अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तत्पुरीषं ..

उपनिषत् ( खण्ड: - ५ )

अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति यो मध्यमस्तन्मांसं योऽणिष्ठस्तन्मनः ॥ १ ॥

आपः पीतास्त्रेधा विधीयन्ते तासां यः स्थविष्ठो धातुस्तन्मूत्रं भवति यो मध्यमस्तल्लोहितं योऽणिष्ठः स प्राणः॥ २ ॥

तेजोऽशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तदस्थि भवति यो मध्यमः स मज्जा योऽणिष्ठः सा वाक् ॥ ३ ॥

अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति भूय एव मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ॥४॥५॥

भाष्यम्

मांसादिशब्दैरभिमानिदेवता एव विवक्षिताः

देवता एव मांसादिशब्दवाच्याः । तत्र प्रवेशात् अश्यमानाश्चोपजीव्यत्वात् । न च दुःखं तासाम् । ऐश्वर्यात् । तिस्रो देवताः पुरुषं प्राप्य त्रिवृत्त्रिवृत् इति प्रस्तुतत्वात् ।

पदार्थकौमुदी

नन्वथापीदं प्रकरणं देवतापरतया व्याख्यातुं न युक्तम् ।यो मध्यमस्तन्मांसम्इति मांसादिशब्दश्रवणात् । तेषां च प्रसिद्ध- मांसादिवाचित्वादित्यत आह- देवता एवेति । तेजोऽन्नाख्या एव देवता मांसादिशब्दवाच्या इत्यर्थः ।एकैका त्रिवृत्त्रिवृद् भवति " इत्युक्तत्वात् । तर्हि पुरीषादिशब्दवाच्या इत्येव वक्तव्यम् । सत्यं, तथाऽपि तस्य श्रुतितोऽमाङ्गलिकत्वात् त्यागः । नचैवं वाक्यशेषे मनःप्राणवाचामेवान्नमयत्वाद्युक्तिविरोधः । तत्र तेषां मुख्याभिमानोक्तेः। अत एव हि मयट्प्रत्ययः । साधारणाभिमानस्तु रुद्रादीनां पुरीषादा- वप्यविरुद्धः । देवतानां मांसादिशब्दवाच्यत्वं कुत इत्यत आह- तत्रे- ति ॥ मांसादौ देवतानां नियामकतया प्रवेशात् । नियम्यवाचक- शब्दानां नियामके वृत्तेरित्यर्थः । नन्वथाप्यन्नादयो न देवता इति निश्चयो युज्यते ।अन्नस्याश्यमानस्यापां पीयमानानाम्" इत्युक्ति- विरोधादित्यत आह- अश्यमानाश्चेति ॥ देवता एवोपजीव्यत्वाद- श्यमानाश्चेत्यर्थः । अन्यथा "तेजसोऽश्यमानस्य" इत्यस्य प्रसिद्ध- तेजस्यप्यसम्भवादिति भावः । नन्वश्यमानान्तर्गतानां देवतानां तदशने दुःखप्रसङ्गः । नहि दह्यमानगेहान्तर्गतस्य न दाह इति युक्तमित्यत आह- नचेति ।। कुत इत्यत आह- ऐश्वर्यादिति ॥ दह्यमान- गेहान्तस्थस्याप्यग्निस्तम्भनशक्तिमतो दाहाभाववत् तासामघटितघटक- सामर्थ्याद् दुःखाभावोपपत्तिरित्यर्थः । किमेवमन्नादीनां देवतात्व- ग्रहेण ? प्रसिद्धान्नादिकमेव किं न स्यादित्यत आह- तिस्र इति ॥ इति देवतानां प्रस्तुतत्त्वात् प्रसिद्धार्थत्वे तद्विरोध इत्यर्थः ।

Load More