तात्पर्यम्
तात्पर्यम्
‘नाहं कर्ता हरिः कर्ता तत्पूजा कर्म चाखिलम् ।
तथापि मत्कृता पूजा तत्प्रसादेन नान्यथा ।
तद्भक्तिस्तत्फलं मह्यं तत्प्रसादः पुनः पुनः ।
कर्मन्यासो हरावेवं विष्णोस्तृप्तिकरः सदा ।
यस्मात्स्वतन्त्रकर्तृत्वं विष्णोरेव न चान्यगम् ।
तदधीनं स्वतन्त्रत्वं स्वावरापेक्षयैव तु ।
जीवस्य विकृतिर्नाम कर्तृत्वं जडसंश्रयम् ।
पुमान्दोग्धा च गौर्दोग्ध्री स्तनो दोग्धे’तिवत्क्रमादिति ।
ब्रह्मतर्कवचनादीश्वरजीवप्रकृत्यादीनां कर्तृत्वमकर्तृत्वं च विभागेन ज्ञातव्यं सर्वत्र ।
स्वभावत जीवाः उत्तमाधममध्यमाः
‘क्वचित्स्वभावः प्रकृतिः क्वचिच्च त्रिगुणात्मिका ।
क्वचित्प्रकृष्टकर्तृत्वाद्भगवान्प्रकृतिर्हरिः’ इति शब्दनिर्णये ।
‘स्वभावतस्त्रिधा जीवा उत्तमाधममध्यमाः ।
उत्तमास्तत्र देवाद्या मर्त्यमध्यास्तु मध्यमाः ।
अधमा असुराद्याश्च नैषामस्त्यन्यथा भवः ।
शरीरमात्रान्यथात्वे स्वजातिं पुनरेष्यति ।
उत्तमा मुक्तियोग्यास्तु सृतियोग्यास्तु मध्यमाः ।
अपरेऽन्धतमोयोग्याः प्राप्तिः साधनपूर्तितः ।
पूर्त्यभावेन सर्वेषामनादिः संसृतिः स्मृता ।
नैव पूर्तिश्च सर्वेषां नित्यकालहरीच्छया ।
अतोऽनुवर्तते नित्यं संसारोऽयमनादिमान् ।
अतोऽधमानां जीवानां मिथ्याज्ञानादयोऽखिलाः ।
स्वाभाविका गुणा ज्ञेया मध्यमर्त्येषु मिश्रिताः ।
तत्वज्ञानं विष्णुभक्तिरित्याद्या देवतादिषु ।
कार्यते ह्यवशः कर्म सर्वैस्तैः प्राकृतैर्गुणैः ।
स्वाभाविकगुणानेतान्हेतुं कृत्वैव विष्णुना ।
कर्मसु क्रियमाणेषु कर्ताऽहमिति मूढधीः ।
मन्यते तत्वविद्विष्णोर्गुणा इच्छादयस्तु ये ।
स्वाभाविकेषु जीवस्य कामाद्येषु सदैव तु ।
प्रेरकत्वेन वर्तन्ते स्वातन्त्र्यं मम न क्वचित् ।
इति मत्वा न सक्तः स्यात्प्रीतोऽस्य भवति प्रभुः ।
स्वभावगुणसम्मूढा ज्ञानादिगुणवत्तरम् ।
स्वातन्त्र्येणैव कर्तारं चात्मानं प्रतिजानते ।
तान्गुणान्कर्म तच्चैव विष्ण्वधीनं न ते विदुः ।
तेष्वयोग्येषु तत्वज्ञस्तत्त्वं नातिप्रकाशयेत् ।
वदेद्विवादरूपेण नोपदेशात्मना क्वचित् ।
सभ्यारूपेण वा ब्रूयात्पृष्टेऽव्यक्तिकृदेव वा ।
बुद्ध्वाप्यसौ यतो नित्यं स्वभावानुगचेष्टितः ।
स्वभावं यान्ति भूतानि निग्रहः किं करिष्यति’
इत्यादि प्रकाशसंहितायाम् ।। २७३५ ।।
न्यायदीपिका
अज्ञवदाग्रहेण ज्ञानिनामपि कर्म कार्यं चेद्विद्वदविद्वत्कर्मणोरविशेषप्रसङ्ग इत्यतः सक्ता इति सक्तयसक्तिपूर्वकत्वविशेष उक्तः प्रपञ्च्यते ।। प्रकृतेरिति ।।
विद्वदविद्वत्कर्मविशेषमुक्त्वा विद्वत्कर्मकरणं विधीयते ।। मयीति ।। तत्र कर्माणि सन्यस्य युध्यस्वेति व्याहतमित्यतस्तत्स्मृत्यैव व्याचष्टे ।। नाहमिति ।। नाहं कर्तेति निर्ममत्वम् । हरिः कर्ता तत्पूजा कर्म चाखिलमिति हरौ कर्मन्यासः । हरिरेव कर्ता चेत्कथं तत्पूजेत्यादिनिरूपणं युक्तमित्यत आह ।। तथापीति ।। यद्यपि हरिरेव कर्ता तथापि तत्प्रेरणेनैव ममापि कर्तृत्वात्तत्पूजेत्यादि निरूपणं युक्तमिति भावः । तद्भक्तिरिति निराशीस्त्वम् । तत्फलं पूजाफलं । कर्मन्यासो निर्ममत्वादि युक्तः । प्रयोजनवतो ज्ञानिनः । विष्णोस्तृप्तिकर इत्यनेन ये मे मतमित्यादेस्तात्पर्यमुक्तं भवति । एवं निर्ममत्वादियुक्तेन हरौ कर्मन्यासेन कुतो विष्णोस्तृप्तिरित्यत आह ।। यस्मादिति ।। यस्मादेवमर्थस्थितिस्तस्मात्तथाभावनं विष्णोस्तृप्तिकरं भवत्येव । यथार्थज्ञानप्रियत्वाद्विष्णोरिति भावः ।
