अयं वाव लोको हावुकारो वायुर्हायिकारश्चन्द्रमा ..
उपनिषत् (खण्डः- १३)
स्तोभाक्षरेषु देवतोपासना
अयं वाव लोको हावुकारो वायुर्हायिकारश्चन्द्रमा अथकार आत्मेहकारोऽग्निरीकार आदित्य ऊकारो निहव एकारो विश्वेदेवा औहोयिकारः प्रजापतिर्हिङ्कारः प्राणः स्वरोऽन्नं याया वाग्विराडनिरुक्तस्त्रयोदशः स्तोभः सञ्चरो हुप्कारो दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति य एतामेवं साम्नामुपनिषदं वेदोपनिषदं वेद इति ॥ १ ॥ १३ ॥
॥ इति श्रीमच्छान्दोग्योपनिषदि प्रथमोऽध्ययः ॥ १ ॥
भाष्यम्
हूयतेऽत्राग्निहोत्रादिर्हावुकारस्त्वियं यतः (२) | हेत्याश्चर्यवदायाति हेति वा सुखकृत्त्वतः ।। हायिकारस्ततो वायुरथेत्युक्तमनन्तरम् । आनन्तर्यात् प्रकाशस्य सूर्याच्चन्द्रस्त्वथेरितः ।। सर्वसामीप्यतो विष्णुरिहेति कथितः सदा । इन्धनादग्निरीकार ऊकार: सूर्य उष्टितः ॥ नितरामाह्वयन्त्येनमितीन्द्रो निहवः स्मृतः ।
एतीत्येकार एवासौ औहोयीत्यखिलाः सुराः || उच्चत्वाद् विष्णुरुः प्रोक्तो हूयन्तेऽस्मिन् यतोऽखिलाः । मुक्ताबौहोयिनस्तस्मात् सर्वदेवा: (१) प्रकीर्तिताः || हीति निश्चय उद्दिष्टो निश्चयज्ञानतः सदा । ब्रह्मा हिङ्कार इत्युक्तो वायुः प्राणः शरीरगः ।। स्वे विष्णौ रमयत्येनं जीवं तस्मात् स्वरः स्मृतः । ययिर्नित्यगतेर्वायुस्तद्गा याया सरस्वती ॥ सैवान्नदेवता प्रोक्ता यात्रा (२) प्राणेन नीयते । सर्ववागात्मिका या तु श्रीर्विशेषेण राजनात् ॥ विराडुक्ता निरुक्तस्तु व्याप्तो नारायणस्तु यः । आहूत एव पातीति हुप्कार इति कीर्तितः ।।
हुबित्याक्रियते यस्माद्धुकारस्तु जनार्दन : | अनिरुक्तस्त्ववाच्यत्वात् परमः पुरुषो हरिः ।।' इति माहात्म्ये ।
सम्यक् चरतीति स एव सञ्चरः ॥१३ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमच्छान्दोग्योपनिषद्भाष्ये प्रथमोऽध्यायः ॥ १ ॥
पदार्थकौमुदी
सामैकदेशोपास्तेः प्रकृतत्वात् तदेकदेशहावित्यादित्रयोदश- स्तोभनिष्ठामुपास्तिमाह- अयमित्यादिना । सामानाधिकरण्येनाभेद- प्रतीतिनिरासाय खण्डं प्रमाणेन व्याचक्षाणस्तावदादिवाक्यं व्याचष्टे - हूयत इति ।। अत्र पृथिव्याम् । यतोऽग्निहोत्रादि हूयते अत इयं पृथिवी हाकार इत्युच्यत इति सम्बन्धः । अत्र हाव्वित्यादिस्तोभ एव व्या- क्रियते । हावित्याक्रियमाणत्वाद्धावुकार इत्यर्थो ज्ञेयः । " वायुर्हायि- कारः” इति वाक्यं व्याचष्टे – हेतीति ॥ हेति तावदार्ये वर्तते । आश्चर्यवदायाति यतस्ततो वायुर्हाधिकार इत्येकोऽर्थः । वाशब्दो व्याख्यानान्तरद्योतकः । हेति सुखमुच्यते । तदापयति सुखकृदिति यावत् । सुखकृत्त्वतो वायुर्हायिकार इत्यन्योऽर्थः ।
" चन्द्रमा अथकारः" इति वाक्यं व्याख्यातुमथशब्दार्थमाह अथेति । अस्त्वानन्तर्यमथशब्दार्थः । प्रकृते किमानन्तर्यं चन्द्रमसो विविक्षितमित्यतस्तद्दर्शयन् वाक्यं व्याचष्टे – आनन्तर्यादिति ॥ सूर्या- चन्द्रमसोः स्वरूपेण समत्वात् " प्रकाशस्य” इत्युक्तम् । “तथेरितः” अथकार इतीरितः । " आत्मेहकार : " इति इति वाक्यं व्याचष्टे सर्वेति ॥ ‘“अग्निरीकार : " इति वाक्यं व्याचष्टे – इन्धनादिति ॥ दीपनादित्यर्थः । “आदित्य ऊकारः" इत्येतद् व्याचष्टे
ऊकार इति ॥ उष्टितः आतपदाहात् । उष प्लुष दाह इति धातुः । “ एकारः" इति वाक्यं व्याख्यातुं तावन्निहवशब्दोक्तां देवतामप्रतीतेराह- नितरामिति ॥ पदार्थमुक्त्वा वाक्यार्थमाह - एतीति ॥ " विश्वे देवा औहोयिकारः" इति वाक्यं व्याचष्टे औहोयीतीति ॥ स्मृता इति वचनविपरिणामेन वर्तते । तेष्वहोयिशब्दं निर्वक्ति – उच्चत्वादिति ॥ यतोऽस्मिन्नुशब्दवाच्ये विष्णावखिलाः सुरा मुक्तौ हूयन्ते तस्मात् सर्वे देवा औहोयिनः प्रकीर्तिता इत्यन्वयः । अनेन उशब्दस्य सप्तमी औ इति । औ हूयन्त इत्यौहोयिन इति निरुक्तिर्दर्शितेति ज्ञातव्यम् ।
