ॐ समस्तस्य खलु साम्ना उपासनं साधु ..
अथ श्रीमच्छान्दोग्योपनिषदर्थसङ्ग्रहे श्रीराघवेन्द्रयतिकृते ॥ हरिः ॐ ॥
द्वितीयाध्याये प्रथमः खण्डः
( साधुसामपदयोः समानार्थकत्वम् )
उपनिषत्
ॐ समस्तस्य खलु साम्ना उपासनं साधु यत्खलु साधु तत्सामेत्याचक्षते यदसाधु तदसामेति ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
ओं ।। सामैकदेशोद्गीथस्तोभनिष्ठामुपास्तिमुक्त्वा पञ्चभक्तिकसप्त- भक्तिकसमस्तसामनिष्ठामुपास्तिमाह द्वितीयाध्यायेन । समस्तस्य पूर्णस्य साम्नः सामनाम्नः समग्रभक्तिसहितसामप्रतिपाद्यस्य हरेरुपासनं कार्यमिति शेषः । कुतः ? यतः साम साधु अत इति योजना । कुतः साम साधु ? इत्यतः साम्नः साधुत्वं वृद्धसम्मत्याऽऽह - यदिति । यत् खलु सारत्वेन धार्यं तदेव हि सारत्वेन मेयं सामेति साम साध्विति एक एवार्थ इत्याचक्षते वृद्धाः । तत्र व्यतिरेकं चाऽह - यदिति । यदसाधु सारत्वेनाधार्यं तत् सारत्वेन न मेयमित्याचक्षते इति पूर्वेणान्वयः ।। १ ।।
उपनिषत्
तदुताप्याहुः साम्नैनमुपागादिति साधुनैनमुपागादित्येव तदाहुरसाम्नैनमुपागादित्यसाधुनैनमुपागादित्येव तदाहुः ॥ २
छान्दोग्योपनिषत्खण्डार्थः
तेऽपि वा किं बलादेवमाहुरित्यतो वृद्धान्तराणां साधी सामशब्दप्रयोगादित्याह तदुताप्याहुरिति ॥ तत् सामसाधुशब्दयो रेकार्थतामुताप्याहुः वक्ष्यमाणदिशाऽप्याहुर्वृद्धाः । कथम् ? साम्ना एनं बुद्धिस्थं राजगुर्वादिकमुपागात् प्राप्नोदिति यल्लोके साधुनैनमुपागादित्येव तदाहुः । असाम्नेत्यादिना व्यतिरेकोक्तिः ॥ २ ॥
उपनिषत्
अथोताप्याहुः साम नो बतेति यत्साधु भवति साधु बतेत्येव तदाहुरसाम नो बतेति यदसाधु भवत्यसाधु बतेत्येव तदाहुः ॥ ३ ॥
छान्दोग्योपनिषत्खण्डार्थः
तेऽपि वृद्धाः किं बलादेवमाहुरित्यतो वृद्धान्तराणां साधौ सामशब्दप्रयोगदृष्टेरित्याह - अथोताप्याहुरिति । अन्येऽपि वृद्धा आहुरित्यर्थः । कथम् ? यत् साधु भवति तत् नोऽस्माकं साम । बत हर्षे । तस्यार्थोक्तिः - साधु नो बतेत्येव तदाहुरार्या इति ॥ उक्तमेव व्यतिरेकेणाऽह – असाम नो बतेति । यदसाधु भवति तत् नोऽस्माकं असाधु बतेति तस्य व्याख्यानम् ।। ३ ।।
उपनिषत्
स य एतदेवंविद्वान् साधु सामेत्युपास्तेऽभ्याशो ह यदेनं साधवो धर्मा आ च गच्छेयुरुप च नमेयुः ॥ ४ ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
