स यदशिशिषति यत्पिपासति यन्न रमते ता अस्य दीक्षाः

उपनिषत् (खण्डः - १७)

पुरुषयज्ञस्य दीक्षोपसदादीनां विचारः

स यदशिशिषति यत्पिपासति यन्न रमते ता अस्य दीक्षाः ॥ १ ॥

अथ यदश्नाति यत्पिबति यद्रमते तदुपसदैरेति ॥ २ ॥

अथ यद्धसति यज्जक्षति यन्मैथुनं चरति स्तुतशस्त्रैरेव तदेति ॥३॥

अथ यत्तपो दानमार्जवमहिंसा सत्यवचनमिति ता अस्य दक्षिणाः ॥ ४ ॥

तस्मादाहुः सोष्यत्यसोष्टेति पुनरुत्पादनमेवास्य तन्मरणमेवास्यावभृथः ॥ ५ ॥

तद्धैतद्घोर आङ्गिरसः कृष्णाय देवकीपुत्रायोक्त्वोवाचापिपास एव स बभूव सोऽन्तवेलायामेतत्त्रयं प्रतिपद्येताक्षितमस्यच्युतमसि प्राणशंसितमसीति 

भाष्यम्

'स्वरूपभूतयज्ञस्य क्षुत्पिपासाऽरतिस्तथा । दीक्षा भोजनपाने च रतिश्चोपसदः स्मृताः ॥व्यवायहासभक्षास्तु स्तुतशस्त्रात्मकाः स्मृताः । तपोदानार्जवाहिंसाः सत्यमप्यस्य दक्षिणा: (२) सोष्यत्यसोष्टेति ततो यज्ञवत् पुत्रजन्मनि । आहुर्हि पुनरुत्पत्तिः प्रसवः प्रथमा पितुः ॥ यज्ञस्नानं तु मरणं तदा ध्यायेत् त्रयं पुमान् । भगवन्नक्षयोऽसि त्वमच्युतोऽसि गुणैः सदा ।प्राणाच सुखितो नित्यमाधिक्येनेति (३) चिन्तयेत् ॥' इति सत्तत्त्वे ।

पदार्थकौमुदी

ननु प्रसिद्धयज्ञे दीक्षोपसदस्तुतशस्त्राणि दक्षिणा सोष्यत्यसोष्टेति-शब्दोऽवभृथश्चेत्येतानि सन्ति । तत्स्थानीयानि कानि सन्ति पुरुषयज्ञ इति जिज्ञासायामाहस यदशिशिषतीत्यादिना || अप्रतिपत्तिविप्रतिपत्ति- निरासाय खण्डं प्रमाणेनेव व्याचक्षाणस्तावदादिवाक्यं व्याचष्टे- स्वरूपभूतेत्यादिना ।। अस्येत्यस्यार्थः पुरुषस्वरूपभूतयज्ञस्येति ॥ दीक्षापूर्व भावित्वसाम्यात्) । " अथ यदश्नाति" इत्यादि व्याचष्टे - भोजनेत्यादिना ।। उपसदो यज्ञाङ्गयजमानव्यापारविशेषाः । दीक्षा- नन्तर्यसाम्यात् । ‘“अथ यद्धसति" इत्यादि व्याचष्टे - व्यवायेत्या- दिना ॥ तुशब्दस्तेषां विहितत्वरूपविशेषवाची । स्तुतशस्त्रात्मकाः सामगानमन्त्रात्मकाः । शब्दवत्त्वसाम्यात् ।अथ यत्तपः’” इत्यादि व्याचष्टेतप इत्यादिना || अस्य पुरुषयज्ञस्य | दक्षिणाधर्मपोषकत्व - साम्यात् । ‘“तस्मादाहुः " इति वाक्यं व्याचष्टे -- सोष्यतीत्यादिना ॥ तस्मादित्यस्यार्थः तत इति ॥ पुरुषस्य यज्ञरूपत्वादित्यर्थः । पुनरुत्पादनमित्यस्यार्थःपुत्रजन्मनीति । तथाच यथा यज्ञे देवदत्तः पूर्वं सोमं सोष्यति । अनन्तरं सोममसोष्टेति शब्दः प्रयुज्यते तथाऽत्रापि यजमानस्य पुत्रजन्मनि पुनरुत्पादनरूपे आसने यजमानभार्या पुत्रं सोष्यति । सति च तस्मिन्नसोष्टेत्याहुरिति सोष्यत्यसोष्टेति शब्दवत्त्व- मुभयत्र सममित्यर्थः ।

ननु पुत्रजन्म पुरुषस्य कथं ( २ ) पुनरुत्पादनरूपमित्याशङ्कायां तदुपपादयतिहीत्यादिना ॥ पुनरुत्पत्तिनिरूपणस्य प्रथमोत्पत्तिज्ञाना- धीनत्वात् तमाहप्रथमेति । पितुर्यजमानस्योत्पत्तिः प्रथमा प्रसवः पुत्रस्य पुत्रजन्मेति यावत् । सा तस्य पुनरुत्पत्तिः । पुत्रदेहस्य तद्देहांश-त्वात् । ‘“आत्मा वै पुत्रनामाऽसि '' इति श्रुतेरिति हिशब्दार्थः । अन्ये तु प्रसवो मातुरिति शेषः । तर्हि प्रथमोत्पत्तिः केति जिज्ञासायामाह - प्रथमेति ।। उत्पत्तिरित्यनुवर्तत इत्याहुः । " तन्मरणमेवाभृथःइत्येतद् व्याचष्टे - यज्ञस्नानमिति ॥ समाप्तिसाम्यात् । " सोऽन्तवेलायाम्" इत्येतदप्रतीतेरेकार्थत्वप्रतीतेश्च व्याचष्टे - तदेति ॥ अन्तवेलायामित्य- स्यार्थःतदा मरणकाल इति । " प्रतिपद्येत" इत्यस्यार्थः - ध्याये- दिति ॥ स इत्यस्यार्थःपुमानिति । यज्ञरूप इत्यर्थः । एतदनन्तरं श्रुतावेवमुपासनयाऽपरोक्षज्ञानं तेन च भगवत्प्राप्तिर्भवतीति वक्तव्यम् ।

Load More