देवासुरा ह वै यत्र संयेतिर उभये प्राजापत्यास्तद्ध देवा उद्गीथमाजह्रुः

उपनिषत् (खण्डः २)

मुख्यप्राणरूपप्रतीके देवकृताध्यात्मभगवदुपासना

देवासुरा ह वै यत्र संयेतिर उभये प्राजापत्यास्तद्ध देवा उद्गीथमाजह्रुः । अनेनैनानभिभविष्याम इति ॥ १ ॥

ते ह नासिक्यं प्राणमुद्गीथमुपासाञ्चक्रिरे तंहासुराः पाप्मना विविधुस्तस्मात् तेनोभयं जिघ्रति सुरभि च दुर्गन्धि च पाप्मना ह्येष विद्धः ॥ २ ॥

अथ ह वाचमुद्गीथमुपासाञ्चक्रिरे तां हासुराः पाप्मना विविधुस्तस्मात् तेनोभयं वदति सत्यं चानृतं च पाप्मना ह्येषा विद्धा ॥ ३ ॥

अथ ह चक्षुरुद्गीथमुपासाञ्चक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात् तेनोभयं पश्यति दर्शनीयं चादर्शनीयं च पाप्मना ह्येतत् विद्धम् ॥ ४ ॥

अथ ह श्रोत्रमुद्गीथमुपासाञ्चक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात् तेनोभयं शृणोति श्रवणीयं चाश्रवणीयं च पाप्मना ह्येतत् विद्धम् ॥ ५ ॥

अथ ह मन उद्गीथमुपासाञ्चक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात् तेनोभयं सङ्कल्पयते सङ्कल्पनीयं चासङ्कल्पनीयं च पाप्मना ह्येतत् विद्धम् ॥ ६ ॥

अथ ह य एवायं मुख्यप्राणस्तमुद्गीथमुपासाञ्चक्रिरे तं हासुराः ऋत्वा विदध्वंसुर्यथाऽश्मानमाखणमृत्वा विध्वंसेतैवम् ॥ ७ ॥

प्राणज्ञानस्य फलम्

स यथाऽश्मानमाखणमृत्वा विध्वंसत एवं हैव स विध्वंसते य एवं विदि पापं कामयते यश्चैनमभिदासति स एषोऽश्माऽऽखणः ॥ ८ ॥

मुख्यप्राणस्य महिमा

नैवैतेन सुरभि न दुर्गन्धि विजानात्यपहतपाप्मा ह्येषः । तेन यदश्नाति यत्पिबति तेनेतरान् प्राणानवत्येतमु एवान्ततो वित्त्वोत्क्रामति व्याददात्येवान्तत इति ॥ ९ ॥

तं हाङ्गिरा उद्गीथमुपासाञ्चक्रे एतमु एवाङ्गिरसं मन्यन्तेऽङ्गानां यद्रसस्तेन ॥ १० ॥

तं ह बृहस्पतिरुद्गीथमुपासाञ्चक्र एतमु एव बृहस्पतिं मन्यन्ते । वाग्घि बृहती तस्या एष पतिस्तेन ॥ ११ ॥

तं हायास्य उद्गीथमुपासाञ्चक्र एतमु एवायास्यं मन्यन्त आस्याद्यदयते तेन ॥ १२ ॥

तेन तं ह बको दाल्भ्यो विदाञ्चकार स ह नैमिशीयानामुद्गाता बभूव स ह स्मैभ्यः कामानागायति ॥ १३ ॥

आगता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्त इत्यध्यात्मम् ॥ १४ ॥ २ ॥

भाष्यम्

(१) उद्गीथाख्यस्य विष्णोर्विशिष्टप्रतिमा वायुरेव । अतस्तस्य सर्वोत्तमत्वज्ञानपूर्वकं तस्मिंस्ततोऽप्युत्तमत्वेनोपासित एव भगवान् सम्यक् फलं ददातीति दर्शयति ।

