गीता
गीता
नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् ।
पश्यञ्ृण्वन्स्पृशञ्चिध्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ।। ८ ।।
प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निषन्नपि ।
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ।। ९ ।।
तात्पर्यम्
यथा न्यासस्य योगरूपत्वं तथाऽह नैव किञ्चिदित्यादिना ।
‘विष्णुनाऽर्थेष्वीरितानि मन आदीनि सर्वशः ।
वर्तन्तेऽन्यो न स्वतन्त्र इति जानन्हि तत्ववित्’ इति च ।। ८, ९ ।।
प्रकाशिका
विष्णुनेत्यनेनाभिमानत्यागरूपस्य न्यासस्य योगरूपत्वमुच्यते ।। ८,९ ।।
न्यायदीपिका
योगरूपसंन्यासस्य मोक्षहेतुत्वमुक्तम् । तत्र संन्यासस्य योगरूपत्वं केन प्रकारेणेत्यतस्तत्परिहारत्वेन श्लोकद्वयमवतारयति ।। यथेति ।। तत्रेन्द्रियाणामेव स्वातन्त्र्येण कर्तृत्वमुच्यत इत्यन्यथाप्रतीतिनिरासाय स्मृत्यैव व्याचष्टे ।। विष्णुनेति ।। ८,९ ।।
भावप्रकाशः
प्रतीत एवार्थः किं न स्यादित्यत आह । अन्यथेति ।। ८९ ।।
गीता
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ।। १० ।।
कायेन मनसा बद्ध्या केवलैरिन्द्रियैरपि ।
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ।। ११ ।।
युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् ।
अयुक्तः कामकारेण फले सक्तो निबध्यते ।। १२ ।।
सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी ।
नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ।। १३ ।।
तात्पर्यम्
तत्पूजात्मकानि तत्कृतानि मम शुभार्थमिति ब्रह्मण्याधानम् । स्वातन्त्र्या भावापेक्षयैव जीवस्याकर्तृत्वम् ।
‘स्ववन्दनं यथा पित्रा कारितं शिशुकर्तृकम् ।
एवं पूजा विष्ण्वधीना भवेज्जीवकृतेत्यपि’ इति प्रवृत्तेः ।
अतो मनसैव कर्मन्यासोऽस्वातन्त्र्यापेक्षया ।। १०१३ ।।
प्रकाशिका
ब्रह्मण्याधायेत्येतस्यार्थमाह ।। तत्पूजेत्यादिना ।। सर्वकर्माणींत्यस्यार्थमाह ।। अत इति ।। मनसा सर्वकर्मन्यासो नाम परमेश्वर प्रेरितत्वबुद्धिः, न तु कर्माकरणमित्यर्थः
।। १०१३ ।।
न्यायदीपिका
योगरूपसंन्यासवतो मुक्तिर्भवतीति नोपचारमात्रमिति भावेन पुनः फलमुच्यते ।। ब्रह्मणीति ।। तत्र कर्मणां ब्रह्मण्याधानं नामाकरणमेवेत्यन्यथाप्रतीतिनिरासायाह ।। तत्पूजेति ।। आधानं कर्मणामिति शेषः । अन्यथा करोतीत्यस्य व्याघातादिति भावः । भवत्पक्षेऽपि यदि कर्माणि भगवत्कृतानि तर्हि जीवस्याकर्तृत्वं स्यात् । तथा च करोतीति व्याहतं स्यात् । मम शुभार्थमिति चासम्भवीत्यत आह ।। स्वातन्त्र्येति ।। कर्मणां भगवत्कृतत्वे जीवस्याकर्तृत्वं स्यादिति सत्यमेव । न च तावता जीवस्य कर्तृत्वफलसंबन्धानुपपत्तिः । स्वातन्त्र्याभावविवक्षयैवाकर्तृत्वस्याभ्युपगतत्वेन भगवदधीनतया कर्तृत्वोपपत्तेरिति भावः । अस्वतन्त्रत्वे च जीवस्य भगवत्पूजाकर्तृत्वं शुभयोगश्च न युज्यते । अस्वतन्त्रे कर्तृशब्दप्रयोगस्य फलसम्बन्धस्य चादर्शनादित्याशङ्कां स्मृत्यैव परिहरति ।। स्ववन्दनमिति ।। कारितं शिशुनेति शेषः । शिशुकर्तृकं भवेदिति सम्बन्धः । इतश्च कर्मणां ब्रह्मण्याधानं नाम तत्र स्वस्य स्वातन्त्र्याभिमानत्याग एव । नतु स्वरूपपरित्याग इत्याह ।। अत इति ।। ब्रह्मण्याधाय कर्माणीति संन्यासो ह्युच्यते । तल्लक्षणं च सर्वकर्माणीत्यनेन प्रपंच्यते । तत्र कर्मणां स्वरूपपरित्यागाभावादेवहि मनसैव त्यागोऽभिहितोऽतश्च नात्रापि कर्मणां स्वरूपत्यागोऽर्थ इति भावः । मनसैव त्यागाभिधाने कथं स्वरूपत्यागाभाव इत्यत आह ।। अस्वातन्त्र्येति ।। मनसैव कर्मन्यासो नाम स्वातन्त्र्याभिमानपरित्याग एव ।। नतु स्वरूपत्यागः । तथात्वे मनसेति विशेषणवैयर्थ्यादिति भावः ।। १० ।।
किरणावली
शुभार्थमिति ब्रह्मण्याधानमिति मूलस्येति चिन्तनं कर्मणां ब्रह्मण्याधानमित्यर्थः । कर्माकरणमेव ब्रह्मण्याधानमित्यङ्गीकारे बाधकमाह ।। अन्यथेति ।। मम शुभार्थमिति चासम्भवतीति ।। अन्यकृतकर्मणाऽन्यत्र शुभायोगादिति भावः ।। भवेदिति सम्बन्ध इति ।। उत्तरार्धगतस्य भवेदित्यस्यात्रापि सम्बन्धः ।। शिशुकर्तृकत्वोक्तयैव शिशौ फलप्रदत्वमुक्तप्रायमिति भावः ।। १०१३ ।।
भावदीपः
अन्यथेति ।। आधानपदस्याकरणार्थत्वाङ्गीकार इत्यर्थः ।। सर्वकर्माणीत्यनेनेति ।। उपरितनतृतीयश्लोकेनेत्यर्थः ।। १०१३ ।।
भावप्रकाशः
पित्रा येन केनचित्कारितस्य शिशुकर्तृकत्वाभावादाह ।। शिशुनेति शेष इति ।। भवेदिति सम्बन्ध इति ।। उत्तरार्धगतस्य भवेदित्यस्य तन्त्र न्यायेनावृत्या सम्बन्धः कर्तव्य इत्यर्थः ।।
अतः शब्दपरामर्शं दर्शयति ।। ब्रह्मण्याधायेत्यादिना सर्वकर्माणीत्यनेनेति ।। सर्वकर्माणि मनसा संन्यस्येत्यर्थः ।। १०१३ ।।
वाक्यविवेकः
मूले स्ववन्दनमिति । यथा पित्रा शिशुना कारितं स्ववन्दनं शिशुकृतं भवेत् एवं विष्ण्वा धीना पूजा जीवकृता भवेत् । अतो जीवकृतेति वक्तुं शक्यते । अनुक्तसमुच्चायकापिशब्दात् पूजाजन्यफलसम्बन्धोऽपि जीवस्य भवेदित्यर्थः । अतः शब्दार्थमाह । ब्रह्मण्याधायेति ।। १० ।।