अथ यां द्वितीयां जुहुयात् ..

उपनिषत् (खण्डः - २० )

'व्यानाय स्वाहा' इत्याहुतेः फलनिरूपणम्

अथ यां द्वितीयां जुहुयात् तां जुहुयाद् व्यानाय स्वाहेति व्यानस्तृप्यति ॥ १ ॥

व्याने तृप्यति श्रोत्रं तृप्यति श्रोत्रे तृप्यति चन्द्रमास्तृप्यति चन्द्रमसि तृप्यति दिशस्तृप्यन्ति दिक्षु तृप्यन्तीषु यत्किञ्च दिशश्चन्द्रमाश्वाधितिष्ठन्ति तत् तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥। २ ।। २० ।।

भाष्यम्

.................व्यानः श्रोत्रं च चन्द्रमाः || दक्षिणद्वारपस्त्वेकः………… ।।

पदार्थकौमुदी

व्यानाहुतितृप्यतयोक्तानां व्यानश्रोत्रचन्द्रमसां भेदेअथ योऽस्य दक्षिणः सुषिः स व्यानः तच्छ्रोत्रं स चन्द्रमाः" इति प्रागुक्तविरोध- श्चन्द्रमस एवानुवादायोगचेत्यत आह- व्यान इति ।।

खण्डार्थः

एवमुत्तरखण्डचतुष्टयं नेयम् । दिशस्तन्नाम्नी वायुपत्नी । अधितिष्ठति । दक्षिणद्वारपत्वेन ॥। १-२॥

॥ इति विंशः खण्डः ॥