(( २ ) वायौ मुख्यधियेति च' इति भगवद्वचनम् । ' यस्माद् वायौ स्मृतो विष्णुर्वायोर्मुख्यतयाऽखिलात् । स्वस्य मुख्यतया तस्मात् परां तुष्टिं गमिष्यति ॥ अतो विचार्य सकलैर्देवैः प्राणे जनार्दनः । उपासितो दैत्यजयकारणात् पापवर्जिते ॥ वायुपुत्रं च नासिक्यमग्निं वागात्मकं तथा । . सोमं श्रोत्रात्मकं चैव सूर्यं चक्षुः स्वरूपिणम् ॥ रुद्रं मनः स्वरूपं च शेषं चाहंस्वरूपिणम् । चित्तात्मकं च गरुडं पापेन विविधुः सुरान् ॥ असुरास्तैर्यतो विद्धास्तस्मात् ते दोषयोगिनः । मुख्यवायौ यदा देवाः शरीरस्थे च सूर्यगे || विष्णुमुद्गीथनामानं तदा तं च विदध्वसुः । यदा विदध्वसुः प्राणं विध्वस्तास्ते तदाऽसुराः ।। अखन्याश्मानमेवाऽप्य लोष्टो विध्वंसते यथा । प्रतिमां प्रेयसीं प्राप्य विष्णोः प्राणं तथाऽसुराः । तस्मादादित्यसंस्थे वा शरीरस्थेऽपि वाऽनिले (१) | बलज्ञानात्मके दिव्याकृतिमत्युज्ज्वलात्मनि ॥ (२) सर्वदेवोत्तमे विष्णुमुपासीत ततोऽधिकम् । अस्योपासनया देवाः सर्वे नामानि (३) भेजिरे || इन्द्रो बृहस्पतिः शम्भुरित्याद्याः प्राणगा यतः । प्राणस्य नामशब्दाश्च मुख्यतो विष्णुसंस्थिताः ।।' इति प्रध्याने ।

'उद्गीथाख्यं परं विष्णुमुपास्त्या जहुरञ्चसा । तथाऽपि प्राण एवासौ प्रीतिमागादुपासितः ।।' इति च । 'प्राणं प्राप्यैव विध्वस्ता यथा सर्वेऽसुरास्तथा । तदुपासकस्य यश्चापि प्रतीपं दातुमिच्छति ॥' इति च । (४) एवं विदित्वा संसारान्मुक्तिमेष्यत्यसंशयम् । विष्णुमप्यन्ततो वेत्ति प्राणवेत्ता यतः स्फुटम् ।। वीति विष्णुः समुद्दिष्टो विशिष्टत्वात्तु सर्वतः । आददात्येव तं प्राणवेत्ताऽन्ते तत्प्रसादतः ।। प्राणात् परं तु ये विष्णुं जीवांश्चैवावरांस्ततः ।

ये विदुस्ते विदुः प्राणं नान्यथा तु कथञ्चन ।। ' इति च ।

'प्राण उद्गीथ इत्याद्या नाम ब्रह्मादिकास्तथा ।

सप्तम्यर्थाः समुद्दिष्टाः सप्तसु प्रथमा यतः ।

प्राणमुद्गीथमित्याद्या द्वितीया सप्तमी मता ।।' इति च ।

।। खण्डः - २ ।।

पदार्थकौमुदी  

तात्पर्याप्रतीतेरुत्तरखण्डमवतारयति उद्गीथाख्यस्येति ॥ओ- मित्येतदक्षरमुद्गीथमुपासीत'' इत्युद्गीथाख्यस्य विष्णोरुपास्तिः कर्तव्येत्यु- क्तम् । तत्र न तावत् केवलस्य विष्णोरुपास्तिः कर्तुं युक्ता । सर्वेषां तद- नधिकारात् । किन्तु कचित् प्रतिमायाम् । तत्रापि न साधारणप्रतिमायां तदुपास्तिर्युक्ता । फलाधिक्याभावात् । किन्तु विशिष्टायामेव । अतः सा केत्याशङ्कायामिदमाहेति भावः । वायुरेव, आधिकारिवर्ग इति शेषः । किं तत इत्यत उक्तम्अत इति । वायोः सर्वलोकाधारत्वेन तदाश्रितेतर- पदार्थसाधारण्यव्यावर्तनाय ततोऽप्युत्तमत्वेनेत्युक्तं दर्शयति  "देवासुराः" इति खण्डेन वेदपुरुष इति शेषः । " विष्णोर्विशिष्टप्रतिमा वायुरेव'' इत्यत्र प्रमाणमाहवायाविति ।

"सूर्योऽग्निर्ब्राह्मणो गावो वैष्णवः खं मरुज्जलम् । भूरात्मा सर्वभूतानि भद्रपूजापदानि मे ।। "

