प्रकृतिस्थो हीत्युक्तस्य जीवस्य सदसद्योनिजन्मसुत्रिगुणसङ्गः निमित्तमात्रम् कारणं स्वतन्त्रकारणं तूपद्रष्टाऽनुमन्तेत्याह ।। अस्येत्यादिना ।। ‘‘परमात्मेति चाप्युक्तो देहेऽस्मिन्नित्यस्यार्थमाह ।। मां विद्धीति ।। तेनाहमेव स इति दर्शयतीत्यस्योपद्रष्टानुमन्ताऽहमिति दर्शयतीत्यर्थः ।। २३ ।।
न्यायदीपिका
पुरुषः प्रकृतिस्थ इत्युक्तम् । तत्र स्वतःशुद्धस्य जीवस्य प्रकृतिस्थत्वे किं कारणमित्यत उच्यते ।। कारणमिति ।। तत्र परमात्मनो जीवभावेन शरीरसम्बन्धाद्युक्तौ शुद्धस्य किं कारणं शरीरसम्बन्धादेरित्यतः सगुणत्वं तत्कारणमुच्यत इत्यन्यथाप्रतीतिनिरासायाह ।। अस्येति ।। अत्र जीवस्य शरीरसम्बन्धे सत्त्वादिगुणसङ्गः कारणमुच्यते । न तु परमात्मनस्तत्र सगुणत्वम् । परमार्थतस्तदनुपपत्तेः । तन्मिथ्यात्वस्य दूषितत्वादिति भावः । किं जीवस्य सत्वादिगुणसङ्गः । सदसद्योनिजन्मसु स्वतन्त्रकारणमुत निमित्तमात्रम् । नाद्यः । जडत्वेन तदनुपपत्तेः । द्वितीये स्वतन्त्रकारणं वाच्यमिति शङ्कापरिहारत्वेन श्लोकमवतारयति ।।
स्वतन्त्रेति ।। कथमनेन हरेः स्वतन्त्रकारणत्वमुच्यत इत्यतः प्रमाणवाक्येन श्लोकं व्याचष्टे ।। सर्वेभ्य इति ।। उपरि उपरि वर्तमानः उत्तम इति यावत् ।। स्वानुकूल्येन स्वात्मनोऽविक्षेपकतया । मत्या बुद्धिपूर्वकम् । स्वातन्त्र्यं तत्र हेतुत्वेनैवोक्तम् । परमत्वादित्यनेन परमात्मेत्युक्तार्थं भवति । उपद्रष्टेत्यादौ सर्वत्रेतिशब्दान्वयेनानुमन्तृत्वे हेत्वभिधायकत्वं द्रष्टव्यम् । देहिनोऽन्य इत्यनेन परशब्दो व्याख्यातो भवति । नन्वनुमन्तुः प्राग्देहस्थितत्वेनानुक्तत्वादप्युक्तो देहेऽस्मिन्निति कथमुच्यत इत्यत आह ।। मामिति ।। क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारतेति प्रागनुमन्तुर्देहगतत्वेनोक्तत्वादप्युक्तो देहेऽस्मिन्नित्युक्तिर्युक्तेति भावः । ननूपद्रष्टृत्वादिकमनुमन्तृत्वे हेतुत्वेनोच्यताम् । अनुमन्तुर्देहस्थतयोक्तत्वं किमर्थमुच्यत इत्यत आह ।। तेनेति ।। कोऽयमनुमन्तेत्यतो देहेऽप्युक्त इत्यनेनाहमेवानुमन्तेति दर्शयति । देहस्थत्वेनात्मनः कथितत्वादिति भावः ।। २३ ।।
किरणावली
तत्र परमात्मन इति ।। पुरुषः प्रकृतिस्थो हीत्यत्र पुरुषः परमात्मा जीवभावेन प्रकृतिस्थः शरीरसम्बद्धः । प्रकृतिजान् गुणान्दुःखादीन् भुंक्ते इति परमात्मनो जीवभावेन शरीरसम्बन्धाद्युक्तौ शुद्धस्य परमात्मनः देहसम्बन्धादौ किं कारणमित्याशङ्कायां सगुणत्वं कारणमुच्यत इत्यन्यथा प्रतीतीत्यर्थः । न तु परमात्मनस्तत्र सगुणत्वमिति । तत्र शरीरसम्बन्धे गुणवत्त्वं सत्त्वादिगुणसङ्गःकारणमित्युच्यत इत्यनुषज्यते ।। परमार्थत इति ।। परमार्थतः तस्य शरीरसम्बन्धादेरनुपपत्तेरित्यर्थः । अपारमार्थिकत्वं तस्य किं नस्यादित्यत आह ।। तन्मिथ्यात्वस्येति ।। जडत्वेनेति ।। ‘‘स्वेच्छानुसारितामेव स्वातन्त्र्यं हि विदो विदुरि’’ति कुत इच्छाऽचेतनस्येत्यनु व्याख्योक्तेरिति भावः ।।
