तदु ह जानश्रुतिः पौत्रायणः षट् शतानि ..

उपनिषत् (खण्डः २)

रैक्वस्य वैराग्यम्

तदु ह जानश्रुतिः पौत्रायणः षट् शतानि गवां निष्कमश्वतरीरथं तदादाय प्रतिचक्रमे तं हाभ्युवाद ॥ १ ॥

रैक्वेमानि षट् शतानि गवामयं निष्कोऽयमश्वतरीरथो नु म एतां भगवो देवतां शाधि यां देवतामुपास्स इति ॥ २ ॥

तमु ह परः प्रत्युवाचाह हारेत्वा शूद्र तवैव सह गोभिरस्त्विति तदुह पुनरेव जानश्रुतिः पौत्रायणः सहस्रं गवां निष्कमश्वतरीरथं दुहितरं तदादाय प्रतिचक्रमे ॥ ३ ॥

तं हाभ्युवाद रैक्वेदं सहस्रं गवामयं निष्कोऽयमश्वतरीरथ इयं जायाऽयं ग्रामो यस्मिन्नास्सेऽन्वेव मा भगवः शाधीति

॥ ४ ॥

तस्या ह मुखमुपोद्गृह्णन्नुवाचाजहारेमाः शूद्रानेनैव मुखेनालापयिष्यथा इति ते हैते रैक्वपर्णा नाम महावृषेषु यत्रास्मा उवास तस्मै होवाच ॥ ५ ॥ २ ॥

भाष्यम्

शूद्रशब्दव्याख्यानम्

शुचाऽऽद्रवणाच्छूद्रो राजा पौत्रायणः । 'राजा पौत्रायणः शोकाच्छूद्रेति मुनिनोदितः । प्राणविद्यामवाप्यास्मात् परं धर्ममवाप्तवान् ।। ' इति पाद्मे ॥ २ ॥

पदार्थकौमुदी

" अहहारे त्वा शूद्र" इति रैक्वोक्तेः पौत्रायणः शूद्र इत्यसत् । तथा सति वैदिकसंवर्गविद्याध्ययनायोगात् । नचाधिकाराभावेऽपि पौत्रायणो वेदविद्यां विचारयामासेति किं न स्यादिति वाच्यम् | अनधिकारिणं प्रति मुनेरुपदेशासम्भवात् । नहि गवाद्याशया तस्यापरोक्षज्ञानिनः अन्याय्या प्रवृत्तिः सम्भवति । कथं तर्हि शूद्रेति सम्बोधनमित्यत आह- शुचेति ॥ दीर्घस्वरार्थत्वेनाऽद्रवणादित्युक्तम् । शुद्र एव शूद्रो रुद्र इतिवत् । शुचाऽऽद्रवणादेव शूद्रेति सम्बोधितो नतु वर्णावरत्वाभिप्रायेणेत्यर्थः । शुगस्य हंसकृतानादरश्रवणादुत्पन्नेति भावः । तथाच सूत्रम् – “शुगस्य तदनादरश्रवणात् तदाद्रवणात्' इति ।

ननु शूद्रः कुतो यौगिकोऽङ्गीक्रियते ? रूढार्थः किं न स्यात् । योगरूढ्यो रूढेरेव प्राबल्यात् । शूद्रस्यापि वेदविद्याधिकारस्येष्टत्वा- दित्यत आहराजेति ।। " अयमश्वतरीरथः" इति रथित्वलिङ्गात् । क्षत्तृसम्बन्धाच्च । बाधकवशाद् रूढित्याग इति भावः । राजैव पौत्रायणो न शूद्रः किन्तु शोकेनाऽद्रवणादेव शूद्र इत्युक्त इत्यत्र श्रुतिमाह - राजेति ॥ शोकेनाऽद्रवणपरिज्ञानं च मुनेः सर्वज्ञत्वादुपपद्यते । विपक्षे बाधकं सूचयतिप्राणेति ।।परं धर्मम्" इत्यनेन संवर्गविद्यावेत्तुः श्रुत्युक्तं सार्वज्ञरूपं फलमुपलक्षणमित्युक्तं भवति । श्रद्धादेयत्वादिना (१) धर्मित्व- सिद्धेः ‘“परम्’” इत्युक्तम् । शूद्रशब्दस्य स्वार्थे तात्पर्यमभ्युपेत्यायं यौगिको व्याख्यात इति ध्येयम् । क्रुद्धोक्तित्वेन स्वार्थे तात्पर्याभावे तु (१) रूढत्वेऽपि न दोषः । यथोक्तम्-‘‘ततो विलोक्य तत्सर्वं रैक्वो राज्ञे चुकोप ह ।