इति पूर्ववाक्ये मरुतो भगवत्पूजास्थानत्वमुक्त्वा तत्प्रकारो वायावित्यनेनोच्यते । वायौ मुख्यधिया वायो: सर्वोत्तमज्ञानेन मां यजेतेति पूर्वेणान्वयः । यदि वायुर्विष्णोर्विशिष्टप्रतिमा न स्यात् तदा वायु- सर्वोत्तमत्वज्ञानं कथं विष्णुपूजा स्यादिति भावः । उक्तं च -

सर्वदेवोत्तमो वायुरिति ज्ञानान्न चापरम् ।

प्रियमस्ति हरेः किञ्चित् तथा वायोर्हरेर्विदः || ” इति ।

मां यजेतेत्युक्तास्मच्छब्दवाच्यः क इत्याशङ्कानिरासाय भगवद्वचन- मित्युक्तम् । भगवतो वासुदेवस्य वचनमित्यर्थः । न केवलं वेदपुरुषो दर्शयति । किन्तु भगवद्वचनं च विवक्षितमर्थं दर्शयतीति चशब्दार्थः ।

ननु ज्ञानिनो देवा मुख्यप्राणमुद्गीथाख्यविष्णोर्विशिष्टप्रतिमां जानन्त्येव । अतः किमर्थं स्वशत्रुजयाय पापवेध्यनासिक्यप्राणादा- वुद्गीथमुपास्य तेषामसुरकृतपापबेधेऽन्ततो मुख्यप्राण उद्गीथमुपासितवन्त इत्याशङ्कां परिहर्तुं तस्य सर्वोत्तमत्वज्ञानपूर्वकमित्याद्युक्तमर्थं प्रमाणेन द्रढयन्नाहयस्मादिति ।। अखिलात् जगतो वायोर्मुख्यतया । तस्माद् वायोः स्वस्य मुख्यतया वायौ स्मृतो विष्णुः परां तुष्टिं गमिष्यतीति सम्बन्धः ।। विचार्येति || ' ज्ञानिभिरपि देवैर्वायोः सर्वोत्तमत्वनिर्णयाय'' इति पूरणीयम् ।पापवर्जिते प्राणे" इत्यन्वयः । " सकलैर्देवै दैत्यजयइति चोक्त्या श्रुतौ देवासुरशब्दौ प्रसिद्धदेवासुरपरावेवेत्युक्तं भवति । तेन शास्त्रोद्भासिता इन्द्रियवृत्तयो द्योतनाद् देवाः, तद्विपरीता इन्द्रियवृत्तयः स्वेष्वेवासुषु रमणादसुरा इति परकीयं व्याख्यानमपास्तम् । देवासुरशब्दयो रूढिपरित्यागेन यौगिकार्थग्रहणे कारणाभावात् । "ते ह नासिक्यं प्राणमुद्गीथमुपासाञ्चक्रिरे" इत्यादी प्राणवाक्चक्षुः श्रोत्रमनः- शब्दा इन्द्रियपरा इत्यसत् । " तद्ध देवाः" इति देवोपक्रमविरोधात् ।एवमु खल्वेता देवताः पाप्मभिरुपासृजन्नेवमेनाः पाप्मनाविध्यन्इति श्रुत्यन्तरे देवानामेवासुरकृतपापविद्धत्वोक्तेश्चेति भावेनान्येषामपि पापवर्जितत्वे को विशेषो मुख्यप्राणस्येत्यतःतं हासुराः पाप्मना विविधुः" इत्यादिवाक्यपञ्चकं व्याचष्टे - वायुपुत्रमिति ॥ यदा देवा नासिक्यप्राणादावुद्गीथनामानं विष्णुमुपासाञ्चक्रिरे तदेति ग्राह्यम् । नासिकायां भवो नासिक्यस्तदभिमानीति यावत् । वागात्मकं वागभिमानिनम् । एवमुत्तरत्र । प्राणस्य सर्वदेवोत्तमत्वलाभाय मनःप्रभेदा- हंचित्ताभिमानिनौ शेषगरुडावुपात्तौ । बुद्धिचेतनाभिमानिनावपि ग्राह्यौ । अन्येन्द्रियाभिमानिनामुपलक्षणमेतत् । विविधुरेवेत्येवशब्दसम्बन्धः । तस्मात् ‘‘तेनोभयं जिघ्रति सुरभि च दुर्गन्धि च । पाप्मना ह्येष विद्धःइति वाक्यपञ्चकं व्याचष्टे तैरिति ॥ " अथ ह एवायं मुख्यप्राणस्तमुद्गीथमुपासाञ्चक्रिरे तं हासुरा ऋत्वा विदध्वसुः" इति वाक्यंतमुद्गीथं" इति सामानाधिकरण्येन मुख्यप्राणोद्गीथयोरभेद उच्यत इति प्रतीतिनिरासाय व्याचष्टेमुख्यवायाविति । अनेन तमिति द्वितीया सप्तम्यर्थेत्युक्तं भवति । प्राणोद्गीथयोरभेदस्य बाधितत्वात् । नासिक्यप्राणमुद्गीथमित्यादिसामानाधिकरण्येन तदभेदप्राप्तावुद्गीथाख्यस्य विष्णोः पापवेधप्राप्तेश्व । शरीरस्थ इत्यनेनायमित्यस्य शरीरस्थ इत्यर्थः सूचितो भवति ।। ‘“सूर्यगेइति य एवासौ तपति तमुद्गीथमुपासीत'" इत्युत्तरखण्डविवक्षयोक्तं उद्गीथनामानमुपासाञ्चक्रिर इति शेषः । विदध्वसुः विविधुः । ‘“स यथाऽश्मानम् ' ' इति दृष्टान्तवाक्यसङ्घटनाय तं विदध्वसुरित्येतदेवापेक्षितपूरणेन पुनर्व्याचष्टे - यदेति ॥ इदानींस यथाऽश्मानमाखणमृत्वा विध्वंसत एवम्इति वाक्यं व्याचष्टे अखन्याश्मानमिति ।। तथाऽसुरा विध्वस्ता इति सम्बन्धः । अस्त्वेवमसुरकृतपापवेधशून्यत्वात् पापवर्जिते मुख्यप्राणे देवैर्जनार्दन उपासित इति । किं तत इत्यत आह - तस्मादिति || देवैः पापवर्जिते शरीरस्थे सूर्यगे च मुख्यवायौ विष्णोरुपासितत्वादित्यर्थः । " आदित्यसंस्थेऽनिले विष्णुमुपासीत" इत्यनेन " य एवासौ तपति तमुद्गीथमुपासीतइत्युत्तरखण्डगतमुपासनविधिवाक्यं व्याख्यातम् ।शरीरस्थेऽनिले विष्णुमुपासीत" इत्यनेन पूर्वखण्डे यत्किञ्चिदध्यापका " अथ ह य एवायं मुख्यप्राणस्तमुद्गीथमुपासीत ' ' इति पठन्ति तद् व्याख्यातं भवति ।बलज्ञानात्मके'' इति प्राणशब्दार्थः । प्रकर्षेणाऽ- समन्ताण्णं बलं यस्यासौ तथोक्तः । " णकारो बलम्इति श्रुतेः । प्रकृष्टमणनं ज्ञानं यस्यासौ तथोक्त इति वा । " अण पण गतौ " इति धातोः । तपतीत्युक्त्यनुरोधेन "उज्वलात्मनि ' ' इत्युक्तम् । तल्लब्ध- मर्थमाहदिव्याकृतिमतीति ॥ ततो वायोः ।तं बृहस्पति- रुद्गीथमुपासाञ्चक्रे " इति वाक्यं सजातीयोपलक्षणपरमिति भावेन "एतमु एव बृहस्पतिं मन्यन्ते " इति वाक्यसङ्घटनायैतदुपास्तिफलमाह - अस्येति ।। देवा इत्युपलक्षणम् । ऋषयश्चेत्यपि ग्राह्यम् । तेन "तं हाङ्गिरा उद्गीथमुपासाञ्चक्रेइत्युक्तोपासनस्य फलं लब्धम् । सर्वनामानि स्वस्वनामानि । अनेनोपासाञ्चक्र इत्यनन्तरं " तथा बृहस्पतिरिति नाम भेजे " इति पूरणीयमित्युक्तं भवति ।

