स एवाधस्तात् स उपरिष्टात् स पश्चात् स पुरस्तात् ..
उपनिषत् ( खण्ड: - २५ )
सर्वत्र व्याप्तत्वमपि भगवल्लक्षणम्
स एवाधस्तात् स उपरिष्टात् स पश्चात् स पुरस्तात् स दक्षिणतः स उत्तरतः स एवेद सर्वमिति ।
भगवतः सर्वेष्वपि रूपेषु तल्लक्षणानि समानानि
अथातोऽहङ्कारादेश एवाहमेवाधस्तादहमुपरिष्टादहं पश्चादहं पुरस्तादहं दक्षिणतोऽहमुत्तरतोऽहमेवेदं सर्वमिति ॥ १ ॥
अथात आत्मादेश एवात्मैवाधस्तादात्मोपरिष्टादात्मा पश्चादात्मा पुरस्तादात्मा दक्षिणत आत्मोत्तरत आत्मैवेदं सर्वमिति स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नात्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दः स स्वराड् भवति तस्य सर्वेषु लोकेषु कामचारो भवत्यथ येऽन्यथातो विदुरन्यराजानस्ते क्षय्यलोका भवन्ति तेषां सर्वेषु लोकेष्वकामचारो भवति ॥ २ ॥ २५ ॥
भाष्यम्
स सर्वगुणसम्पूर्णः सर्वदेशेषु सर्वदा । स्वतन्त्रः सर्ववस्तूनि तदधीनानि सर्वशः ॥ पूर्णत्वात् सुखरूपोऽसौ सर्वकर्ता सुखत्वतः । कर्तृत्वात् सुस्थिरश्चासौ स्थिरत्वादास्तिकस्तथा ॥ आस्तिकत्वाच्च (१) मन्ताऽसौ विज्ञाता च ततो हरिः ।
विज्ञातृत्वाच्च निर्दोष: (१) सर्वस्यापि नियामकः || भूमा नारायणाख्यः स्यात् स एवाहङ्कृतिः स्मृतः । आकार्योऽहमिति ह्येष ततोऽहङ्कार उच्यते ।। जीवस्थस्त्वनिरुद्धो यः सोऽहङ्कार इतीरितः । सोऽप्यत्वेऽपि संव्यापी परमैश्वर्ययोगतः ।। यथा बालतनौ विष्णौ मार्कण्डेयेन धीमता । प्रविश्य नान्तोऽधिगत एवं व्याप्तो हरिः परः ॥ अणुरूपोऽपि भगवान् वासुदेव: परो विभुः । आत्मेत्युक्तः स च व्यापी न च भेदो हरौ कचित् ॥'
इति परमसारे ।
भूमप्रसादं विना नाल्पे सुखमस्ति । मर्त्यं च पूर्वम् । 'अल्पाsपि ह्यस्मृता देवी श्री: पूर्णाऽतिप्रियत्वत:' इति च । आत्मरतिर्भगवद्रतिः । स्वो भगवान् । सोऽस्य प्रत्यक्षत आज्ञापयिता(२) भवतीति स्वराट् ।
पदार्थकौमुदी
“स एवाधस्तात्’” इत्यादिवाक्यं व्याचष्टे - स इति ॥ स इत्यनुवादेन सर्वगुणसम्पूर्ण इति परामृश्य कथनम् । तस्यैव भूमशब्दार्थत्वात् । ‘“स एवेदं सर्वम्’”इति वाक्यं भूम्नः सर्वाभेदपरमिति प्रतीतिनिरासाय तात्पर्यत व्याचष्टे - स्वतन्त्र इति ॥ " यदा वै विजानात्यथ सत्यं वदति नाविजानन् सत्यं वदति" इत्यादिना विज्ञानादीनां सत्याद्यविनाभावोक्त्या लब्ध- मुत्तरोत्तरस्य पूर्वपूर्वत्र हेतुत्वमेव वैपरीत्येनाऽह - पूर्णत्वादित्यादिना ॥ " आस्तिकः " इति श्रद्धाशब्दार्थकथनम् । निर्दोषः सर्वस्यापि नियामक इति सत्यशब्दार्थः । भूमप्रकरणे “यो वै भूमा" इति पूर्ववैलक्षण्येनोपदेशे तात्पर्यमाह - भूमेति । प्राचीनं तु भूमगुणनिरूपणमेव । न पृथङ्मूर्ति- निरूपणमिति भावः । " अथातोऽहङ्कारः" इत्यादिना प्रसिद्धाहङ्कार एव चिदचित्संवलनात्मकः कथ्यत इत्यसदिति भावेनाऽह स एवेति अहङ्कारशब्दं भगवति निर्वक्ति - आकार्य इति ॥
नन्वहमित्याकार्यत्वं जीवस्यैव प्रसिद्धमित्यत आह - जीवस्थ इति ॥ अनेनाथात इति पूर्वविलक्षणोपदेशाभिप्रायोऽपि सूचितः । ननु जीवस्याणुत्वेन तदन्तर्गतस्यापि भगवतोऽणुत्वात् कथं " अहमेवाध- स्तात्" इत्यादिना व्याप्तत्वमुच्यत इत्यत आह - सोऽपीति ॥ नन्वस्तु परमैश्वर्यं घटकम् । तथाऽपि भगवत्यणुत्वमहत्त्वसमावेशे किं मानम् ? अन्यथा शशविषाणादिकल्पनापत्तेरित्यतो मार्कण्डेयप्रत्यक्षमाह यथेति ॥ ‘“अणुरूपोऽपि’” इति पूर्वत्रान्वेति । “अथात आत्माऽदेशः” इति जीवोपदेश इत्यसदिति भावेन तत्तात्पर्यमाह - भगवानिति ॥ “आत्मैवाधस्तात्’”इत्यादि व्याचष्टे – स चेति ॥ तर्हि भूमाहङ्कारात्म- लक्षणानां परस्परातित्र्याप्तिः स्यादित्यत आह- नचेति ॥
ननु ‘“यो वै भूमा तत् सुखम्' इत्यत्र भूम्नः सुखस्वरूपं लक्षणमुक्त्वा "नाल्पे सुखमस्ति" इत्यतिव्याप्तिपरिहारोऽभिहितः सोऽनुपनन्नः । अन्यस्यापि मुक्तस्य सुखस्वरूपत्वादित्यतस्तद्वाक्यं व्याचष्टे - भूम- प्रसादमिति । अल्पे मुक्तजाते । तथाचानन्याधीनसुखरूपत्वं प्राग् लक्षणत्वेनाभिप्रेत्यातिव्याप्तिपरिहारोऽयमिति भावः । “अथ यो वै भूमा तदमृतम्''इति भूम्नोऽमृतत्वं लक्षणमुक्त्वा “ अथ यदल्पं तन्मर्त्यम्” इत्यतिव्याप्तिः परिह्रियते । तदनुपपन्नम् । मुक्तत्वापरपर्यायस्यामृतत्वस्य मुक्तेऽपि सत्त्वादित्यत आह मर्त्यं चेति ॥ विभक्तिविपरिणा- मेनाल्पमित्यनुवर्तते । अल्पं मुक्तजातम् । तदानीममृतमपि पूर्वं मर्त्यं च । तथाच नित्यमुक्तत्वं प्राग् लक्षणत्वेन विवक्षित्वा तस्यायमति- व्याप्तिपरिहार इति भावः । तर्हि रमायामतिव्याप्तिरित्यत आह अल्पाऽपि हीति ।। अमृता नित्यमुक्ता देवी श्रीरल्पाऽपि पूर्णा । भगवतोऽतिप्रियत्वात् । तथाच तस्यापि भूमकोटिनिक्षेपेण लक्ष्यत्वा- नातिव्याप्तिरिति भावः । ननु भूमप्रसादं विना नाल्पे सुखमस्तीत्ययुक्तम् । " एवं विजानन्नात्मरतिः' इति भगवदपरोक्षज्ञानिनो मुक्तौ स्वेनैव सुखोक्तेरित्यतस्तद् यथावद्व्याचष्टे आत्मरतिरिति ॥ भगवता रति- र्यस्यासौ भगवद्रतिः सः स्वराट् स्वतन्त्रः इत्यन्यथाप्रतीतिवारणायाऽदौ स्वशब्दार्थमाह- स्व इति ॥ स्वतन्त्रत्वादिति भावः । स्वराट्शब्दं व्याचष्टे – स इति ।। स्वः परमात्मा राड् आज्ञापिता आज्ञापयिता यस्य सः स्वराट् । नन्विदं संसारिसाधारणं कथं फलमित्यत उक्तम्- प्रत्यक्षत इति ॥
खण्डार्थः
भूम्नः सर्वगतत्वाख्यं पूर्णत्वं च लक्षणमाह - स एवेति ॥ सर्वगतत्वं सर्वसत्ताप्रदानायेति भावेनोक्तम् - स एवेदं सर्वमिति ॥ स एव स्वतन्त्रः सर्वं तदधीनमित्यर्थः । यद्वेदं सर्वमित्यस्य लिङ्गव्यत्यासेनायं सर्व इत्यङ्गीकृत्य स भूमा सर्वत्र सन्निहितत्वादयं पूर्णत्वात् सर्व इत्युच्यत इत्यर्थो वर्णनीयः । भूमाख्यस्यैव नारायणस्य रूपान्तरं वक्तुमारभते-अथेति । अथ भूमनिरूपणानन्तरम् अतस्तत्प्रसादादहङ्कारस्याहमित्या- क्रियमाणस्य जीवस्थानिरुद्धस्य आदेशः उपदेशः क्रियत इत्यर्थः । कोऽसावहङ्कार इत्यतो भूमलक्षणमेव तल्लक्षणम् । तयोरभेदादिति भावेनाऽह - अहमेवेति ॥ १ ॥
तस्यैव वासुदेवाख्यं रूपान्तरमाह अथात इत्यादिना ॥ तस्यापि तल्लक्षणमेव लक्षणमिति भावेनाऽह - आत्मैवेति ॥ नामादिप्राणान्त- देवोत्तमत्वेनोक्तविशेषणविशिष्टत्वेन च भगवज्ज्ञानिनः फलमाह स इति ॥ स वा एषोऽधिकारी एवं शृण्वन्नेवं मन्वान एवं ध्यायन्नेवं पश्यन्मुक्तः सन्नात्मरतिरात्मना परमात्मना रतिरलंबुद्धिर्यस्य स तथोक्तः । आत्मना क्रीडत इत्यात्मक्रीडः । आत्मना स्वयं स्त्रीरूपः सन्मिथुनीभवतीत्यात्ममिथुनः । आत्मनैवाऽनन्दः स्वरूपभूतो यस्यासा- वात्मानन्दः । स मुक्तः स्वो भगवान् राड् आज्ञापयिता प्रत्यक्षतो भवतीति स्वराट् । तस्य मुक्तस्य सर्वेषु लोकेषु कामचारो भवति । इदं चतुर्मुखस्यैव मुख्यमन्येषां यथायोग्यमिति विवेकः । एवं भगवज्ज्ञानिनः फलमुक्त्वा विपरीतज्ञानिनो नोक्तं फलं भवतीत्याह - अथ य इति । अतः पूर्वोक्तादन्यथा ये विदुस्तेऽन्यराजानः स्वाधमनियामकवन्तो भवन्ति । तथा क्षय्याः क्षेतुं शक्या लोकाः येषां ते क्षय्यलोकाः भवन्ति । न केवलमेतावत् । तमःप्राप्तिश्चेति ज्ञातव्यम् || २ ||
॥ इति पञ्चविंशः खण्डः ॥