यदा वै श्रद्दधात्यथ मनुते नाश्रद्दधन्मनुते ..

उपनिषत् (खण्डः - १९ )

यदा वै श्रद्दधात्यथ मनुते नाश्रद्दधन्मनुते श्रद्दधदेव मनुते श्रद्धा त्वेव विजिज्ञासितव्येति श्रद्धां भगवो विजिज्ञास इति | ||१९||

उपनिषत् ( खण्ड: - २० )

यदा वै निस्तिष्ठत्यथ श्रद्धधाति नानिस्तिष्ठञ्छ्रद्दधाति निस्तिष्ठन्नेव श्रद्दधाति निष्ठा त्वेव विजिज्ञासितव्येति निष्ठां भगवो विजिज्ञस इति ॥ १ ॥ २० ॥

भाष्यम्

नित्यश्रद्धास्वरूपश्च तथैव स्थैर्यरूपकः ॥

पदार्थकौमुदी

श्रद्धानिष्ठाकृतिसुखभूमशब्दार्थान् क्रमेणाऽह - नित्यश्रद्धेत्यादिना ॥