अथ यां तृतीयां जुहुयात् तां जुहुयादपानाय स्वाहेति अपानस्तृप्यति

उपनिषत् (खण्डः -२१)

'अपानाय स्वाहा' इत्याहुतेः फलवर्णनम्

अथ यां तृतीयां जुहुयात् तां जुहुयादपानाय स्वाहेति अपानस्तृप्यति ॥ १ ॥

अपाने तृप्यति वाक् तृप्यति वाचि तृप्यन्त्यां अग्निस्तृप्यति अग्नौ तृप्यति पृथिवी तृप्यति पृथिव्यां तृप्यन्त्यां यत्किञ्च पृथिवी चाग्निश्चाधितिष्ठतस्तत्तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ २ ॥ २१ ॥

भाष्यम्

. .......................वागपानोऽग्निरेव च । पश्चिमद्वारपोऽप्येकः ………….. ।।

पदार्थकौमुदी

अपानाहुतितृप्यतयोक्तानामपानवागग्नीनां भेदेअथ योऽस्य प्रत्यङ्सुषिः सोऽपानः सा वाक् सोऽग्निः" इत्युक्तविरोधोऽग्नेरेवानु- वादायोगश्चेत्यत आह- वागिति ।।

खण्डार्थः

पृथिवी श्रीः । अधितिष्ठतः पश्चिमद्वारपत्वेन ।।

॥ इति एकविंशः खण्डः ।।