स्वतन्त्रकर्तृत्वमेव कर्तृत्वं अतः कथं जीवादेः कर्तृतोच्यत इत्यतः परतन्त्रादिकर्तरि कर्तृशब्दप्रयोगं दर्शयति ।। पुमानिति ।। ननु क्कचिदीश्वर एव कर्ता नजीवादिरित्युच्यते । क्वचिज्जीव एव कर्ता नेश्वरादिरिति । क्वचिच्च प्रकृतिरेव कर्त्री नेश्वरादिरिति । अतः कथमीश्वर एव कर्ता, नाहं, अहं तु तदधीनकर्तेति कर्मन्यासाद्युपपद्यत इत्यत आह ।। इतीति ।। यत्रेश्वरादीनां कर्तृत्वमुच्यते तत्रेश्वरस्य स्वतन्त्रकर्तृत्वमित्यादिविभागेनैव ज्ञातव्यम् । यत्रेश्वरादीनामकर्तृत्वमुच्यते तत्रेश्वरस्य परतन्त्रकर्तृत्वमस्वीयं नास्तीत्यादिविभागेनैव ज्ञातव्यम् । नतु यत्र कर्तृत्वमुच्यते तत्र सर्वेषां स्वतन्त्रकर्तृत्वमेव । यत्राकर्तृत्वमुच्यते तत्र सर्वेषां सर्वथा कर्तृत्वराहित्यं ज्ञातव्यम् । स्वतन्त्रकर्तृत्वं विष्णोरेवेत्यादिवचनादेवेत्यर्थः ।
प्रकृतेरित्यादि व्याकरिष्यन् तत्रस्थप्रकृतिशब्दादीन् स्वभावादिपरतया व्याख्यातुं तदर्थत्वे प्रमाणं तावदाह ।। क्वचिदिति ।। स्वभावो जीवस्य । मयीत्यादिवाक्यव्याख्यानरूपाया यस्मात्स्वतन्त्रकर्तृत्वमित्यादिस्मृतेः प्रकृतेरित्यादिवाक्यव्याख्यानोपयोगित्वाद्व्यत्यासेन व्याख्यानम् ।
प्रकृतेरित्यादावीश्वरादित्रयस्य कर्तृत्वाभिधानात्पुनर्जीवस्याकर्तृत्वाभिधानात्कर्तृत्वादिविभागस्य स्मृतावुक्तत्वात्प्रकृतेरित्याद्य न्यथाप्रतीतिनिरासाय स्मृत्यैव व्याचष्टे ।। स्वभावत इति ।। अत्र स्वभावत इत्यादि साक्षाद्व्याख्यनाय पीठिकारचनम् । देवादीनामन्यथाभावसद्भावात्कथं देवत्वादिः स्वभाव इत्यत आह ।। नैषामिति ।। जयादीनामन्यथाभावदर्शनात्कथं नास्तीत्यत आह ।। शरीरेति ।। देवत्वादेः स्वाभाविकत्वेऽपि देवा एवोत्तमा इत्यादि कुत इत्यत आह ।। उत्तमा इति ।। फलस्योत्तमत्वादिना देवादीनामुत्तमत्वादि सिद्धिरिति भावः । देवादीनां मुक्तयादियोग्यत्वे किमर्थं ते संसारे वतन्त इत्यत आह ।। प्राप्तिरिति ।। स्वयोग्यफलस्येति शेषः । पूर्त्यभावेन साधनस्येति शेषः । साधनपूर्तितः प्राप्तिश्चेत् नित्यं संसारानुवृत्तिर्न स्यात् । अनादित्वात्संसारस्येत्यतः पूर्वमेव साधनपूर्तिसम्भवेन सर्वचेतनानां परिसमाप्ति(प्ते)रित्यत आह ।। नैवेति ।। नित्यकाले संसारोऽनुवर्ततामिति हरीच्छयाऽनादिमान् यद्यपीति शेषः । स्वभावतस्त्रिधा जीवाश्चेत्किं तत इत्यत आह ।। अत इति ।। देवत्वादेः स्वाभाविकत्वात्तदनुसारिगुणाश्च स्वाभाविका इत्यर्थः । मिश्रिताः स्वाभाविका इत्यादि योज्यम् । ततश्च किमित्यत आह ।। कार्यत इति ।। अवशो विष्णुवशः । प्राकृतैः स्वाभाविकैः । किं चात इत्यत आह ।। स्वाभाविकेति ।। अनेनाविद्वत्कर्माभिधायकस्य प्रकृतेरित्यस्यार्थ उक्तो भवति । स्वाभाविकगुणान् हेतुं कृत्वेति यस्योत्तमगुणास्तानपेक्ष्य सत्कर्म कारयतीत्यादि । विष्णुना विष्णोरिच्छादिगुणैः । अनेन प्रकृतेर्गुणैरित्यस्यार्थद्वयमुक्तं भवति । उपादानतया सत्वादयः प्रकृति गुणाश्चात्राभिमताः । कर्ता स्वातन्त्र्येणोति शेषः ।
