यत्र नान्यत् पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा..
उपनिषत् (खण्डः - २४)
स्वातन्त्र्यनित्यमुक्तत्वे अपि भगवल्लक्षणे
यत्र नान्यत् पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमाऽथ यत्रान्यत् पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पं यो वै भूमा तदमृतमथ यदल्पं तन्मर्त्यं स भगवः कस्मिन् प्रतिष्ठित इति स्वे महिमि्न यदि वा न महिम्नीति॥ १ ॥
गोअश्वमिह महिमेत्याचक्षते हस्तिहिरण्यं दासभार्यं क्षेत्राण्यायतनानीति नाहमेव ब्रवीमीति होवाचान्यो ह्यन्यस्मिन् प्रतिष्ठित इति ॥ २ ॥ २४ ॥
भाष्यम्
यदधीनं विना नान्यत् किञ्चिदस्ति कुतश्चन । स भूमोक्तोऽतिपूर्णत्वादन्यदल्पमुदीर्यते ॥
पदार्थकौमुदी
यत्र भूमतत्वेऽन्यद् द्रष्टव्यं न पश्यत्यभावादिति प्रतीतिनिरासाय "यत्र नान्यत् पश्यति’” इत्यादि “ सभूमा" इत्यन्तवाक्यतात्पर्यमाह- यद- धीनमिति ।। अतिपूर्णत्वादित्युक्तानुवादः । “यत्रान्यत् पश्यति'' इत्यादि ‘“तदल्पम्” इत्यन्तवाक्यतात्पर्यमाह - अन्यदिति । भगवतोऽन्यत् ।
खण्डार्थः
भूम्नोऽसदृशत्वं लक्षणमाह- यत्रेति । यत्र यस्याधीनं विनाऽन्यन्न पश्यत्यधिकारी सर्वमेव ( १ ) तदधीनं पश्यति शृणोति विजानाति वा स भूमेत्यर्थः । अस्यातिव्याप्तिं निराह - अथ यत्रेति ॥ अत्रापि यत्र यस्याधीनं विनाऽन्यत् पश्यति । अन्यद् (२) यदधीनं पश्यतीति यावत् । तदल्पमित्यर्थः । भूम्नो नित्यमुक्तत्वं लक्षणान्तरमाह - यो वा इति ॥ अतिव्याप्तिमुद्धरति- अथेति । यदल्पं मुक्तजातं तदपि पूर्वं मर्त्यमेबातो न तस्यातिव्याप्तिरिति भावः । जानन्नपि नारदो विशेषार्थज्ञानाय स्थापनाय वा भूमाश्रयं पृच्छति - स इति ॥ आश्रयप्रश्नस्य प्रकारान्त- रेणाप्युत्तरमाह - यदि वेति । यद्वा न महिम्न्ययमाश्रितः ।। १ ।।
ननु स्वमहिमाश्रयत्वे महिमाश्रयत्वं प्राप्तमेवातो विरोध इत्यतः परिच्छिन्नमहिमानाश्रयत्वमभिप्रेतमिति भावेनोक्तं विशदयति- गोअश्वेति ॥ यश्चैत्रो महिम्न प्रतिष्ठितस्तं गोअश्वं महिमेति गवाश्वं महिमेत्याचक्षते विद्वांसः । कचित्तु " गोअश्वमिह महिमा" इति पाठः । तदेह जगति गो अश्वं गवाश्वं तथा हस्तिहिरण्यं दासभार्यं द्वन्द्वैकव- द्भावः । क्षेत्राण्यायतनानि गृहाण्यस्य महिमेत्याचक्षते । किं ततः ? अहं भूमानमेवं चैत्रवत् परिच्छिन्नमहिमाश्रयं न ब्रवीमीति होवाच कुमारः । " स्वे महिम्न' इत्युक्तं नातिप्रसक्तमित्याह - अन्य इति । अयं स्वमहिम्येवेति तद्विलक्षण इत्यर्थः ।। २ ।।
।। इति चतुर्विंशः खण्डः ।।