अथ सप्तविधस्य वाचि सप्तविधं सामोपासीत ..

उपनिषत् (खण्डः ८ )

वाक्येषु सप्तविधसामप्रतिपाद्यभगवदुपासना

अथ सप्तविधस्य वाचि सप्तविधं सामोपासीत यत्किञ्च वाचो हुमिति स हिङ्कारो यत्प्रेति स प्रस्तावो यदेति स आदिर्यदुदिति स उद्गीथो यत्प्रतीति स प्रतिहारो यदुपेति स उपद्रवो यन्नीति तन्निधनं दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति य एतदेवं विद्वान् वाचि सप्तविधं सामोपास्ते || || ख० ८ ॥

भाष्यम्

'आदिः कल्पादिहेतुत्वात् क्रोडात्मा केशवः स्वयम् । दुष्टोपद्रवकर्तृत्वान्नरसिंह उपद्रवः ॥ ' इति च ।

'हुङ्कारसहिते वाक्ये प्रद्युम्नस्तु सदा स्थितः । आकारयुक्ते बाराहो वासुदेवः प्रसंयुते || नारायणस्तथोद्युक्ते प्रतियुक्तेऽनिरुद्धकः । उपयुक्ते नृसिंहश्च (१) नीतिसङ्कर्षणस्तथा ॥ अभावे यावदेते स्युस्तावत् तद्दैवतं स्मृतम् ।

एवं सप्तविधं विष्णुं य उपास्ते परं विभुम् (२) । वाङ्नामा भगवांस्तस्य भवेत् सर्वार्थदोहकृत् ॥' इति च ॥ ८ ॥

पदार्थकौमुदी

एवं पञ्चविधभगवदुपास्तिमुक्त्वा सप्तविधभगवदुपास्तिमाह - अथे- त्यादिखण्डत्रयेण ॥ हिङ्कार प्रस्तावोद्गीथप्रतिहारनिधननामकभगव- न्मूर्तिविशेषस्य निरूपितत्वाद् अत्राधिक्येनोक्ते आद्युपद्रवनामके मूर्ती प्रमाणेनाऽहआदिरिति ॥ हिङ्कारादिनामकप्रद्युम्नादीनां हुङ्काराद्यभेद उच्यत इति प्रतीतिनिरासाययत्किञ्च वाचो हुमिति स हिङ्कारः " इत्यादिवाक्यं व्याचष्टेहुङ्कारेति । एतेन हुंप्रेत्यादिशब्दा हुङ्कारादि- मात्रपरा इत्यपि परास्तम् । तथा सति "वाचि सप्तविधं सामोपासीत " इति प्रतिज्ञार्थासिद्धेः । " यदेति स आदिः" इति वाक्यं व्याचष्टे आकारेति ।। वाक्ये स्थित इत्यनुवर्तते ।यत् प्रेति स प्रस्ताव:" इत्येतद् व्याचष्टेवासुदेव इति ।। " यदुदिति स उद्गीथः" इत्येतद् व्याचष्टे- नारायण इति ।। उदित्यनेन युक्ते वाक्ये | “यत्प्रतीति स प्रतिहारः" इति वाक्यं व्याचष्टेप्रतियुक्त इति ॥यदुपेति स उपद्रवःइत्येतद् व्याचष्टे - उपयुक्त इति ॥ "यनीति तन्निधनम्" इत्यस्यार्थमाह्नीतीति । नीतियुक्ते । ननु यस्मिन् वाक्ये हुङ्कारादयो न सन्ति तद्वाक्यं किंदैवतमित्यत आहअभाव इति ।। हुङ्कारादिष्वेकमुपक्रम्य मध्ये हुङ्कारादिष्वेकोक्त्यभावे यावदेते हुङ्कारादयः स्युस्तावद्वाक्यं तद्दैवतमुपक्रान्तदैवतं स्मृतमित्यर्थः । " दुग्धेऽस्मै वाग्दोहम्' इति फलवाक्यं केवला वागेव कामदोग्ध्रीति प्रतीतिनिरासाय व्याचष्टे एवमिति ॥ इति अष्टमः खण्डः ।।

खण्डार्थः

अथ पञ्चविधभगवदुपास्तिकथनानन्तरं सप्तविधस्य भगवत उपास्ति: कथ्यत इति शेषः । तत्रादौ शब्दसमूहे सप्तविधभगवदुपास्तिमाहवाचीति ।। वाचि शब्दसमूहे सप्तविधं साम सामनामकं ब्रह्मोपासीत । कथम् ? हिङ्कारः प्रद्युम्नः । स क: ? यत्किञ्च वाचो हुम् इति । हुङ्कारसहितं यद्वाक्यं तत्र स्थित इत्यर्थः । प्रस्तावो वासुदेवः । स कः ? – यत्प्रेति ॥ प्रशब्दोपेतं यद्वाक्यं तत्र स्थित इत्यर्थः । आदिः कल्पादिहेतुत्वादादि- नामाऽऽदीति सामभक्तिप्रतिपाद्यो वराहः । स कः ? यदेति ॥ आकार-युक्तं यद्वाक्यं तत्र स्थित इत्यर्थः ।  

उद्गीथो नारायणः । स कः ? यदुदिति । उच्छब्दयुक्तं यद्वाक्यं तत्र स्थित इत्यर्थः । प्रतिहारोऽनिरुद्धः । स कः ? यत्प्रतीति । प्रतिशब्दयुक्तं यद्वाक्यं तत्र स्थित इत्यर्थः । उपद्रवो दुष्टोपद्रवकर्तृत्वाद् उपद्रवनामो- पद्रवाख्यसामभक्तिप्रतिपाद्यो नृसिंहः । स कः ? यदुपेति ॥ उपशब्द - युक्तं यद्वाक्यं तत्र स्थित इत्यर्थः । निधनं सङ्कर्षणाख्यं रूपम् । तत् किं ? यन्नीति | निशब्दयुक्तं यद्वाक्यं तत्र स्थित इत्यर्थः ।

एवमुपासकस्य फलमाहदुग्ध इति ॥ योऽधिकारी एतद् सप्तविधं ब्रह्मैवं वाचि स्थितत्वेन विद्वान् वाचि सप्तविधं सामोपास्तेऽस्मै अस्योपासकस्य वाक् वाङ्नामा भगवान् । यो वाचो दोहः फलरूपो मोक्षादिस्तं दोहं दुग्धे स उपासको अन्नवान् भवति । न केवलमन्नवानेव । किन्त्वन्नादश्च भवति ।। १॥

|| इति अष्टम: खण्ड: ।।