एवमविद्वान्करोति चेत्कथं विद्वानित्यत आहम् ।। तत्वेति ।। अनेन तत्वविदित्यस्यार्थ उक्तो भवति । अविदुषामहंकारे को हेतुरित्यत आह ।। स्वभावेति ।। स्वभावगुणानामुत्तमत्वे तेष्वपरप्रेरिता एवैत इति संमूढाः । मिश्रादित्वे तैः संमूढाः । ज्ञानादिगुणसद्भावे ज्ञानादिगुणवत्तरं स्वातन्त्र्येण प्रतिजानत इति योज्यम् । अभावे स एव दोषः । तान्गुणान्विष्ण्वधीनान्न विदुः सद्भावे । अभावे नसन्तीति नाविदुरिति ज्ञेयम् । ते ज्ञानिना बोध्यंतामित्यत आह ।। तेष्विति । अयोग्याश्चेन्न प्रकाशयेदन्यथापरीक्ष्य प्रकाशयेदिति भावः ।। अव्यक्तिकृदिति ।। स्ववचनं यथा तत्वव्यक्तिकृन्न भवेत्तथेत्यर्थः । अनेन प्रकृतेरिति व्याख्यातं भवति ।। मन्दानित्यस्यार्थोऽयोग्येष्विति । अयोग्येषु तत्वं कुतो न वक्तव्यमित्यत आह ।। बुध्वेति ।। मनोनिग्रहे स्वभावानुगतचेष्टोपरतिः स्यादित्यत आह ।। स्वभावमिति ।। एतेन सदृशमिति व्याख्यातं भवति ।। २७ ।।
किरणावली
अज्ञवदाग्रहेणेति ।। अभिनिवेशेनेत्यर्थः ।। सक्तयसक्तिपूर्वकत्वविशेष उक्त इति ।। अविद्वांसो भगवत्स्वातन्त्र्याज्ञानिनः कर्मणि विषये सक्ताः स्वातन्त्र्यभ्रमवन्तः कर्मफलेच सक्ताः स्नेहवन्तः यथाकर्म कुर्वन्ति तथा भगवत्स्वातन्त्र्यादि ज्ञानिनो नेति सक्तयसक्तिपूर्वकत्वविशेष उक्त इत्यर्थः ।।
कर्मकरणं विधीयत इति ।। गुणान्तरविशिष्टतयेत्यर्थः । मयि सर्वाणीत्यादिः सर्वोपि कर्मन्यास इति प्रतीति निरासायाह ।। नाहं कर्तेति ।। निर्ममत्वमिति ।। नाहं कर्तेत्यनेन गीतोक्तं निर्ममत्वं व्याख्यातमित्यर्थः । तर्हि कः कर्मन्यासपदार्थ इत्यत आह ।। हरिरिति ।। हरिः कर्ता तत्पूजाकर्मचाखिलमित्यनेन कर्मन्यासो व्याख्यात इत्यर्थः । भाष्ये सर्वाणि मय्येव सन्न्यस्य भ्रान्त्या जीवे अध्यारोपितानि मय्येव विसृज्य भगवानेव सर्वाणि कर्माणि करोति तत्पूजेति चोक्तत्वादिति भावः । एवं कर्मन्यास इत्यस्यैव मुक्ताङ्गसहितो हरौ कर्मन्यास इत्यर्थमभिप्रेत्याह ।। कर्मन्यासो निर्ममत्वादियुक्त इति ।। आदिपदेन निराशीस्त्वं गृह्यते ।। यस्मादेवमर्थस्थितिरिति ।। यस्माद्विष्णोः स्वतन्त्रकर्तृत्वं जीवस्य तदधीन स्वतन्त्रकर्तृत्वं जडस्य विकारकर्तृत्वमित्यर्थस्य व्यवस्थासिद्धेत्यर्थः । मूले प्रकृत्यादीनामित्यादिपदेन महदाद्यचेतनग्रहणम् ।। यत्रेश्वरादीनामकर्तृत्वमुच्यते तत्रेश्वरस्य परतन्त्रकर्तृत्वमस्वकीयं नास्तीत्यादि विभागेन ज्ञातव्यमिति ।। तत्रेश्वरस्य परतन्त्रकर्तृत्वं नास्तीति ज्ञातव्यमिति तावद्योज्यम् ।