असाधु बतेत्येव तदाहुरिति ज्ञानिनः फलमाह - स य इति ।। स प्रसिद्ध योऽधिकारी एवं सारत्वेन धार्यं साधु सारत्वेन सर्वसामभिर्मेयं सामेत्येवं प्रकारेणैतत् साधुसामशब्दयोरेकार्थत्वं विद्वान् जानन् साधु सामेत्युपास्ते एनं समस्तसामप्रतिपाद्यतया भगवदुपासकं यद् ये साधवो धर्माः ते अभ्याशः समीप एव शीघ्रमिति यावत्, आगच्छेयुश्च मुक्तौ प्राप्नुयुः उपनमेयुश्च स्थिराश्च भवन्ति । चशब्दावन्योन्यसमुच्चये || ४ ॥ १ ॥
|| इति प्रथमः खण्डः ।।
अथ द्वितीयः खण्डः
( लोकेषु भगवदुपासना)
उपनिषत्
लोकेषु पञ्चविधं सामोपासीत पृथिवी हिङ्कारोऽग्निः प्रस्तावोऽन्तरिक्षमुद्गीथ आदित्यः प्रतिहारो द्यौर्निधनमित्यूर्ध्वेषु ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
लोकेषु पञ्चभक्तिकसामप्रतिपाद्यभगवत उपास्तिमाह - लोकेष्विति ॥ लोकेषु पृथिव्यादिषु पञ्चविधं पञ्चरूपभेदेन पञ्चविधतया स्थितं साम सारत्वेन मेयं भगवन्तं पञ्चभक्तिभेदेन पञ्चविधसामप्रतिपाद्यं पृथिव्यादिषु लोकेषु पञ्चसु स्थितमुपासीतेत्यर्थः । तत् क्रमेण व्यनक्ति - पृथिवीति ॥ सस्यादेः प्रथनाद् विस्तारात् पृथिवीनामा पृथिवीस्थः प्रद्युम्नो हिङ्कारः । हिमित्याक्रियत इति हिङ्काररूपसामभक्तिप्रतिपाद्य इत्यर्थः । एवमग्रेऽपि । अग्निः अदनहेतुनाऽग्निनामाऽग्निस्थो वासुदेवः प्रस्ताव: प्रस्तावाख्यसाम- भक्तिप्रतिपाद्यः । अन्तरीक्ष्यत इति वा व्यवधानाभावहेतुना वाऽन्त- रिक्षनामाऽन्तरिक्षगो नारायणः उद्गीथः वासुदेवादिमूर्त्यद्गमनहेतुनोद्गीथा- ख्यसामभक्त्यर्थः । आयूंष्यादत्त इत्यादित्यनामाऽदित्यस्थोऽनिरुद्धः प्रतिहारः इदं जगत् स्वस्वकार्येषु प्रतिहरति नयतीति प्रतिहाराख्य- सामभक्तिवेद्यः । द्यौः क्रीडाहेतुत्वाद् द्यौरित्युक्तो द्युलोकस्थः सङ्कर्षणो निधनं निधनशब्दितसंहृतिहेतुना निधनाख्यसामभक्तिवेद्यः इत्यूर्ध्वेषू- पर्युपरिस्थितलोकस्थभगवन्मूर्तीनां हिङ्कारादिसामभक्त्यर्थतयोपासन- मुक्तमित्यर्थः ।। १ ।।
उपनिषत्
अथावृत्तेषु द्यौर्हिङ्कार आदित्यः प्रस्तावोऽन्तरिक्षमुद्गीथोऽग्निः प्रतिहारः पृथिवी निधनम् ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