नन्विन्द्रबृहस्पतीत्यादीनि देवनामान्यङ्गिरः प्रभृतीनि ऋषिनामानि चन्द्र बृहस्पत्यादीनां स्वत एव सिद्धानि । अथ कथमस्योपासनया तेषां तत्तन्नामलाभ इत्युच्यत इत्यतो नैतानि तेषां नामानि । किन्तु मुख्यप्राणस्यैव मुख्यतः । नच प्रसिद्धिविरोधः । तदुपासनालब्धतत्त- नामकत्वेन तदुपपत्तेरिति भावेन प्रवृत्तं " एतमु एव बृहस्पतिं मन्यन्ते " इति वाक्यमुपलक्षणपरमित्यभिप्रेत्य व्याचष्टे इन्द्र इति ॥ इत्याद्याः शब्दाः । आदिपदेनर्षिवाचकशब्दा अपि ग्राह्याः । नन्वेवं तर्हियो देवानां नामधा’” “इन्द्रं मित्रं वरुणमग्निमाहुः" इत्यादिश्रुतिविरोध इत्यत आह- प्राणस्येति ॥ नामशब्दाः अभिधायिशब्दाः । प्राणस्य शब्दा अपि मुख्यतो विष्णुसंस्थिताः । नाम प्रसिद्धमिति वार्थः । " तद्ध देवा उद्गीथमाजहुः'' इत्यत्रोद्गीथनामानं विष्णुं बलादाहृतवन्तो देवा इति प्रतीयते । तदयुक्तम् । तथा सति विष्णोरशक्तत्वापत्तेरित्यतस्तद्व्याचष्टे- उद्गीथाख्यमिति ।। आजहुरभीष्टदं चक्रुः । ननु बलादाहरणे प्राण एवोपासनं कार्यमिति निर्बन्धोऽयुक्तः । बलादाहृतस्यान्यत्र मनः प्रसादाभावेन यत्र मनःप्रसादस्तत्रैव फलप्रदत्वोपपत्तेः । उपास्त्याहरणे तु स निर्बन्धो व्यर्थः । अन्यत्राप्युपासितस्य फलप्रदत्व सम्भवादित्यत आह- तथाऽपीति । यदप्युपास्त्याऽऽजहुर्नतु बलात् तथाऽपीत्यर्थः । ‘“यथाऽश्मानमाखणमृत्वा विध्वंसत एवं हैव स विध्वंसतेइत्यत्र पूर्ववाक्यवदेव यथाऽश्मानमाखणमृत्वा विध्वंसते लोष्ट इति व्याख्यानमसत् । उपासके उपास्यसाम्यस्यैव वक्तव्यत्वादिति भावेन ‘“यथाऽश्मानम्’” इत्यारभ्य " अभिदासति'" इत्यन्तं वाक्यं व्याचष्टे प्राणमिति । अनेनाश्मानमाखणमित्ययंशब्दः प्राणपरः । विध्वंसत इत्यनन्तरमसुरवर्ग इति शेष इत्युक्तं भवति । अत एव वाक्यशेषे "स एषोऽश्माखण:'' इत्युक्तम् । उक्तं चान्यत्र ‘“आखणाश्मसमो हि स:’” इति । अभिदासतीत्यस्यार्थः - दातुमिच्छतीति । शेषोक्तिः । तदुपासकस्यापीत्यपिशब्दसम्बन्धः । चशब्दात् पापं कामयत इति ग्राह्यम् । सोऽपि विध्वंसत इति शेषः । " एतमु एवान्ततो वित्त्वोत्क्रामति'' इत्यत्रान्तत इत्येतत्परित्यज्यान्यांशं व्याचष्टेएत- मिति ।। मुख्यप्राणमित्यर्थः । अवधारणार्थःअसंशयमिति ॥ नन्वेवं ‘“तमेवं विद्वान्’” इत्यादिश्रुतिविरोध इत्यत आह - विष्णुमपीति ।। अनेन श्रौत उशब्दोऽपिशब्दार्थः । तेन विष्णुसमुच्चयः । ततश्चैतं मुख्यप्राणं विदित्वाऽन्ततो विष्णुमपि विदित्वोत्क्रामत्येवेति वाक्यं योजनीयमिति सूचितं भवति । तद्विवरणरूपं "व्याददात्येवान्ततः " इति वाक्यं व्याचष्टे - वीतीति । तत्र निमित्तमाहविशिष्टत्वादिति । न रमादीनां ब्रह्मादिभ्यो विशिष्टत्ववदस्य विशिष्टत्वमपितु महान् विशेष इति ज्ञापनाय तुशब्दः। आददात्येवावगच्छत्येव । अन्ते प्राणस्य ।