नन्विदमकर्तृत्वं कथमीश्वरे विभक्तम् । जीवस्यापि पारतन्त्र्येण कर्तृत्वाभावात् क्रियास्वातन्त्र्यस्यैव कर्तृत्वशब्दार्थत्वात् । स्वावरापेक्षया जडापेक्षया स्वातन्त्र्याङ्गीकाराच्चेत्यत उक्तं अस्वकीयं नास्तीति ।। सत्यमस्ति जीवस्य स्वातन्त्र्यम् । तथापि तदस्वकीयं भगवदधीनमेव । तदधीनं स्वतन्त्रत्वं स्वावरापेक्षयैवत्वित्युक्तत्वात् । भगवतस्त्वस्वकीयं क्रियास्वातन्त्र्यं नास्तीत्यतःपराधीनक्रियास्वातन्त्र्यवानपि जीवः परतन्त्रकर्तैवेति । तादृशं परतन्त्रकर्तृत्वमीश्वरस्य नास्तीत्य कर्तृत्वविभागो युज्यत इति भावः । केचित्तु ननु कथमीश्वरस्य परतन्त्रकर्तृत्वं नास्तीत्युच्यते । अस्मदादिनिष्ठकर्तृत्वस्येश्वरायत्तत्वादित्यत आह ।। अस्वकीयमिति ।। पराधीनकर्तृत्वमस्वकीयं स्वधर्मिकं न भवतीति हेतोरीश्वरस्य नास्तीत्युच्यत इति व्याचक्षते ।। इत्यादिविभागेनेति ।। न कर्तृत्वं न कर्माणीत्यादौ यत्र जीवस्याकर्तृत्वमुच्यते तत्रेश्वरवत् निरुपचरितक्रियास्वातन्त्र्यं विकारिकर्तृत्वं नास्तीति ज्ञातव्यम् । यत्र प्रकृतेरकर्तृत्वमुच्यते तदीश्वरादिवत्कर्तृत्वं नास्तीत्येतदभिप्रायेणेत्यर्थः ।।
प्रकृतेरित्यादि व्याकरिष्यन्निति ।। प्रकृतेः क्रियमाणानि गुणै कर्माणीत्यारभ्याथकेन प्रयुक्तोऽयमित्यतः प्राक्तनं ग्रन्थमित्यर्थः ।। प्रकृतिशब्दादीनिति ।। प्रकृतिशब्दं स्वभावादिपरतया आदिशब्दगृहीतान् गुणादिशब्दान्स्वाभाविकगुणादिपरतयोत्तरत्र व्याख्यातुं तदर्थत्वे प्रकृतिशब्दस्य स्वभावाद्यर्थत्व इत्यर्थः । ननु मयि सर्वाणि कर्माणीति श्लोकमादौ व्याख्याय पश्चात्प्रकृतेः क्रियमाणानीत्यस्य व्याख्यानं क्रियते । एवं व्याख्याने किं निमित्तमित्यत आह ।। मयीत्यादि ।। व्याख्यानोपयोगित्वं दर्शयति ।। प्रकृतेरित्यादाविति ।। अन्यथाप्रतीति निरासायेति ।। प्रकृतेर्गुणैरिति सत्त्वादिगुणानामेव स्वातन्त्र्येण कर्तृत्वमुच्यत इत्यन्यथा प्रतीतिनिरासायेत्यर्थः । ननु स्वभावत इत्यस्य प्रकृतेरित्येतद्व्याख्यानरूपत्वाभावात्प्रकृते तदुदाहरणमसङ्गतमित्यत आह ।। अत्रेति ।। स्वभावत इत्यादि पीठिकारचनमिति सम्बन्धः । किमर्थमित्यत आह ।। साक्षाद्व्याख्यानायेति ।। स्वाभाविकगुणानित्यादिनोत्तरत्र साक्षाद्व्याख्यानं कर्तुमित्यर्थः ।। जयादीनामिति ।। जयविजययोरसुरराक्षसमानुषत्वेन प्रह्लादादीनां दैत्यत्वेनेत्यर्थः ।। अनादिमानिति ।। आदिरस्यास्तीत्यादिमान्स नभवतीत्यनादिमानिति योज्यम् ।। मिश्रिताः स्वाभाविका इत्यादीति ।। अत्रादिपदेन तत्वज्ञानं विष्णुभक्तिरित्याद्याः स्वाभाविका इत्यपि योज्यमित्यर्थः । विष्णोर्गुणा इच्छादय इति वक्ष्यमाणानुसारेण विष्णुनेत्यस्य विष्णोरिति विभक्तिविपरिणामेनार्थं गुणैरित्यस्यानुवृत्तिं तस्य चेच्छादिगुणैरित्यर्थं च मत्वाह ।। विष्णुना विष्णोरिच्छादिगुणैरिति ।। अर्थद्वयमिति ।। प्रकृष्टकर्तृत्वात्प्रकृतेर्विष्णोर्गुणैरिच्छादिभिःप्रकृतेस्त्रिविधजीवस्वभावस्यानुसारिभिस्तत्तद्गुणैर्निमित्तैस्तान् गुणान् निमित्तीकृत्य क्रियमाणानि सर्वशः सर्वाणि कर्माणि प्रत्यहङ्कारेण स्वस्मिन्नविद्यमानस्वातन्त्र्यारोपेण विमूढात्मा कलुषितचित्त अहमेव कर्तेति मन्यत इति प्रकृतेर्गुणैरित्यस्यार्थद्वयमित्यर्थः । अर्थान्तरं स्वयमाह ।। उपादानतयेति ।। अनभिमतत्वे प्रकृतिः क्वचिस्त्रिगुणात्मिकेति प्राचीनं प्रकृतिपदव्याख्यानमसङ्गतं स्यादिति भावः ।। कथं विद्वानिति ।। करोतीत्यनुवर्त्य योज्यम् ।।
