तद् यत् प्रथमममृतं तद्वसव उपजीवन्त्यग्निना मुखेन..

उपनिषत् (खण्डः -६)

मधुनामकवासुदेवोपासना

तद् यत् प्रथमममृतं तद्वसव उपजीवन्त्यग्निना मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ।। १ ।। त एतदेव रूपमभिसंविशत्येतस्माद् रूपादुद्यन्ति ॥ २ ॥ स य एतदेवममृतं वेद बसूनामेवैको भूत्वाऽग्निनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स य एतदेव रूपमभिसंविशत्येतस्माद् रूपादुदेति ॥ ३ ॥

स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता वसूनामेव तावदा- धिपत्यं स्वाराज्यं पर्येता ।। ४ ।। ६ ।।

भाष्यम्

'प्रथमामृतस्य द्रष्टारो वसवस्त्वग्निपूर्वकाः । यावत् पश्यन्ति तं विष्णुं तावत्ते नान्यभोगिनः ॥ एतदेव विशन्त्यद्धा मोक्षे ते तत एव च ।स्वेच्छयैव समुद्यन्ति मुक्ताः सन्तो बहिस्तथा ||

पदार्थकौमुदी

एवं पञ्चरूपिणं भगवन्तं मधुतया प्रपञ्चेन निरूप्येदानीं के कस्यामृतस्य सेवकाः ? कि तेषां फलमित्याकाङ्क्षायां तत्सर्वं पञ्चभिः खण्डैर्निरूपयति तद्यदित्यादिना ॥ तत्र " वसव उपजीवन्ति " इत्युक्तमुपजीवनं न भोक्तृत्वम् ।एतदेवामृतं दृष्ट्वा '' इत्यस्यासङ्गत- त्वापत्तेरतोऽत्र विवक्षितमुपजीवनमाह - प्रथमामृतस्य द्रष्टार इति ॥ तथाच उपजीवन्तीत्यस्य पशन्तीत्यर्थ उक्तो भवति ।अग्निना मुखेनइत्यत्राग्नेर्वस्वात्मता प्रतीयते । नचेदं सम्भवति । असङ्गतत्वात् । अग्नेः कथञ्चिद्देवाख्यत्वसम्भवेऽपि " इन्द्रेण मुखेन" इत्यादावस्यार्थस्या- सम्भवाच्चेत्यतस्तात्पर्यमाह्अग्निपूर्वका इति ॥ तथाचाग्निना मुखेन प्रधानेन सहाग्निप्रधानाः सन्त इति यावदित्यर्थ उक्तो भवति ।न वै देवा अश्नन्ति न पिबन्ति " इति वाक्यस्य " अन्नाद्यं रसोऽजायत' इति वचनात् कबलग्रासमश्नन्तीति प्राप्तं तत्प्रतिषिध्यतेऽनेन वाक्येनेति व्याख्याननिरासाय तात्पर्यमाह - यावत्पश्यन्तीति । तथाच यावदे - तदेवामृतं दृष्ट्वा तृप्यन्ति तावद्देवा नैवाश्नन्ति न पिबन्ति विषयभोग- विरक्ता भवन्तीत्यर्थं उक्तो भवति । परव्याख्या त्वनेनैव प्रमाणेन विरोधात् ‘“अन्नाद्यं रसः " इति वाक्यस्य भगवत्परतया प्रमितत्वेन कबलग्रासाशनस्याप्राप्तत्वेन प्रतिषेधायोगाच्चायुक्तेति ध्येयम् ॥

खण्डपञ्चके ‘“त एतदेव रूपमभिसन्दिशन्ति ' ' इति वाक्यम् एतदेव रूपम् अभिलक्ष्याधुना भोगावसरो नास्माकमिति बुद्ध्याऽभिसंविशन्ति । उदासते । यदा चैतस्यामृतस्य भोगावसरो भवेत् तदैतस्मादमृता-दमृतभोगनिमित्तमित्यर्थः । एतस्माद् रूपादुद्यन्ति उत्साहवन्तो भवन्ती- त्यादिपरप्रलापनिरासाय क्रमेण यथावद् व्याचक्षाणस्तावदादिवाक्यं व्याचष्टे - एतदेवेति ॥ विशन्त्येवेत्येवशब्दान्वयः । अभीत्यस्यार्थः - अद्धेति ॥ निश्वयेनेत्यर्थः । ततश्च भगवद्रूपाच्च समुद्यन्त्येवेत्यन्वयः । एवकारद्वयेन परोक्तव्युदासः । अप्रामाणिकत्वात् प्रमाणविरोधाच्च । स्वेच्छयैवानायासेनैव । स्वः परमात्मा तदिच्छयैवेति वा । समुद्यन्ति निर्गच्छन्ति । तथाशब्दः समुच्चये ।

खण्डार्थः

तत् प्रसिद्धम् । यत् प्रथममृतं वासुदेवाख्यं तद् वसवः प्राप्तपदाः उपजीवन्ति । श्रवणादिरूपविचारानन्तरं पश्यन्तीत्यर्थः । अग्निना मुखेन प्रधानेन सहिताः अग्निप्रधानका इत्यर्थः । इतरवसून् प्रति स उपदेष्टे भावः । उपजीवन्तीत्युक्तापरोक्षज्ञाने विषयवैराग्यं कारणमिति दर्शयं - स्तत्साध्यमाहन वा इति ।। यावदेवामृतं दृष्ट्वा तृप्यन्ति मुक्तिं प्राप्नुवन्ति तावद् देवाः नाश्नन्ति न पिबन्ति । उपलक्षणया समस्तविषयभोगविरक्ता भवन्तीत्यर्थः । तृप्यन्तीत्युक्तमेव विवृणोति देव रूपमिति ॥ एतदन्तः प्रविष्टा भवन्तीत्यर्थः । उद्यन्ति स्वेच्छयैव बहिरपि निर्यान्ति

॥ १-२ ॥

एवं प्राप्तपदानां वसूनां सायुज्यरूपमुक्तिं फलमभिधायाधुनाऽ- प्राप्तपदानां वसुपदयोग्यानामेतद्विद्यासाध्यं फलमाह - स य इति ॥ योऽधिकारी एतद् अमृतम् एवं वेद स वसूनामेवैको भूत्वा वसु- भोग्यदेशकालाधिपो भूत्वाऽग्निना मुखेन प्रधानेन तदुपदेशेनेति यावत् । एतदेवामृतं दृष्ट्वेत्यादि पूर्ववत् ॥ ३ ॥

ननु वसुभोग्यौ देशकालौ कियन्तौ ? यदधिपोऽयं भवतीत्युक्त-मित्यपेक्षयामाहस यावदादित्य इति ।। आदित्यः यावद् यावता कालेन काष्ठाद्वयसहितैकत्रिंशद्धटिकात्मकाहर्लक्षणेन तत्कालगन्तव्यदेशेन च पुरस्तादुदयाद्रौ उदेत्य पश्चादस्ताद्रावस्तमेता तावत् तावत एव उदयास्ताद्रिमध्यस्यैव देशस्योक्तपरिमाणार्हलक्षणस्यैव कालस्य च वसूनामाधिपत्यमस्ति । सः पूर्वोक्तोऽधिकारी तत्पर्येता परितो गन्ता । न केवलमाधिपत्यं पर्येता । किन्तु स्वाराज्यं स्वं रञ्जयतीति स्वराट् स्वराडेव स्वाराज्यं विषयानुभवरूपो भोगः तमपि पर्येता । अधिगच्छतीत्यर्थः ॥ ४॥

॥ इति षष्ठः खण्डः ॥