ननु प्राणवेत्तान्ते विष्णुमवगच्छतीत्यनुपपन्नम् । विष्णुज्ञानाभावेऽपि प्राणपरिज्ञानसम्भवादित्यतोऽत्र विवक्षितं प्राणज्ञानमाह - प्राणादिति ॥ तुशब्दोऽवधारणार्थः । अवरानेवेत्येवशब्दसम्बन्धः । विष्णोरवरत्वेन जीवेभ्य उत्तमत्वेन ये प्राणं विदुरिति यावत् । एतादृशं च प्राणज्ञानमन्ततो विष्णुज्ञानं विना न सम्भवतीति भावः ।य एवायं मुख्यप्राणस्तमुद्गीथ- मुपासाञ्चक्रिरे" इत्यत्र तमिति द्वितीया " मुख्यवायौ यदा देवाः " इत्यनेन सप्तम्यर्था व्याख्याता । तत्र नियामकं प्रमाणं पठति इति ॥ " प्राण उद्गीथः" इत्यादिवाक्यगताः प्राणइत्यादिप्रथमा: " नाम ब्रह्म" इत्यादिवाक्यगता नामेत्यादिप्रथमाश्च सप्तम्यर्थाः समुद्दिष्टा इति प्रसङ्गादुत्तरश्रुतिव्याख्यानायोक्तम् । तत्र नियामकं सूत्रं पठति- सप्तस्विति ।। प्रकृतमाहप्राणमिति । प्राणमुद्गीथमित्यादिवाक्यगता प्राणमित्यादिद्वितीयेत्यर्थः || || इति द्वितीयः खण्डः ।।

खण्डार्थः

देवाश्चासुराश्च देवासुराः ह वा इति वृत्तार्थस्मरणार्थौ निपाती । यत्र यदा संयेतिरे योद्धुं सन्नद्धा अभवन् । योद्धुं सन्नद्धत्वे दायादत्वं कारण-- माह - उभय इति ।। उभयेऽपि ते देवासुराः प्राजापत्याः प्रजापतेर्ब्रह्मणः कश्यपस्य वा पुत्राः । यदा संयेतिरे । किं तदेतत्यत आह - तद्धेति ॥ तत्तदाऽसुराणां बहुत्वाच्छङ्खरवरसद्भावाच्च तैर्जिता देवा उद्गीथं उद्गीथनामकं विष्णुमुपास्त्याऽऽजह्रुराहृतवन्तः अभीष्टदं कृतवन्त इति यावत् । ति प्रसिद्धिमाह । उद्गीथाहरणे तेषामभिप्रायमाहअनेनेति ॥ अनेनोद्गीथनापासितेन तत्प्रसादाप्तबलेन एतानसुरानभिभविष्यामो जयाम इति भावेनाऽजह्नुरिति सम्बन्धः ।। १ ।।

उद्गीथाख्यस्य विष्णोर्विशिष्टप्रतिमा मुख्यप्राण एव । अतस्तस्य सर्वोत्तमत्वज्ञानपूर्वं तस्मिंस्ततोऽप्युत्तमत्वेनोपासित एव भगवान् सम्यक् फलं ददातीति जानन्तोऽपि मुख्यप्राणस्य सर्वोत्तमत्वप्रकटनायाऽदौ तावत् ते देवाः नासिक्यं नासिकायां भवम् । प्राणम् । द्वितीया सप्तम्यर्थे । नासिकाभिमानिनि प्राणे मुख्यवायुपुत्रे उद्गीथं विष्णुम् उपासाञ्चक्रिरे । ह प्रसिद्धम् । तेऽसुरा अनेनोद्गीथेन नो जेष्यन्तीति विदुरिति वक्तव्यम् । एवं ज्ञातदेवाभिप्राया असुराः तम् उद्गीथोपास्तिप्रतिमाभूतं नासिक्यप्राणं पाप्मना पापेन विविधु: वेधितवन्तः । नासिक्यप्राणस्य पापविद्धत्वे कार्यं प्रमाणयति तस्मादिति ।। हि यस्माद् एष नासिक्यप्राणः पाप्मना विद्धस्तस्मादेव तेन तदभिमतेन नासिकारूपकरणेन । सुरभि च दुर्गन्धि चेत्युभयं जिघ्रति जीवः । अन्यथा तन्न स्यादिति भावः || २ ॥ एवमुत्तरत्रापि योजना द्रष्टव्या । अथ नासिक्यप्राणस्य पापवेधानन्तरं वाचं वागभिमानिन्यग्नौ || ||