तत्वविदित्यस्येति ।। गुणकर्मविभागयोः गुणभेदस्य कर्मभेदस्य च प्रागुक्तरीत्या तत्ववित् । विष्णोरिच्छादयो गुणाः गुणेषु जीवस्य स्वाभाविकेच्छादिगुणेषु प्रेरकतया वर्तन्ते । कर्तृत्वोपयुक्तं ज्ञानेच्छादिकं तज्ज्ञानेच्छादिप्रेरितं न मम क्रियास्वातन्त्र्यमिति मत्त्वा न सज्जते कर्मणा न बध्यत इत्यर्थ उक्तो भवतीत्यर्थः । नन्वविदुषां मध्ये उत्तमानामपि सत्त्वात्तेषां स्वाभाविकगुणानां ज्ञानभक्तयादीनाममोहकत्वात् कथं तेषां स्वाभाविकगुणानां ज्ञानभक्तयादीनां संमूढत्वमित्यत आह ।। स्वभावगुणानामुत्तमत्व इति ।। ननु योग्यानां ज्ञानादिगुणवत्त्वाद्यथास्वरूपविज्ञानमात्मन्यपि न दोषकृदित्युक्तत्वात्कथं भ्रम इत्यत आह ।। ज्ञानादिगुणसद्भाव इति ।। अभाव एवेति ।। स्वात्मानं ज्ञानादिगुणवत्तरं प्रतिजानत इत्येव दोष इत्यर्थः । कर्तृत्वस्वातन्त्र्यभ्रमस्योभयसाधारणत्वाद्गुणमात्रे भावाभावविचार इति ज्ञेयम् । ननु सर्वथा तत्वाप्रकाशने विष्णुः सर्वोत्तम इत्यादिरूपेण पक्षपरिग्रहायोगात्कथाविच्छेदः स्यादित उक्तं मूले नातिप्रकाशयेदिति । तस्यैव विवरणं वदेदिति । नोपदेशात्मनेति शास्त्रोदितक्रममनुसृत्योपदेश रूपेणेत्यर्थः ।
तदुक्तमैतरेयभाष्ये । चतुर्थोऽयोग्यपुरुषे । उपदेशः केशवस्य यथाशास्त्रोदितक्रमादिति । सभारूपेणेति । अयोग्यानुद्दिश्य नब्रूयात्किंतु योग्या अयोग्याश्चैकस्यां सभायां मिलिता इति सभोपदेशरूपेण वा ब्रूयात्तथाच मया क्रियमाणमीषत्प्रकाशनं योग्यानामप्यत्र सत्वात्तान्प्रतीत्यनुसन्धानमपेक्षितमिति भावः ।। अन्यथा परीक्ष्य प्रकाशयेदिति भाव इति ।।
अन्यथा योग्याश्चेत्तेषामिदानीमुपदेशोपयुक्तगुरूपसत्तिसदाचारसत्कुलप्रसूतत्वादिकं वर्तते न वेति विमर्शपूर्वकं सदाचारादिकं निश्चित्य प्रकाशयेदित्यर्थः ।। तत्वव्यक्तिकृन्नभवेदिति ।। अत्राप्यतिव्यक्तिकृदिति योज्यम् । सर्वथाऽव्यक्तीकरणे कथं विष्णोः परिपूर्णत्वमिति प्रश्नस्योत्तराभावप्रसङ्गात् ।
उक्तं च श्रीपद्मनाभतीर्थश्रीमच्चरणैः । पृष्टेऽव्यक्तिकृदित्यस्यातिव्यक्तिकृद्यथा स्वोक्तं न भवति तथा ब्रूयादित्यर्थ इति ।। अनेन प्रकृतेरिति व्याख्यातमिति ।। उत्तमत्वे प्रकृतेः स्वभावस्यानुसारिषु गुणेषु परप्रेरिता एत इति संमूढाः गुणेषु विषये वयमेव स्वातन्त्र्येणातिशयितज्ञानादिगुणवन्त इति सज्जन्ते मनसा सक्ता भवन्ति । प्रविजानत इति यावत् । भ्रमस्य भ्रमान्तरकारणत्वमिति भावः । कर्मसु विषयेच वयमेव कर्तार इति सज्जन्ते । मध्यमत्वेऽधमत्वे च स्वभावानुसारिभिर्मिश्रैर्गुणैर्मिथ्याज्ञानादिभिश्च गुणैर्युक्ता वयं सर्वैःशुभगुणैः संपन्ना इति गुणेषु विषये तथा कर्मसु चस्वतन्त्रा इति सज्जन्ते प्रविजानते । स्वरूपगुणानुसारेण तेषां वृत्तिज्ञानमपि गुणादिविषये भ्रमरूपमिति भावः । तानकृत्स्नविदः परिपाकरहितान्मोक्षयोग्यान परीक्ष्य खडित्युपदेशेन तद्भावान्न विचालये द्विचालयितुं न प्रयतेत तानकृत्स्नविदः कृत्स्नब्रह्माविदः यद्वा अधिष्ठामात्रे यथार्थज्ञानिनो मन्दानयोग्यान्कृत्स्नवित्परिपूर्ण ब्रह्मवित्तत्वोपदेशेन तद्भावान्नविचालयेदिति व्याख्यातं भवतीत्यर्थः ।।
