अथ यत्तृतीयममृतं तदादित्या उपजीवन्ति वरुणेन ..

उपनिषत् (खण्डः -८)

मधुर्नामिकप्रद्युम्नोपासनाफलवर्णनम्

अथ यत्तृतीयममृतं तदादित्या उपजीवन्ति वरुणेन मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥

त एतदेव रूपमभिसंविशत्येतस्माद्रूपादुद्यन्ति ॥ २ ॥

स य एतदेवममृतं वेदादित्यानामेवैको भूत्वा वरुणेनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स य एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३ ॥

स यावदादित्यो दक्षिणतः उदेतात्तरतोऽस्तमेता द्विस्तावत् पश्चादुदेता पुरस्तादस्तमेताऽऽदित्यानामेव तावदाधिपत्यं स्वाराज्यं पर्येता ॥ ४ ॥ ८ ॥

भाष्यम्

द्रष्टारोऽथ तृतीयस्य शक्रमुख्यादितेः सुताः ॥

पदार्थकौमुदी

‘“अथ यत् तृतीयम्’”इत्यादेः " उद्यन्ति ' ' इत्यन्तस्य तात्पर्यमाह - द्रष्टार इति । एतदेव विशन्ति । ततो बहिः समुद्यन्ति चेति शेषः ।शक्रमुख्यादितेः सुताःइत्यलुक्समासः । अलुग्दर्शनोऽनादरसूचकः । आदित्या इत्यर्थः । शक्रमुख्या इत्यनेन " वरुणेन मुखेन " इत्ये- तदुक्तार्थम् ।

खण्डार्थः

अथ यत्तृतीयममृतं प्रद्युम्नाख्यम् । शिष्टं पूर्ववत् ॥ १ ॥

नन्वादित्यभोग्यौ देशकालौ कौ ? यदधिपोऽयं भवतीत्युक्तमित्यत आह- स यावदादित्य इत्यादिना ॥ आदित्यः यावद् यावता कालेन देशेन च पश्चादुदेता तद्देशगतान् प्रति स्वसामीप्येनोदयं प्राप्त इव पुरस्तात् पूर्वदेशविशेषेऽस्तमेता तान् प्रत्येव किञ्चिद्दूरगमनसाम्येनास्तं प्राप्त इव तात्तातो देशस्य कालस्य चाऽदित्यनामाधिपत्यं वर्तते सः तत्पर्येता स्वाराज्यं भोगं च पर्येता । नन्वादित्यभोग्यौ देशकालौ रुद्रभोग्य- देशकालापेक्षया कियन्तावित्यपेक्षायां तदर्धभूतावित्याह- दक्षिणत इत्यादिना ।। आदित्यः यावद् यावता कालेन देशेन च पश्चादुदेता पुरस्तादस्तमेता तावत् तावतः कालस्य देशस्य च द्विर्द्विगुणं दक्षिणत उदेता उत्तरतोऽस्तमेता, आदित्यभोग्यपश्चिमोदयकालाद्यपेक्षया रुद्र- भोग्यदक्षिणोदयकालादिर्द्विगुण इत्यर्थः । तथा चाऽदित्यभोग्यकालादेः रुद्रभोग्यकालाद्यर्धता पर्यवस्यतीति भावः । अनयैव रीत्योत्तरखण्डद्वय- गतमिदं वाक्यं व्याख्येयम् ॥ ४ ॥

॥ इति अष्टमः खण्डः ॥