रे शूद्र मामकं वृत्तं न जानासि दुरीश्वर " इति ।। द्वितीयः खण्डः ।।

खण्डार्थः

तत् तस्मात् क्षत्रा रैक्ववार्ताया एवमुक्तत्वादेव ह । जानश्रुतिः पौत्रायणो गवां षट्शतानि निष्कं मुक्ताहारम् अश्वतरीभ्यां युक्तं रथं तदा गुरुदक्षिणार्थत्वेनाsदाय प्रतिचक्रमे, रैक्वं प्रति गतवान् । गतः स पौत्रायणः तं रैक्वं प्रत्यभ्युवाद ।। १ ।।

हे केमानि गवां षट्शतानि अयं निष्कोऽयमश्वतरीरथः तव दक्षिणात्वेन वर्तते । हे भगवो भगवंस्त्वं मे ममैतां देवतामनुशाधि त्वं यां देवतां उपास्स इति ॥ २॥

तं राजानं प्रति परो लोकविलक्षणो मुनिः प्रत्युवाच । अहेति सम्बोधनम् । हे शूद्र हारः इत्वा रथश्च गोभिः सह तवैवास्त्विति । "हारेत्वा" इति सेदुराजेत्यादिवद् विसर्गलोपेन भवति । हारेत्वानाविति वा । तथात्वे पृथगन्वयः । हारेण युक्त इत्वा हारेत्वेति वा । तत्तस्माद् रैक्वेणैवमुक्तत्वादेव ह जानश्रुतिः पौत्रायणोऽल्पं धनमाहृतमिति मुनेः कोप इत्यभिप्रेत्य तदा ( २ ) पुनरेव गवां सहस्त्रं निष्कमश्वतरीरथ- मृषेर्भार्यार्थमात्मनो दुहितरं चाऽदाय तत् (२) तत्र प्रतिचक्रमे ॥ ३ ॥

स गत्वा रैक्वं प्रत्यभ्युवाद । रैक्वेदं गवां सहस्रम् अयं निष्कोऽयमश्वतरीरथः इयं तव जाया यस्मिंस्त्वमास्से अयं ग्रामश्च तव दक्षिणत्वेन वर्तते । हे भगवो मा मां तां देवतामन्वेव शाधि सम्यगेव शिक्षय ॥। ४ ॥

एवमुक्तो रैक्वस्तस्याः जायार्थमानीताया राज्ञो दुहितुर्मुखमुपोद्गृह्णन् शनैः पश्यन्नतिक्रुद्धः सनुवाच । हे शूद्र त्वमिमा गुरुदक्षिणाः अजहार अपहर । विरक्तस्य मम तेन प्रयोजनाभावात् । मदभिप्रेतश्च परि- चर्याविधायी वटुरेव । स च नाऽनीतः । त्वं तु शुश्रूषया विनाऽनेन गवादिनैव मुखेन माम् आलापयिष्यथा आलापयिष्यसीति । इत्युक्ते शापभीतेन राज्ञा प्रसादितो रैक्वस्तस्मै होवाच । श्रुती ( १ ) राज्ञादत्त - रैक्वावासग्रामसञ्ज्ञामाहत इति । ते ते प्रसिद्धाः ग्रामाः । महावृषेषु देशेषु काश्मीरापरपर्यायेषु रैक्वपर्णा नाम । यत्र येषु ग्रामेषु रैक्व अस्मै राजार्थं तदुपदेशार्थमेवोवास ।। ५ ।।

॥ इति द्वितीयखण्डः ।।