एतेन सदृशमिति व्याख्यातमिति ।। ज्ञानवानपि महदुपदेशेन ज्ञानं प्राप्याप्ययोग्यः स्वस्याः प्रकृतेः स्वभावस्य सदृशं यथा भवति तथा चेष्टते । स्वभावानुसारेणैव प्रमेय विषयेऽभिज्ञाभिलपन लक्षण चेष्टां करोति । ननु तत्र यथा मनो न गच्छति तथोपदेशकेन निग्रहः क्रियतामित्यत उक्तम् । प्रकृतमिति । तन्मनोनिग्रहाय प्रयत्ने कृतेपि भूतान्ययोग्यानि स्वभावमेवानुसरन्ति । उपदेशकृतो मनोनिग्रहप्रयत्नः किं करिष्यतीति व्याख्यातं भवतीत्यर्थः ।। २७ ।।
भावदीपः
सक्त्यसक्तिपूर्वकत्वविशेष उक्त इति ।। सक्ता इति श्लोक इति ज्ञेयम् । संन्यस्येत्यस्य त्यक्त्वेत्यर्थं मत्वाऽऽह ।। व्याहतमिति ।। निर्ममत्वमिति ।। नाहं कर्तेत्यनेन निर्ममत्वं व्याख्यातमित्यर्थः । मत्कृता पूजेत्यनन्तरं शेषमाह ।। तत्पूजेत्यादिनिरूपणं युक्तमिति ।। तद्भक्तिरित्यनेन निराशीस्त्वं व्याख्यातमित्यर्थः । कर्मन्यास इत्यस्य विशेषणमाह ।। निर्ममत्वनिराशीस्त्वयुक्तः इति ।। इत्यादि विभागेनेति । यत्र जीवस्यैव कर्तृत्वमुच्यते तत्र पराधीनकर्तृत्वं, यत्र प्रकृतेरेव कर्तृत्वमुच्यते कार्यते ह्यवशः कर्म सर्वैः प्रकृतिजैर्गुणैरित्यादौ तत्र विकाररूपकर्तृत्वमिति ध्येयमित्यर्थः । नास्तीत्यादि विभागेनेति ।। यत्र जीवस्याकर्तृत्वमुच्यते कर्तृत्वं न कर्माणि इत्यादौ तत्र स्वकीयं स्वतन्त्रकर्तृत्वं नास्ति, यत्र तु प्रकृतेः कर्तृत्वं नेत्युच्यते तत्र ज्ञानेच्छापूर्वककर्तृत्वं नास्तीत्येवंरूपेण ज्ञेयमित्यर्थः । प्रकृतेरित्यादि व्याख्यानपरं स्वभावत इत्यादिस्मृत्यनन्तरं यस्मादिति स्मृतिः पठनीया । व्याख्येयगीतावाक्यानुसारादित्यत आह ।। मयीत्यादिना ।। उपयोगित्वादिति ।। यस्मादिति स्मृत्युक्तत्रिविधकर्तृत्वस्य प्रकृतेरिति वाक्येऽभिमतत्वादिति भावः । व्याख्यानोपयोगं व्यनक्ति ।। प्रकृतेरित्यादाविति ।। अहङ्कारेत्युत्तरार्धेनेति योज्यम् । इत्यादीत्यस्य पीठिका रचनमित्यन्वयः । कार्यते ह्यवशः कर्मेत्यादिना साक्षाद्व्याख्यानायेत्यर्थः ।। जयादीनाम् ।। जयविजयादीनां हिरण्याक्षरावणादित्वादि रूपेणान्यथाभावदर्शनादित्यर्थः । मिश्रिता इति ।। स्वाभाविकतत्त्वज्ञानमिथ्याज्ञानोभयरूपा गुणा इत्यर्थः ।। इत्यादि योज्यमिति ।। तत्वज्ञानं स्वाभाविकं, भक्तिः स्वाभाविकीत्येवं योज्यमित्यर्थः ।। ततश्चेति ।। मिथ्याज्ञानादिगुणानां स्वाभाविकत्वतश्चेत्यर्थः ।। किञ्चात इति ।। अतश्च किमित्यर्थः ।। इत्यादीति ।। यस्य मध्यमगुणास्तानपेक्ष्य सदसत्कर्मणी कारयति यस्याधमा गुणास्तानपेक्ष्यासत्कर्म कारयतीत्यर्थः ।।
विष्णुनेत्यनुवादः विष्णोरित्यादिव्याख्या ।। तैः संमूढा इति ।। मिश्रगुणैस्संमूढाः ।। अभाव इति ।। ज्ञानादेरिति योज्यम् । विपरिणामेनार्थमाह ।। विष्ण्वधीनानिति ।। स्वभावेति ।। स्वभावानुगतिचेष्टिताया उपरतिरित्यर्थः ।। ३५ ।।
भावप्रकाशः
