पूर्णानन्दमहोदधिः परतमो नित्यः ..

भाष्यम्

अन्तिममङ्गलाचरणम्

पूर्णानन्दमहोदधिः परतमो नित्यः परस्मात् सदा सर्वज्ञः सकलेशिता गुणनिधिर्नित्योत्सवस्तद्विदाम् । सर्वस्मादधिकं मम प्रियतमस्त्विष्टादपीष्टोत्तम: सर्वस्माच्च हितात् सदा हिततमः प्रीतो भवेन्मे हरिः ।

पदार्थकौमुदी

एवं समापितभाष्यो भगवानाचार्योऽन्तेऽप्येतदुपनिषदुक्तगुणविशिष्ट- भगवत्स्तुतिप्रीतिप्रार्थने कृत्वा निबध्नातिपूर्णानन्देति ॥ परस्मात् परतमः । गुणानां निधिः निधानमित्युक्ता एव गुणा लेशतो दर्शिताः पूर्णानन्देत्यादिना || पूर्णोऽपरिच्छिन्नः । सदा सकलेशितेत्यन्वयः । नित्यमुत्सवो यस्मादसौ नित्योत्सवः । सर्वस्माद् रुद्रादेरधिकं यथा स्यात् तथा मम प्रियतमः परमपुरुषार्थरूपः । कुतः ? तुशब्दो हेत्वर्थे । यस्मादि- ष्टादपीष्टोत्तमः । अतिशयेनेष्टमेव परमपुरुषार्थरूपं भवतीति भावः । हित- तमः अतिशयेनाऽप्तः । सुहृद् वा ।

Load More