पुरुषं सोम्योत हस्तगृहीतमानयन्ति अपहार्षीत्..
ततो विचारयन्त्येनं देवता हरिणा सह
स्वयम्भूरिति विष्णुजत्वाद् विरिञ्च उच्यते
अप्ययो नामाविज्ञेयत्वेन प्रवेशः
सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः
न चाभेदे कश्चिद् दृष्टान्त उक्तः
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम्
राजविद्याराजगुह्यं पवित्रमिदमुत्तमम्
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्
तं भूतिरिति देवा उपासाञ्चक्रिरे ..
सृष्टिः स्थिति संहारो नियतिर्ज्ञानमावृतिः
भूम्रः क्रतुवज्यायस्त्वं तथा च दर्शयति
न च शारीरपराभेदे तात्पर्यमित्यत्रं किञ्चिन्मानम्
पुरुष एवेदं सर्वमिति च पुरुषेणेदं सर्वं ..
अज्ञानदुःखसम्बन्धाद् यावज्ज्ञानं शरीरिणः
बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु
‘हंनाम हन्यमानत्वाज्जीवस्य समुदाहृतम्
परं ज्योतिरूपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तम पुरुष:
सन्मूला: सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः
न च स्वकीयस्य ब्रह्मभावस्याज्ञोऽपहर्ता भवति
अदुःखित्वपूर्णज्ञानानन्दस्वातन्त्र्यादिब्रह्मस्वभावाननुभवं स्वात्मनो ज्ञात्वैव
सारत्वात् स इति प्रोक्तो ज्ञानत्वाद् य इतीरितः
पुरुषं सोम्योत हस्तगृहीतमानयन्ति अपहार्षीत्..
उपनिषत् (खण्डः -१६)
अभेदज्ञानस्यानर्थकारित्वे चोरदृष्टान्तः
पुरुषं सोम्योत हस्तगृहीतमानयन्ति अपहार्षीत् स्तेयमकार्षीत् परशुमस्मै तपतेति । स यदि तस्य कर्ता भवति तत एवानृतमात्मानं कुरुते सोऽनृताभिसन्धोऽनृतेनात्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति स दह्यतेऽथ हन्यते ॥ १ ॥
अथ यदि तस्याकर्ता भवति तत एव सत्यमात्मानं कुरुते । स सत्याभिसन्धः सत्येनात्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति स न दह्यतेऽथ मुच्यते ॥ २ ॥
स यथा तत्र नादाह्येतैतदात्म्यमिदं सर्वं तत्सत्यं स आत्माऽ तत्त्वमसि श्वेतकेतो इति तद्धास्य विजज्ञाविति तद्धास्य विजज्ञाविति ॥ ३ ॥ १६ ॥
।। इति श्रीमच्छान्दोग्योपनिषदि षष्ठोऽध्यायः ।।
भाष्यम्
अभेदज्ञानिनां दोषः कीदृशः स्यादितीरिते । प्राह यस्मात् परस्वानां हर्ता राज्ञा निहन्यते ॥ किमु राज्ञोऽपहतैवं ब्रह्मस्तेनो निहन्यते (१) । सर्वेषां शास्तृ यद् ब्रह्म तत्स्वरूपतया स्मरन् ॥ ब्रह्मस्तेनो निहन्येत ( २ ) तमस्यन्धे सदैव हि । दोषा ह्यज्ञानपूर्वास्तु बद्ध्वा पुरुषमीशितुः । विष्णोर्हर्तेति बाधन्ते चाभिमानकृतास्पदम् ॥
पदार्थकौमुदी
यदि वागादिलयक्रमेण मरिष्यतो मुमुक्षतश्च तुल्या सत्सम्पत्ति- स्तर्हि(३) तत्र विद्वान् सम्पन्नो नाऽवर्तते आवर्तते त्वविद्वानित्यत्र किं कारणमिति जिज्ञासायां सत्यब्रह्मात्मत्वाभिसन्धित्यागात्यागौ (४) तत्र कारणमिति प्रदर्शनार्थं ‘“पुरुषं सोम्य ' ' इत्यादि वाक्यं पठ्यत इत्यसत् । दूषयिष्यमाणत्वादिति भावेन प्रश्नाभिप्रायमाह - अभेदेति ॥ दोषोऽनर्थः । भेदज्ञानिनां च कीदृशः पुरुषार्थः स्यादित्यपि ग्राह्यम् । तदुत्तरत्वेन " पुरुषं सोम्य” इति खण्डतात्पर्यमाह - यस्मादिति ॥ यदेत्यर्थः । राज्ञोऽपहर्त्रा सत्यपि राज्ञि राजाऽहमिति वदन्नित्यर्थः । स्व- व्यतिरिक्तराजाभावोक्तेरिति भावः । यथा राजाऽपहर्तैवम् । श्रुतावप- हर्त्रादिदृष्टान्तेनाभेदज्ञानिनः फलमुक्तम् । तत्तु न परस्वापहत्रादिदृष्टान्तेन ऐक्यज्ञानिनस्तत्साम्याभावात् । किं नाम ? राजापत्रादिदृष्टान्तेनैव । ततश्च हत्याधिक्यं तस्य फलमित्यनेनोक्तं भवति । ननु कथमभेदज्ञानिनो ब्रह्मस्तेनत्वम् ? कुत्र वा स निहन्यत इत्यत आह सर्वेषामिति ॥ शास्तृ शिक्षकम् । स्वस्वरूपव्यतिरेकेण ब्रह्मभावस्मरणाद् ब्रह्मस्तेन इत्यर्थः । ननु राजाऽहमिति दृढाभिमानमतदर्हं राजपुरुषा बाधन्ते । ब्रह्मस्तेनं के बाधन्त इत्यत आह- दोषा हीति ॥ दोषा इति तदभिमानिनो देवा वायुकिङ्कराः । मिथ्याज्ञानपूर्वा इत्यर्थः । वस्तुतः किमयं विष्णोरपहर्ता ? नेत्याह – अभिमानेति ॥ ब्रह्मैवाहमित्यभि- माने कृतास्पदमित्यर्थः ।