चक्षुस्तदभिमानिसूर्ये ॥ ४ ॥

श्रोत्रं तदभिमानिसोमे ।। ५ ॥

मनस्तदभिमानिरुद्रशेषगरुडेषु ।। ६ ।।

उपलक्षणमेतत् । अथ सर्वेषामिन्द्रियदेवतानामसुरकृतपापवेधानन्तरं तेषां विशिष्टप्रतिमात्वाभावं प्रकटीकृत्य । य एवायं पूर्वं सामनामकत्वे- नोक्तो मुख्यप्राणः तं तत्रोद्गीथं भगवन्तमुपासाञ्चक्रिरे । तं मुख्यप्राणमसुराः पूर्ववदेव ऋत्वा प्राप्य विदध्वसुर्विविधुः । यदा तं विदध्वसुस्तदा विध्वस्ता अभवन्निति योज्यम् । तत्र दृष्टान्तमाहयथेति ।। यथा आखणं सर्वथा अखन्यमश्मानं पाषाणम् ऋत्वा प्राप्य विध्वंसेत लोष्ट एवं तं हासुरा ऋत्वा विदध्वसुरिति सम्बन्धः | ७ ॥

एवं मुख्यप्राणोपासकस्य फलमाह - यथेति । यथाऽखन्यमश्मानम् ऋत्वा विध्वंसतेऽसुरवर्ग इति शेषः । एवमेव स विध्वंसते ह निश्चितम् । कोऽसौ ? यः पुरुष एवंविदि असुरकृतपापाविद्धतया भगवन्मुख्य- प्रतिमात्वेन मुख्यप्राणोपासके पापं पापफलं दुःखं कामयते । यश्चैनं मुख्यप्राणोपासकं प्रति अभिदासति प्रतीपं दातुमिच्छति स विध्वंसत इति पूर्वेणान्वयः । नन्वसुरवर्गो मुख्यप्राणं प्राप्यैव विध्वंसत इत्युक्तम् । नत्वाखणमश्मानं प्राप्य । नच पूर्ववाक्यवदत्रापि लोष्ट एव ग्राह्यः । उपासके उपास्यसाम्यस्य वक्तव्यत्वादित्यत आखणमश्मानमित्यस्यार्थमाह एष इति । स एष मुख्यप्राणोऽश्माखणः आखणाश्मेत्युच्यते । आखणाश्मसदृशत्वात् । ‘" आखणाश्मसमो हि सः" इत्युक्तेः । एवं चाश्मानमाखणमित्यस्याऽखणाश्मसदृशं मुख्यप्राणमित्यर्थ इति नानुपपत्तिरिति भावः ॥ ८ ॥

मुख्यप्राणे नासिक्यप्राणादिवैलक्षण्यमाह - नैवेति ॥ यद्वा, मुख्य- प्राणस्य पापाविद्धत्वे कार्यं प्रमाणयति नैवेति ॥ हि यस्मादेषोऽपहतपाप्मा तस्मादेवैतेन मुख्यप्राणेन ( तदभिमानेन मौक्तेन स्वरूपदेहेन ) सुरभि न विजानाति दुर्गन्धि च न विजानाति । केवलं सुरभ्येव जानाति । नतूभयविधमिति भावः । उपलक्षणमेतत् । सत्यं चानृतं वन वदतीत्याद्यपि ग्राह्यम् । एवं मुख्यप्राणस्यैव सर्वदेवोत्तमत्वे पापाविद्धत्वं हेतुरित्युक्तम् । इदानीं हेत्वन्तरमाह - तेति ॥ तेन मुख्यप्राणेन प्रेरितो जीवो यदश्नाति यत् पिबति तेनेतरान् प्राणानिन्द्रियदेवानवति रक्षति । मुख्यप्राणस्यैव सर्वोत्तमत्वे हेत्वन्तर- माह एतमिति ॥ उशब्दोऽपिशब्दार्थः । एतं मुख्यप्राणं (१) विदित्वोत्क्रामत्येव ॥ संसारान्मुक्तिमेष्यत्यसंशयम् । नच श्रुत्यन्तरविरोधः । अन्ततः सर्वोत्तमत्वेन विष्णुमपि विदित्वोत्क्रामति । प्राणज्ञानी विष्णुं कथं सर्वोत्तमत्वेन जानीयादित्यत उक्तं विवृणोति व्याददातीति ।। यतः प्राणवेत्तांऽततस्तस्याप्युत्तमत्वेन विशिष्टत्वाद् विष्णुमाददात्येव सम्यगवच्छत्येव । प्राणप्रसादाद् विष्ण्ववरत्वेन सर्वजीवोत्तमत्वेन । प्राणज्ञानिन एव प्राणवेत्तृत्वादिति भावः ॥ ९ ॥

