न्यग्रोधफलमत आहरेति इदं भगव इति भिन्धीति ..

उपनिषत् ( खण्ड: - १२)

परमात्मनोऽप्रत्यक्षत्वविषये वटबीजदृष्टान्तः

न्यग्रोधफलमत आहरेति इदं भगव इति भिन्धीति भिन्नं भगव इति किमत्र पश्यसीति अण्व्य इव इमा धाना भगव इत्यासामङ्गैकां भिन्धीति भिन्ना भगव इति किमत्र पश्यसीति न किञ्चन भगव इति ॥ १ ॥

तं होवाच यं वै सौम्य एतमणिमानं न निभालयसे एतस्य वै सोम्यैषोऽणिम्नः एवं महान् न्यग्रोधस्तिष्ठति श्रद्धस्व सोम्येति ॥२॥

स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्माऽ तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ॥ ३ ॥ १२ ॥

भाष्यम्

 ज्ञायते न कथं स्वस्मिन् सूक्ष्मे ज्ञाते परो हरिः । तत्रस्थ इति पृष्टः संस्तमाहोद्दालकः सुतम् ॥ वटबीजे यथा सूक्ष्मे महान्यग्रोधभावयुक् । न दृश्यतेऽभिमानी स एवं जीवगतो हरिः ॥ १२ ॥

पदार्थकौमुदी

कथं पुनरिदमत्यन्तस्थूलं पृथिव्यादिजगदत्यन्तसूक्ष्मात् सतो जायत इत्येतद् दृष्टान्तेन "भूय एव मा भगवान् विज्ञापयतु ' ' इति पृष्टे यथा सूक्ष्मधाना सामर्थ्यात् तत्परिणामो महान् न्यग्रोधस्तिष्ठत्येवं परमसूक्ष्म- परमात्मसामर्थ्यात् तत्परिणामोऽयं प्रपञ्च इत्युत्तरमुच्यत इति परकीय- प्रश्नोत्तराभिप्रायवर्णनमयुक्तम् । अस्यार्थस्याव्यवधानेन प्रागनुक्तत्वेन तत्र दृष्टान्ताकाङ्क्षायोगात् । सतः शुद्धस्य सौक्ष्म्यस्याप्यभावेन विशिष्टस्य तु सौक्ष्म्यवत् स्थौल्यस्यापि भावेन प्रश्नायोगाच्च । " एतस्य वै सोम्यैषोऽणिम्नःइत्युक्ताणिमशब्दस्य धानापरत्वासम्भवेन परिहारा - योगाच्च । तथाहि । धानानां " किमत्र पश्यसि " इति " अण्व्य इवेमा धाना भगवःइति भावप्रत्ययरहितेन स्त्रीलिङ्गेन बहुवचनान्तेनेवशब्द- शिरस्केण चाणुशब्देन निर्दिष्टतया तद्विपरीताणिमशब्दानर्हत्वात् । "न निभालयसे' इत्युक्तादृश्यत्वायोगाच्च । धानाया एव वटोपादानत्वेन धानाभेदनादिवैयर्थ्याच्चेति भावेन स्वयं प्रश्नाभिप्रायं तावदाह - ज्ञायत इति । सूक्ष्म जीवे । एवं जीवस्य सत्तादिप्रदो हरिरत्रैव शरीरे जीवं वर्तते चेलीबेन कुतो न दृश्यते ? सूक्ष्मत्वादिति चेत्, जीवस्य सूक्ष्मस्वात्म-दर्शिनः सूक्ष्मदर्शनशक्तिसद्भावादिति भावः । प्रश्नोत्तरत्वेनयं वै सोम्यैतमणिमानं न निभालयसे" इति वाक्यतात्पर्यमाहवटबीज इति || अभिमानी बीजाभिमानी । स एव महावृक्षाभिमानीत्युक्तम् । महांश्चासौ न्यग्रोधश्च तस्मिन् भावयुगिति । अनेन "एतस्य वै सोम्यैषोऽणिम्नः" इति वाक्यमुक्तार्थम् । सूक्ष्मे वटबीजे दृश्यमाने यथा तदभिमानी न दृश्यतेऽतिसूक्ष्मत्वात् । एवं सूक्ष्मे जीवे दृश्यमानेऽपि जीवगतो हरिर्न दृश्यते । परमसूक्ष्मत्वादित्यर्थः । नन्वनेनयं वै सोम्यैतमणिमानं न निभालयस एतस्य वै सोम्यैषोऽणिम्नःइत्युक्ताणिमशब्दो बीजजीवपरतया व्याख्यातः । तथा सति " नहि धानापरमात्मनोरभेदोऽस्ति" इत्युत्तरवाक्यविरोधः । अणि- मशब्दस्य परमात्मपरत्वं विना तस्यायोगात् ।अणिमशब्देन पर एवाभिहितः" इति तत्त्वनिर्णयविरोधाच्चेति चेन्न । अयमभिप्रायो भाष्यकारस्य । अणिमशब्दो हि परेण धानापरी व्याख्यातः सर्वथा स न युक्तः । प्रागुक्तबहुबाधकसद्भावात् । किन्तु परमात्मपर एव । ‘‘स एषोऽणिमा" इत्यणिमशब्देन प्रकृतत्वात् । तत्रैव तच्छब्दस्य मुख्यत्वाच्च । अथवा जीवपर एवास्तु | धानापरत्वपक्षोक्त- दोषाणामत्राभावात् । बहुबाधकवशेनाणिमशब्देनाप्रकृतस्यापि ‘“अस्य सोम्य महतो वृक्षस्यइत्यादिना प्रकृतस्य वृक्षजीवस्याणिमशब्देन ग्रहणोपपत्तेः । वृक्षाभिमानिन एव बीजाभिमानित्वात् । अत एव ‘“महान् न्यग्रोधभावयुक्इति बीजाभिमानिविशेषणमुक्तमिति ।।

