गीता
राजसयागानां फलम्
गीता
अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् ।
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ।। १२ ।।
विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् ।
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ।। १३ ।।
देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् ।
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ।। १४ ।।
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ।। १५ ।।
तात्पर्यम्
‘यागात्तु राजसात् स्वर्गः साङ्कल्पिक उदाहृतः ।
लोकः स दीनदेवानां सनाम्नां वासवादिभिः ।
विष्णावश्रद्धयाऽयोग्यकामाच्चैषां पुनर्भवेत् ।
नरकं च विना यज्ञं राजसा नरलोकगाः ।
निषिद्धकर्म कुर्युश्चेदीयुस्ते नरकं ध्रुवम् ।
‘कदाचित् सात्त्विकाः कुर्युः कर्म राजसतामसम् ।
अन्येऽन्यच्च तथाऽप्येषां स्थितिः स्वाभाविके पुनः ।
स्वं स्वं कर्म तु सर्वेषां सदैव स्यान्महत्फलम् ।
अन्यदल्पफलं चैव बाहुल्यं तेषु लक्षणम्’ इति पाद्मे ।। १२१५ ।।
प्रकाशिका
अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् । इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसमित्युक्तयज्ञफलमाह ।। यागादित्यादिना ।। यद्यस्य सात्विकं राजसं तामसं वा बहुकर्म तत्तस्य स्वाभाविकमित्येतदुच्यते बाहुल्यं तेन लक्षणमित्यनेन ।। १२१५ ।।
न्यायदीपिका
यदुक्तं राजसयजनेन सांकल्पिकः स्वर्ग एवेति तन्न युज्यते । अभिसन्धाय तु फलमिति तत्र फलाभिसन्धिना प्रवृत्तेः । राजसयोगेनेन्द्रादिदेवलोकः स्वर्गो भवतीति क्वचिद्वचनाच्चेत्याशङ्कां स्मृत्यन्तरेण परिहरति ।। यागादिति ।। स्वर्गाभिसन्धानात्तत्र प्रवृत्तेः कथं तदभाव इत्यत आह ।। विष्णाविति ।। स्वर्गकामनेन प्रत्युत नरक एव भवति न स्वर्गः । तेषां विष्णावश्रद्धासद्भावेन स्वर्गायोग्यानां तत्कामस्यायोग्यत्वादिति भावः । राजसानां सकामयज्ञाभावेऽपि नरकसद्भावात्कथमयोग्यकामादि तत्कारणमित्यत आह ।। विनेति ।। क्वचिन्नरकदर्शनस्य गतिमाह ।। निषिद्धमिति ।। अत्र नरकलोकप्रचुरत्वोक्तया राजसेषु मध्यमा विवक्षिता न तु नित्यत्रैविद्या इति ज्ञातव्यम् । यदि राजसकर्मणा नरकः स्यात्तर्हि सात्विकानामपि तत्करणसम्भवान्नरकप्राप्तिः स्यादित्यत आह ।। कदाचिदिति ।। यद्यपि सात्विका राजसतामसे, राजसाः सात्विकतामसे, तामसाश्च सात्विकराजसे कर्मणी यद्यपि कुर्वन्ति । तथापि तत्कदाचिदेव । स्वाभाविककर्मण्येव प्राधान्येन स्थितिः । महता चाल्पाभिभव इति न फलसंकर इति भावः । स्वाभाविकं महाफलमस्वाभाविकमल्पफलमित्यतोऽपि स्वाभाविकेनान्याभिभवसम्भवान्न फलसंकर इत्याह ।। स्वमिति ।। यदि सात्विकादीनां स्वाभाविकास्वाभाविककर्मकरणं स्यात्तर्हि इदं स्वाभाविकं कर्म, इदं नेति कथं ज्ञायत इत्यत आह ।। बाहुल्यमिति ।। स्वाभाविकादिकर्मसु यद्बहुलं तत्स्वाभाविकमल्पमस्वाभाविकमिति बाहुल्यादिज्ञापकमिति भावः ।। १२१५ ।।
किरणावली
फलाभिसन्धिनेति ।। स्वर्गकामो यजेतेत्युक्तमुख्यस्वर्गाख्यफलाभिसन्धिना प्रवृत्तेः । वेदोक्तकर्मानुष्ठानेऽपि तदलाभे तदप्रामाण्यप्रसङ्गादिति भावः । न केवलं युक्तया राजसानां मुख्यस्वर्गावधारणं वचनाच्चेत्याह ।। राजसयागेनेति ।। ते पुण्यमासाद्य सुरेन्द्रलोकमित्यादिवचनमित्यर्थः । यागात्त्विति मूले तुशब्दोऽवधारणे । सांकल्पिक एव न तु मुख्य इत्यर्थः ।। विष्णावितीति ।। विष्णावश्रद्धयाऽयोग्यकामाच्च साङ्कल्पिक एव न तु मुख्य इति पूर्वेणान्वय इति भावः । विष्णावश्रद्धयेत्यादेरुत्तरेणाप्यन्वयमभिप्रेत्याह ।। स्वर्गकामनेनेति ।। प्रत्युतेति पुनःशब्दार्थकथनम् । नरक एवेत्यनेन नरकं चेति चशब्दोऽवधारणार्थ इत्युक्तं भवति । ननु स्वर्गकामनेन कथं नरकः । गतागतं कामकामा लभन्त इति गीतागतस्यैव कामफलत्वोक्तेरित्यत उक्तम् ।। स्वर्गायोग्यानां तत्कामस्येति ।। अयोग्यकामनं चार्थनाशकमनर्थफलं चेति भावः । कथं तेषां स्वर्गायोग्यत्वमित्यत उक्तं तेषां विष्णावश्रद्धासद्भावेनेति ।। क्वचिन्नरकदर्शनस्येति ।। यज्ञाभावेऽपि नरकदर्शनस्येत्यर्थः । ननु भुङ्क्ते स्वर्गफलं नित्यं निरयं नैव गच्छति । विष्णोस्तु मध्यमो भक्त इत्येकादशस्कन्धतात्पर्ये, त्रैविद्या मां सोमपा इत्यादिगीतायां च राजसानां मुख्यस्वर्गस्य कामनया नरकाभावस्य चोक्तेर्विरोध इत्यत आह ।। अत्र नरलोकप्रचुरत्वोक्तयेति ।। जीवास्त्रिविधाः । सात्विका राजसास्तामसाश्च । तत्र राजसास्त्रिविधाः । राजससात्विका राजसराजसा राजसतामसाश्चेति । राजसतामसाश्च द्विविधाः भूप्रचुरा निरयप्रचुराश्चेति । तत्र राजससात्विकाः मुक्तियोग्याः । राजसराजसा राजसतामसाश्च नित्यसंसारिणस्ते तावदुभयेऽपि राजसा उत्तमा मध्यमा अधमाश्चेति त्रिविधाः । तत्र नरलोकप्रचुरत्वोक्तया राजसेषु मध्यमा अत्र राजसपदेन विवक्षिताः । न तु राजसेषु उत्तमा नित्यत्रैविद्याः । तेषां मुख्यस्वर्गभाक्त्वात् । नाप्यधमा निरयप्रचुरास्तेषां प्रायः कल्पितस्वर्गस्याप्यभावादिति भावः ।।
यदि राजसकर्मणा नरकः स्यादिति ।। अत्र नरकपदं सांकल्पिकस्वर्गस्याप्युपलक्षकम् । एवं नरकप्राप्तिरित्यत्रापि द्रष्टव्यम् । तथा च यदि राजसकर्मणा नरकः साङ्कल्पिकः स्वर्गश्च स्यात्तर्हि सात्विकानामपीति योज्यम् । एतदुपलक्षणम् । यदि तामसकर्मणा भूतादित्वं तमश्च स्यात्तदा सात्विकानां राजसानामपि तत्करणसम्भवात् भूतादित्वं तमश्च स्यात् । तथा यदि सात्विककर्मणा ज्ञानद्वारा मोक्षः स्यात्तदा राजसतामसयोरपि तत्करणसम्भवात् मोक्षः स्यादिति सर्वेषां सर्वफलसङ्कर इति द्रष्टव्यम् । यद्यपि कदाचित्कुर्युस्तथाऽप्येषां स्थितिरित्यन्वयप्रतीतेर्विवक्षितमन्वयमाह ।। यद्यपि कुर्वन्ति तथापि तत्कदाचिदेवेति ।। कादाचित्कमपि स्वस्वफलप्रदमिति फलसाङ्कर्यमवर्जनीयमित्यत उक्तं मूले एषां स्थितिरिति । एषां पुनरस्वाभाविक कर्मणः पर्यावृत्त्या पुनरतिशयेन स्वाभाविककर्मण्येव स्थितिरिति तदर्थमाह ।। स्वाभाविककर्मण्येवेति ।। यद्वक्ष्यति
स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा ।
कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तदिति ।।
महतेति ।। बहुकालमनुष्ठितत्वात् । कालतः स्वभावतश्च महता कर्मणाऽल्पस्याभिभवः प्रतिबन्ध इति न फलसङ्कर इत्यर्थः । स्वाभाविकस्य मोक्षादिमहाफलहेतुत्वात् । अस्वाभाविकस्यागन्तुकस्य तद्विरोधितम आदिमहाफलसंपादनसामर्थ्याभावेन नरकाद्यल्पफलसंपादनेनैव चारितार्थ्यात्स्वाभाविकेना स्वाभाविकस्य फलोपमर्दाख्याभिभवसम्भवान्न फलसंकर इति भावेनावतारयति ।। स्वाभाविकमिति ।। बाहुल्यं तेषु लक्षणमित्यत्र बाहुल्यमित्युपलक्षणमित्यभिप्रेत्याह ।। १२१५ ।।
भावदीपः
वाक्यान्तरेणेति ।। ॐ तत्सदिति, यद्विष्णोरित्यादि वाक्यान्तरेणेत्यर्थः ।। तद्वाक्येति ।। प्रागुक्तस्मृतिवाक्यविवरणेनैतद्वाक्यं गीतावाक्यमित्यर्थः ।। १६२२ ।।
भावप्रकाशः
पुनःशब्दार्थमाह । प्रत्युतेति ।। नरक एवेति । अनेन चशब्द एवार्थ इत्युक्तं भवति ।। कथमयोग्यकामादीति । व्यतिरेकव्यभिचारादिति भावः ।। राजसेषु मध्यमा इति ।। राजसा द्विविधाः नित्यत्रैविद्या अज्ञाश्चेति । अज्ञा अपि द्विविधाः न च लोकप्रचुराः नरक प्रचुराश्चेति ।। तत्र मध्या अत्र विवक्षिता इत्यर्थः ।। १२१५ ।।