सक्त्यसक्तिपूर्वकत्वविशेष उक्तः इति ।। सक्ताः कर्मणीत्येनेनेत्यर्थः ।। क्वचितु अविशेषप्रसङ्ग इत्यत आह सक्ता इतीति पठः । तत्राहेत्यस्योच्यते इत्यर्थोद्रष्टव्यः । कर्मविशेषमुक्तवेति । कर्मविशेषं प्रपञ्चेत्यर्थः । कर्मकरणं विधीयत इति । गुणान्तरविधानपूर्वकमिति शेषः ।। नाहं कर्तेत्यादि सर्वोऽपि कर्मन्यास इति प्रतीतिनिरासायाह । नाहं कर्तेति निर्ममत्वमिति । कथं तत्पूजेतीत्यादि निरूपणमिति ।। तत्पूजा मया कृतेति निरूपणमनुपपन्नमित्यर्थः । तद्भक्तिरिति ।। न तत्फलमित्यस्य विष्णुफलमिति निरासायाह । तत्फलं पूजाफलमिति । अत्र कर्मन्यासस्यैव विष्णुतृप्तिकरत्वमुच्यते इत्यन्यथाप्रतीतिनिरासायाह निर्ममत्वादियुक्त इति ।। आदिपदेन निराशीस्त्वम् । इत्यादिविभागेनेति ।। जीस्येश्वराधीनकर्तृत्वं जडस्य परिणामिकतृत्वमिति विभागेनेत्यर्थः ।। ननु कथमीश्वरस्य परतन्त्रकर्तृत्वं नास्तीत्युच्यते । अस्मदादिनिष्टकर्तृत्वस्यापीश्वरायत्वादित्यत आह ।। अस्वकीयमिति ।। अस्वतन्त्रकर्त्रृत्वमीश्वरधर्मरूपं भवतीति कृत्वा नास्तीत्युच्यत इति भावः ।। आदिपदेन जीवानां परिणामिकर्तृत्वाभावो जडस्य स्वतन्त्रकतृत्वाभावश्च ग्राह्यः ।। इत्यादिवचनादिति । यस्मात्स्वतन्त्रकर्तृत्वं विष्णोरेव न चान्यगमित्यादिवचनादित्यर्थः ।। तदर्थत्व इति । प्रकृतिशब्दस्य स्वभावाद्यर्थत्व इत्यर्थः ।।
ननु मयि सर्वाणि कर्माणीति श्लोकमादौ व्याख्याय पश्चात्प्रकृतेः क्रियमाणानीत्यस्य व्याख्यानं क्रियते । एवं व्यत्यासे किं निमित्तमित्यत आह । मयीत्यादीति ।। व्याख्यानोपयोगित्वं दर्शयति । प्रकृतेरित्यादाविति । अन्यथाप्रतीतिनिरासायेति ।। प्रकृतेर्गुणैरिति सत्वादिगुणानां स्वतन्त्रकारणमुच्यत इत्यन्यथाप्रतीतिनिरासायेत्यर्थः ।। ननु स्वभावत इत्यस्य प्रकृतेरित्येतद्व्याख्यानरूपत्वाभावात्प्रकृत्युदाहरणमसङ्गतमित्यत आह । अत्रेति । अत्र स्वभावत इत्यादिपीठवचनमिति सम्बन्धः ।। किमर्थमित्यत आह । साक्षाद्व्याख्यानायेति ।। स्वाभाविकगुणानित्यनेन साक्षाद्व्याख्यानायेत्यर्थः ।। जयादीनामिति ।। जयविजयादीनां हिरण्याक्षत्वादिनाऽन्यथाभावदर्शनादित्यर्थः ।। नित्यकालस्य हरेश्चेच्छयेति प्रतीतिनिरासायाह । नित्यकाले संसार इति । प्राकृतैरित्यस्य प्रकृतिकार्यैरित्यन्यथाप्रतीतिनिरासायार्थमाह ।। स्वाभाविकैरिति ।। गुणा इच्छादयश्च ये इति वक्ष्यमाणानुसारेण विष्णुनेत्येतद्व्याचष्टे । विष्णोरिच्छादि गुणैरिति । तथा च जीवगुणान् निमित्तीकृत्य प्रकृतेः सत्वादिगुणान् उपादानीकृत्य विष्णोरिच्छादिगुणैः क्रियमाणेषु कर्मस्विति सम्बन्धः । अर्थद्वयमिति । परमात्मगुणैर्जीवगुणैश्चेत्यर्थद्वयमित्यर्थः ।। अर्थान्तरं स्वयमाह । उपादान तयेति ।। तत्वविदित्यस्येति ।। तत्ववित्तु महाबाहो इत्यस्येर्थः ।। नन्वविदुषां मध्ये उत्तमानामपि सत्वात् कथं तेषां स्वभावगुणसंमूढत्वमित्यत आह । स्वभावगुणानामुत्तमत्व इति ।। एवमेव ज्ञानादिगुणवत्तरमित्यादौ द्रष्टव्यम् ।। अभावे स एवदोष इति ।। ज्ञानादिगुणवत्वाभिमान एव दोष इत्यर्थः ।। २७३० ।।
वाक्यविवेकः