“प्रजापतिर्हिङ्कारः” इति वाक्यं व्याचष्टे - हीतीति ॥ सदेत्यनु- स्वारार्थः । ‘‘प्राणः स्वरः" इति वाक्यं व्याचष्टे - वायुरिति ॥ प्राण इत्यनुवादेन वायुरिति व्याख्यातम् । हायिकारत्वेन वायोरुक्तत्वाच्छरीरग इत्युक्तम् । तेनाध्यात्माधिदैवभेदेनैकस्यैव द्विर्ग्रहणमिति सूचितं भवति । तस्मिन् स्वरशब्दं निर्वक्ति - स्वे विष्णाविति ॥ “अन्नं याया” इति वाक्यं व्याचष्टे – ययिरिति ॥ तद्द्रा तदनुगा सरस्वती यायेति प्रोक्ता । “अन्नं याया” इत्युक्तेः । कथमेतदित्यत आह - सैवेति ॥ यायाशब्दं प्रकारान्तरेण निर्वक्ति - यात्रेति ॥ यात्रा नेत्रा नीयत इति याया || “वाग् विराट्” इति वाक्यं व्याचष्टे सर्वेति ।। सा श्रीः । ‘“अनिरुक्तत्रयोदशः स्तोभः सञ्चरो हुप्कारः" इति वाक्यं व्याचष्टे - अनिरुक्त इति ॥ आद्यस्तुशब्दो नारायण एवानिरुक्तशब्दस्य विशेषद्योतनार्थः । द्वितीयस्त्ववधारणार्थः । “आत्मेहकारः” इत्युक्तेः पुनर्ग्रहणं कथमित्यतो व्याप्त इत्युक्तम् । तेन पूर्वोक्तः क्षेत्रज्ञ इति लभ्यते । यच्छब्दश्रवणात् तच्छब्दलाभ: । अहूत एवं पातीति हुबिति नामधेयं स्यान्नतु हुप्कार इतीत्यत आह हुबित्याक्रियत इति ॥ नारायणेs- निरुक्तशब्दं निर्वक्ति अनिरुक्त इति ॥ अवाच्यत्वात् साकल्येन वक्तुमशक्यत्वात् । सञ्चरशब्दस्य प्रमाणेनाव्याख्यातत्वात् तस्यान्य- परत्वप्रतीतिनिरासाय तं व्याचष्टे - सम्यगिति । स एव हरिरेव ||
खण्डार्थः
अयं पृथिवी लोकस्तदभिमानी हावुकार : हूयतेऽत्राग्निहोत्रादीति हाव्वित्युच्यते । हाव्वित्याक्रियमाणत्वाद्धावुकारः । वायुर्मुख्यवायु- र्हायिकारः । हेत्याश्चर्ये । आश्चर्यवदायातीति हायीत्युच्यते । अथवा ति सुखमुच्यते । तदापयति सुखकर्तेति यावत् । तस्माद्धायीत्युच्यते ।कारप्रत्ययार्थः पूर्ववत् । चन्द्रमा अथकारः । चन्द्रप्रकाशस्य सूर्यप्रकाशा- नन्तर्यात्। आत्मा क्षेत्रज्ञो विष्णुरिहकारः । सर्वसामीप्यात् । अग्निरीकारः इन्धनात् ।
आदित्य ऊकारः उष्टितः आतपदाहात् । नितरामाह्वयन्त्येनमिति निहवनामक इन्द्र एकारः । एतीति हेतोः । विश्वे देवा औहोयिकारः । उच्चत्वाद् विष्णुरुः प्रोक्तः तस्य सप्तमी औ इति । औ विष्णौ हूयन्ते मुक्ताविति औहोयिन इत्युच्यन्ते । प्रजापतिर्हिङ्कारः । निश्वयज्ञानरूप- त्वात् । प्राणः शरीरगो वायुः स्वरः स्वे विष्णौ जीवं रमयतीति स्वर- नामकः । अन्नमन्नाभिमानिनी सरस्वती याया नित्यगतेर्वायुर्ययिरित्युच्यते । तद्गतत्वाद् यायेत्युच्यते । यात्रा नियन्त्रा प्राणेन नीयत इति वा यायेत्यु- च्यते । वाक् सर्ववागभिमानिनी श्रीर्विराट् विशेषेण राजनाद् विराडुक्ता । अनिरुक्तः साकल्येन निर्वक्तुमशक्यत्वादनिरुक्तनामकः । सञ्चरः सम्यक् चरतीति सञ्चरनामको व्याप्तो नारायणस्त्रयोदशः स्तोभः । कोऽसौ हुप्कारः आहूत एव पातीति हुप् । हुबित्यनेनाक्रियमाणत्वादित्यर्थः । एवंवेत्तुः फलमाह – दुग्ध इति ॥ व्याख्यातमेतत् । विद्यार्थस्य सर्वाध्यायार्थस्य वाऽवधारणार्था द्विरुक्तिः || १ || इति त्रयोदशः खण्डः ।। १३ ।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य च्छान्दोग्योपनिषद्भाष्यस्य टीकायां श्रीमद्वेदव्यासतीर्थपूज्यपादशिष्य- वेदेशभिक्षुविरचितायां पदार्थकौमुद्यां प्रथमोऽध्यायः ।। १ ।। ***