।। द्वादशः खण्डः ॥ १२ ॥

खण्डार्थः

किमवोचत् - न्यग्रोधफलमित्यादि । हे सोम्यातो वृक्षान्यग्रोध- फलमाहरेत्युवाच पिता । आहृत्येदं न्यग्रोधफलमाहृतं भगवो भगवन्निति पुत्रः । इदं फलं भिन्धीति पिता । तद्भित्वा भिन्नं भगव इति पुत्रः । अत्र भिन्ने फले किं पश्यसीति पिता । अण्व्य इव सूक्ष्मा इवेमा धाना बीजानि पश्यामीति पुत्रः । हे अन आसां धानानां मध्ये एकां धानां भिन्धीति पिता । भित्त्वा भिन्ना भगव इति पुत्रः । अत्र भिन्नायां धानायां किं पश्यसीति पिता । न किञ्चन पश्यामि भगव इति पुत्रः ।। १ ।।

एवमुक्तवन्तं तमुवाच पिता । यमेतमणिमानं भावभवित्रोरभेदात् । अतिसूक्ष्मं बीजजीवं न निभालयसे न पश्यसि । एतस्याणिम्नः सामर्थ्यादेवं परिदृश्यमानप्रकारेण महान्यग्रोधस्तिष्ठति । यद्वाऽणिम-शब्दः परमात् परः । नात्रान्यथात्वशङ्का कार्येत्याहश्रद्धत्स्व सोम्येति पिता ।। अत्र वृक्षः प्रपञ्चः। फलं शरीरम् । धाना जीवः । तत्र यथा सूक्ष्मवटबीजे दृश्यमानेऽपि यत्प्रभावाद् वटावस्थानं स बीजान्तर्गतो बीजजीवः परमात्मा वा यथा परमसूक्ष्मत्वान्न दृश्यते तथा जीवादपि सूक्ष्मत्वात् तदन्तर्गत इत्युक्तं भवति ।। २ ।।

स यःइत्यादिकमुक्तार्थम् । इत्युपदिष्टेन श्वेतकेतुना । ननु बटावस्थानादिना कार्येणेश्वरसामर्थ्यं तावत् प्रत्यक्षमिव दृश्यते । एवं तत्सामर्थ्ये दृश्यमानेऽपि तस्यादर्शनमित्येतत् कथमहं विजानीया- मित्याशयवताभूय एव मा भगवान् विज्ञापयतु'" इति प्रार्थिते पिता " तथा सोम्येति होवाच' ।। ३ ।।

|| इति द्वादशः खण्डः ।।