अज्ञवदाग्रहेणेति । अज्ञेन यथा अत्यावश्यकताबुध्या कर्म क्रियत । तथा लोकसङ्ग्रहेच्छुना ज्ञानिनाऽत्त्यावश्यकताबुध्या कर्म कार्यं चेत् विद्वदविद्वत्कर्मणोरविशेषप्रसङ्गः । अविद्वत्त्कर्मणोल्प फलसाधनत्त्वम् । ज्ञानिकर्मणः महाफलसाधनत्त्वमिति विशेषो न स्यादिति भावः । सक्तयसक्तिपूर्वकत्त्वविशेष इति । सक्ताः कर्मणीति श्लोकेन उक्तः सक्तयसक्तिपूर्वकत्त्वविशेषः प्रकृतेः क्रियमाणानीत्यादिश्लोकद्वयेन प्रपञ्च्यत इत्यर्थः ।। न बुद्धिभेदं जनयेदिति श्लोकः प्रकृतेर्गुणसंमूढा इति श्लोकेन विवृत इति द्रष्टव्यम् ।। नाहं कर्त्तेत्यनेन निर्ममशब्दोक्तनिर्ममत्त्वस्वरूपं विवृतमित्यर्थः । हरिः कर्त्तेत्यादिना कर्मन्यासशब्दार्थ उक्त इत्यर्थः । तद्भक्तिरितीति । तद्भक्तिरित्यादिना भक्तयादेरेव पूजाफलत्वोक्तया निराशीस्त्वं विवृतमित्यर्थः । तत्रस्थप्रकृतिशब्दादीनिति ।। प्रकृतेः क्रियमाणानि प्रकृतेर्गुणसंमूढः सदृशं चेष्टते स्वस्याः प्रकृतेरिति श्लोकत्रये विद्यमानान् प्रकृतिशब्दानित्यर्थः ।।
ननु गीतायां प्रकृतेः क्रियमाणानीति श्लोकः प्रथमः मयि सर्वाणि कर्माणीति श्लोकः पश्चात्तनः अतो मूलकृता तद्वाक्यं व्याख्यायेदं वाक्यं व्याख्येयम् । कुतो व्यत्त्यासेन व्याख्यानं कृतमित्यत आह ।। मयीत्यादीति । कथं तद्व्याख्यानोपयोगित्त्वमित्यत आह । प्रकृतेरित्यादाविति ।। ननु स्मृत्या व्याचष्ट इत्ययुक्तम् । अस्य व्याख्यानत्त्वाभावादित्यत आह । अत्र स्वभावत इति । किमर्थमिति । अद्यापि कुतः संसारे वर्तन्ते । पूर्वमेव मुक्ताः कुतो न जाता इति भावः । संसारानुवृत्तिरिति । इत उर्ध्वमनन्तकालेषु संसारानुवृत्तिर्न स्यात् । पूर्वकालस्यानन्तत्त्वेन एतावतैव कालेन साधनपूर्त्या सर्वेषां मोक्षस्य भाव्यत्त्वादिति भावः । नित्यकालहरीच्छयेति पदं व्याचष्टे । नित्यकाल इति । ननु गीतायां प्रकृतेर्गुणैरित्युक्तत्त्वात् विष्णुगुणैरिति व्याख्येयं कथं विष्णुनेति व्याख्यानमित्यत आह । विष्णुनेति । अर्थद्वयमिति । विष्णोर्गुणैर्जीवस्य गुणैरित्यर्थः द्वयमुक्तं भवतीत्यर्थः । उत्तमगुणानां मोहकारणत्वासम्भवादाह । स्वभावगुणानामिति । ज्ञानादिगुणसद्भावज्ञानादिगुणवत्वज्ञानं कथं भ्रम इत्त्यत आह । ज्ञानादिसद्भाव इति ।
मूले तेष्वयोग्येष्विति । अयोग्येषु ज्ञानं सम्यक् न प्रकाशयेदित्यर्थः । तैः सह प्रसङ्गे प्राप्ते किं कर्त्तव्यमित्यत आह । वदेद्विवादरूपेणेति । विवादरूपेण प्रसङ्गरूपेण तत्त्वं वदेदित्यर्थः । अयोग्यैर्जल्पकथायां प्राप्तायां स्वपक्षस्थापनं कर्त्तव्यं न तावन्मात्रेण प्रत्यवायो भवति । अत एव भीमसेनो जरासन्धेन सह जल्पं कुर्वन् स्वपक्षं स्थापितवान् । सतां जल्प इतीर्यत इति वचनं प्रायिकम् । सदसतोरपि कदाचित् जल्पो भवतीति भावः । तत्त्वं न प्रकाशयेदित्यस्य को विषय इत्त्यत आह । नोपदेशेति । स्वयं गुरुर्भूत्त्वा उपदेशो न कार्य इति भावः । ननु सभ्येन द्वयोरपि वादिनोर्मतम् उपपादानीयं प्रसङ्गरूपेणैव अयोग्यं प्रति तत्त्वं वक्तव्यं चेत् सता सभ्येन तत्त्वं नोपपादनीयं स्यादित्यत आह । सभ्यरूपेण वेति । सभ्यस्यायोग्यं प्रति वाद्यभिमततत्त्वोपन्यासो न दोषभागिति भावः । शिष्यभूतः अयोग्यः पृच्छति चेत् किं कार्यमित्त्यत आह । पृष्ट इति ।। २७३५ ।।