स्वानुकूल्येन मत्या प्रेरयतीत्यत्र स्वानुकूल्येन प्रेरयतीति सम्बन्धमभिप्रेत्य व्याचष्टे ।। स्वात्मनोऽविक्षेपकतयेति ।। प्रेरणे स्वप्रवृत्त्यन्तरस्यान्तरस्य बाह्यस्य वा यथा विक्षेपो नास्ति तथा प्रेरयतीत्यर्थः । नन्वनुमन्तेत्यस्यानुकूल्येनमन्ता ज्ञातेत्यर्थः । सिद्ध्यति प्रेरयतीति कथं लभ्यते कथं च मत्येति मूलपदस्यान्वय इत्यत आह ।। मत्या वुद्धिपूर्वकमिति ।। मन्तृशब्दस्य मतिपूर्वं प्रेरकलक्षकत्वादिति भावः ।। स्वातन्त्र्यं तत्रेति ।। प्रेरकत्वे हेतुत्वेनैवोक्तं न तु शब्दार्थान्तर्गतत्वेनेत्यर्थः । भर्ताभोक्तामहेश्वरःशिव इत्यन्यथाप्रतीतेरुक्तं स्वयं साक्षाद्धरिरिति स्वप्रवृत्तेरविक्षेपकतया प्रेरकत्वे हेतुरुक्तः भर्तेति तद्व्याख्यानं प्रभुरिति । नहि प्रेरणस्य स्वप्रवृत्तिविक्षेपकत्वे प्रकर्षेण जगद्धारकतया भवनं युक्तमिति भावः । हेत्वन्तरमुक्तं भोक्तेति तद्व्याख्यानं हरिरिति । हरतीति हरिः सर्वभोक्तेत्यर्थः । न हि प्रेरणस्य विक्षेपकत्वे विषयभोग उपपद्यत इति भावः । स्वातन्त्र्योपपादनायाज इति जनिमत एव हि पारतन्त्र्यमिति भावः । अनुमन्तृत्वे हेत्वन्तरमुक्तं महेश्वर इति । ईशेभ्यः शक्तेभ्योऽतिशयेन वरो महेश्वर इत्यर्थः । हरौ महेश्वरशब्दनिर्वचनाय तस्य तात्पर्यं महाशक्तिरिति ।। परमात्मेत्युक्तार्थमिति ।। परमश्चासावात्मा चेतनश्चेत्युक्तार्थमित्यर्थः । एतेन परमात्मेति चेति गीतायाः परमात्मोत्तमचेतन इति हेतोश्चानुमन्तेत्यर्थ उक्तो भवति । ‘‘उपद्रष्टा भर्ता भोक्ता महेश्वर’’ इति विशेषणचतुष्टयस्य क उपयोगः कथं चान्वय इत्यत आह ।। उपद्रष्टेत्यादाविति ।। परमात्मेति चशब्दात्पूर्वभावीति शब्दस्योपद्रष्टेति भर्तेति भोक्तेति महेश्वर इति सर्वत्रान्वयेनानुमन्तृत्वे पृथक् पृथक् हेत्वभिधायकत्वं द्रष्टव्यमित्यर्थः । तत्र भर्तेत्यादीनां हेतुत्वमुपपादितं उपद्रष्टृत्वस्य तु सर्वेभ्यः उत्तमद्रष्टृत्वात् । स्वपरगताशेषविशेषविषयज्ञानवत्त्वाच्चानुमन्तान्यथा प्रेरणस्य विक्षेपकत्वे निरुपचरितं सार्वज्ञं नस्यादिति हेतुत्वं द्रष्टव्यम् । प्रागनुमन्तु र्देहगतत्वेनोक्तत्वादित्यर्थः ।। कोऽयमिति ।। स च य इत्यत्र स चानुमन्ता यस्तच्छृण्विति प्रतिज्ञातस्याप्युक्ते देहेऽस्मिन्नित्यनेनोच्यत इति प्रागुक्तत्वात् । तदनुसारेण प्रकृतोऽयमनुमन्ताक इत्यतो देहेऽप्युक्त इत्यनेनाहमेवानुमन्तेति दर्शयतीत्यर्थ इत्यर्थः ।। २३ ।।
भावदीपः
मिथ्याभूतं तदस्तीत्यत्र आह ।। तन्मिथ्यात्वस्येति ।। देहसम्बधादिमिथ्यात्वस्येत्यर्थः ।। हेतुत्वेनैवेति ।। न तु शब्दार्थतयेत्यर्थः ।। इतिशब्दान्वयेनेति ।। हेत्वर्थकेति योज्यम् ।।२३।।
भावप्रकाशः
तत्रसगुणवत्वमिति । तत्र शरीरसम्बन्धे सत्वादिगुणवत्वमित्यनन्तरं कारणमुच्यत इत्यस्यावृत्या सम्बन्धो द्रष्टव्यः ।। तदनुपपत्तेरिति । शरीरसम्बन्धानुपपत्तेरित्यर्थः ।। दूषितत्वादिति । कार्यकारणसम्बन्धमित्यादिना शरीरसम्बन्धमिथ्यात्वस्य दूषितत्वादित्यर्थः ।। जडत्वेन तदनुपपत्तेरिति । स्वेच्छानुसारितामेव स्वातन्त्र्यं हि विदोविदुः । कुत इच्छा चेतनस्येत्यनुव्याख्यानोक्तरीत्या जडस्येच्छाभावेन स्वेच्छानुसारित्वरूपस्वातन्त्र्यानुपपत्तेरित्यर्थः ।। परमत्वाच्च तस्यैव ह्यनुमन्तृत्वमिति हेतुहेतुमद्भावकथनेन सिद्धं दर्शयति ।। उपद्रष्टेत्यादाविति ।। २३ ।।
वाक्यविवेक
इत्याशङ्क्येति । मनसेति शेषः । अनेनेति । तथा ज्ञात्वा हरिं ध्यात्वा स्वान्तः पश्यन्ति केचनेत्यादि ध्यानेनात्मनि पश्यन्तीति वाक्यं युक्तार्थं भवतीत्यर्थः ।। २३ ।।