अथानन्तरमावृत्तेषु द्युप्रभृतिषु पृथिव्यन्तेषु स्थितरूपाणां हिङ्कारादि-सामभक्त्यर्थतयोपासनाप्रकार उच्यत इत्यर्थः । तदाह क्रमेण द्यौरित्या - दिना ।। पदानां प्रागुक्त एवावयवार्थो ध्येयः । द्यौः द्युस्थः प्रद्युम्नो हिङ्कारः, आदित्यो वासुदेवः प्रस्तावः, अन्तरिक्षो नारायण उद्गीथः, अग्निः अनिरुद्धः प्रतिहारः पृथिवी सङ्कर्षणो निधनम् । नचैतद् विरुद्धम् 'न स्थानतोऽपि परस्योभयलिङ्गम्' (ब्र.सू. ३-२-२१) इत्यत्रोक्त दिशा सर्वरूपाणां समस्तगुणपूर्णत्वात् । शक्तिव्यक्त्यात्मना नानागुणव्यव- स्थोपपत्तेः । ‘प्राप्तेश्च समञ्जसम् ' (ब्र.सू. ३-३-१०) इति सूत्रोक्तदिशो -पासकाधिकारिभेदेनाविरोधसम्भवाच्चेति भावः ॥ २ ॥
उपनिषत्
कल्पन्ते हास्मै लोका ऊर्ध्वाश्चावृत्ताश्च य एतदेवं विद्वांल्लोकेषु पञ्चविधं सामोपास्ते ॥ ३ ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
फलमाह– कल्पन्ते हेति ।। योऽधिकारी एतत् पञ्चभक्तिकसाम- प्रतिपाद्यम् एवमुक्तगुणविशिष्टतयोर्ध्वाधोलोकेषु स्थितत्वप्रकारेण विद्वान् जानन् लोकेषु पञ्चविधं साम भगवन्तमुपास्ते अस्मै ऊर्ध्वाश्चाऽवृत्ताश्च लोका ऊर्ध्वाधोलोकगाः भगवन्मूर्तयः मोक्षादिपुमर्थं कल्पन्ते कल्पयन्तीत्यर्थः ॥ ३ ॥ २ ॥
।। इति द्वितीयः खण्डः ॥
अथ तृतीयः खण्डः
(वृष्टौ भगवदुपासना)
उपनिषत्
वृष्टौ पञ्चविधं सामोपासीत । पुरो वातो हिङ्कारो मेघो जायते स प्रस्तावो वर्षति स उद्गीथो विद्योतते स्तनयति स प्रतिहारः ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
॥ वृष्टाविति ॥ वृष्टिप्रभृतिषु स्थितं पञ्चरूपात्मकं साम हरिं पञ्चभक्तिकसामप्रतिपाद्यमुपासीत । तद् व्यनक्ति – पुरोवात इति ॥ पुरोवातस्थः प्रद्युम्नो हिङ्कारः । पूर्ववदर्थो ध्येयः । मेघो जायते मिलितो मेघ इत्यर्थः । मिलितमेघस्थो वासुदेवः प्रस्तावः । वर्षति धारासम्पातस्थः नारायणः उद्गीथः । विद्योतते स्तनयति गर्जति विद्युद्गर्जनगतोऽनिरुद्धः प्रतिहारः ।। १ ।।
( वृष्टौ भगवदुपासकस्य फलकथनम् )
उपनिषत्
उद्गृह्णाति तन्निधनं वर्षति हास्मै वर्षयति ह य एतदेवं विद्वान् वृष्टौ पञ्चविधं सामोपास्ते ॥ २ ॥ ३ ॥
छान्दोग्योपनिषत्खण्डार्थः
उद्गृह्णाति वृष्टिमुपसंहरति वृष्टट्युपसंहारस्थः सङ्कर्षणो निधनम् । ज्ञानिनः फलमाह - योऽधिकारी एतत् पञ्चभक्तिसामप्रतिपाद्यम् एवं उक्तगुणविशिष्टतया वृष्ट्यादिपञ्चस्थानगतत्वेन विद्वान् वृष्टौ वृष्ट्यादौ पञ्चविधं साम भगवन्तमुपास्ते अस्मै ज्ञानिने वर्षति वर्षणादिगतो हरिः वर्षत्यभीष्टं वर्षयति चेत्यर्थः ।। २ ।। ३ ।।
।। इति तृतीयः खण्डः ।।
अथ चतुर्थः खण्डः
( अप्सु भगवदुपासना)
उपनिषत्
सर्वास्वप्सु पञ्चविधं सामोपासीत । मेघो यत्सम्प्लवते स हिङ्कारो यद्वर्षति स प्रस्तावो याः प्राच्यः स्यन्दन्ते स उद्गीथो याः प्रतीच्यः स प्रतिहारः समुद्रो निधनम् ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