एवं देवा मुख्यप्राणे भगवन्तमुपास्य स्वकार्यसिद्धिं प्राप्ता इत्युक्तम् । इदानीमृषयस्तमुपास्य स्वस्वनामानि भेजिर इत्युपलक्षणमाह - तं हेत्यादिना ॥ अङ्गिरा नामर्षिस्तं तत्र मुख्यप्राणे उद्गीथं भगवन्तमुपासा- क्रे । तेन सोऽङ्गिरा इति नामधेयं लेभ इति वक्तव्यम् । नन्वंङ्गिरा इति नाम तस्यर्षेरेव प्रसिद्धम् । अतः कथं मुख्यप्राणे उद्गीथोपासनेन तस्यैतन्नामधेयलाभ इत्यतो नेदमषिनाम । किन्तु मुख्यप्राणस्यैव । इतरत्र प्रसिद्धेस्तद्दत्तत्वेनोपपत्तेरिति भावेनाऽह एतमिति ॥ एतमेव मुख्यप्राणमेवाङ्गिरसं मुख्यतोऽङ्गिरसनामकं मन्यन्ते वै ज्ञानिनः । तत्राङ्गिरसशब्दं निर्वक्ति - अङ्गानामिति । यद् यस्मादङ्गानां ।। शरीरावयवानां रसो नियामकोऽङ्गानामप्रधानानां पृथिव्यादिसर- स्वत्यन्तानां रसः श्रेष्ठो वा तेन कारणेनाङ्गिरसं मन्यन्त इत्यन्वयः॥१०॥

न केवलमृषय एव तमुपास्य स्वस्वनामानि भेजिरे किन्तु देवा अपीत्युपलक्षणयाऽऽहतं ह बृहस्पतिरिति । व्याख्यातप्रायम् । वाग् वागभिमानिनी सरस्वती । बृहती स्त्रीगुणैः सर्वपूर्णत्वात् । यथोक्तम् - "स्त्रीगुणैः सर्वपूर्णत्वाद् वृहती तु सरस्वती" इति । तस्या बृहत्या एष मुख्यप्राणः पतिर्हि यस्मात् तेन बृहस्पतिं मन्यत इत्यर्थः ।। ११ ॥

उपलक्षणमेतत् । ‘“तमिन्द्र उद्गीथमुपासाञ्चक्रे एतमु एवेन्द्रं मन्यते " इत्याद्यपि ग्राह्यम् । उपलक्षणतया ज्ञापनायैवाऽह - तं हाsयास्य इति || अयास्यः कश्चिद् ऋषिः । यद् यस्मादास्यादयते मुखाद् गच्छति प्रविश्य तं नियमयतीति यावत् । तथाहि श्रुतिः

चक्षुः श्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं प्रतिष्ठते" इति । मुखान्निर्गच्छति श्वासोच्छ्रासरूपेणेति वाऽर्थः ।। १२ ।।

यज्ञे वायुरेवोद्गाता कर्तव्यः । तदभावे तज्ज्ञानी वा । तस्यैव तत्र प्राप्त- विघ्नपरिहारक्षमत्वात् । यजमानाभीष्टप्रदानसमर्थत्वाच्चेति भावेनाऽह - तं हेति । तं मुख्यप्राणं दाल्भ्यो दलभपुत्रो बको नामतो विदाञ्चकार ज्ञातवान् । अतः सबको नैमिषीयानां नैमिषदेशीयानामृषीणां सत्रिणा- मुद्गाता बभूव । सबको मुख्य प्राणज्ञानसामर्थ्यादेवैभ्यः ऋषिभ्यः कामान् काम्यानुद्धिश्या गायति । ह स्मेत्याश्वर्यद्योतकम् । ते कामास्तैः प्राप्ताश्च ॥ १३ ॥

यजमानाभीष्टप्रदानसमर्थोद्गातृज्ञेयमुख्यप्राणाख्यविशिष्टप्रतिमात्वेन भगवदुपासकस्य फलमाह आगातेति । आगन्ता । यद्वा अन्योऽप्युद्गाता यदि मुख्यप्राणज्ञानी तत्र भगवन्तमुपास्ते तर्हि सोऽपि यजमानाभीष्टप्रदानसमर्थ इत्याह आगातेति ॥ इत्यध्यात्मं मुख्यप्राणोद्गीथोपास्तिरुक्तेति शेषः ।। १४ ।।

|| इति द्वितीयखण्डः ||