अन्यत्रापि पञ्चविधस्य हरेरुपास्तिमाह – सर्वास्विति ॥ सर्वास्वप्सु पञ्चधा स्थितास्वप्सु स्थितं पञ्चविधं पञ्चरूपं साम भगवन्तं पञ्चभक्तिकसामवेद्यमुपासीत । सम्प्लवते सञ्चरति सञ्चरन्मेघस्थः प्रद्युम्नो हिङ्कारः । यद् वर्षति यद् वर्षणं वर्षणस्थो वासुदेवः प्रस्तावः । याः प्राच्यः प्राङ्मुख्यः स्यन्दन्ते प्रवहन्ति प्राक्प्रवहन्नदीस्थो नारायणः उद्गीथः । या नद्यः प्रतीच्यः पश्चिममुख्यः स्यन्दन्ते तत्स्थोऽनिरुद्धः प्रतिहारः । समुद्रः समुद्रस्थः सङ्कर्षणो निधनम् ।। १ ।।
( अप्सु भगवदुपासकस्य फलकथनम् )
उपनिषत्
न हाप्सु प्रैत्यप्सुमान् भवति य एतदेवंविद्वान् सर्वास्वप्सु पञ्चविधं सामोपास्ते ॥ २ ॥ ४ ॥
छान्दोग्योपनिषत्खण्डार्थः
फलमाह न हेति ॥ योऽधिकारी एतत् पञ्चविधसामभक्ति- वेद्यमेवमुक्तगुणविशिष्टत्वेन विद्वान् सर्वास्वप्सु पञ्चविधं पञ्चरूपं साम हरिमुपास्ते स इति शेषः । न ह अप्सु प्रैति म्रियते । अप्सुमान् भवति मध्यमपदलोपेन अप्सुस्थितविष्णुमान् भवतीति वा, अपः सूत इत्यप्सूर्भगवान्, स एव दीर्घलोपेनाप्सुः तद्वान् भवतीति वार्थः, मुक्तो भवतीति यावत् || २ || इति चतुर्थः खण्डः ।।
अथ पञ्चमः खण्डः
( ऋतुषु भगवदुपासना)
उपनिषत्
ऋतुषु पञ्चविधं सामोपासीत । वसन्तो हिङ्कारो ग्रीष्मः प्रस्तावो वर्षा उद्गीथः शरत् प्रतिहारो हेमन्तो निधनम् ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
॥ ऋतुष्विति ॥ ऋतुषु हेमन्तशिशिरयोरैक्यविवक्षया पञ्चस्वृतुषु स्थितं ऋतत्वात् सर्वशास्त्रावगतत्वाद् ऋतुनामकं पञ्चरूपं साम हरिं पञ्चसामभक्तिप्रतिपाद्यमुपासीत । तद् व्यनक्ति वसन्त इति ॥ वसन्तस्थो वसन्तनामा प्रद्युम्नः हिङ्कार इत्यादि पूर्ववज्ज्ञेयम् । वसन्तादिशब्दनिरुक्तिर्भाष्ये (१) ।। १ ।।
( ऋतुषु भगवदुपासकस्य फलकथनम् )
उपनिषत्
कल्पन्ते हास्मा ऋतव ऋतुमान् भवति य एतदेवं विद्वानृतुषु पञ्चविधं सामोपास्ते ॥ २ ॥ ५ ॥
छान्दोग्योपनिषत्खण्डार्थः
फलमाह – कल्पन्त इति । य एतदित्यादि प्राग्वत् । अस्मै उपासकाय ऋतवो ऋतुगतः पञ्चरूपो भगवानूं कल्पन्ते मोक्षादीन् दातुं शक्तो भवतीत्यर्थः । रूपबाहुल्याद् बहुवचनम् । ऋतुमान् रक्षकत्वेन ऋतुगत- बिष्णुमान् भवतीत्यर्थः || २ || इति पञ्चमः खण्डः ॥
अथ षष्ठः खण्डः
( पशुषु भगवदुपासना)
उपनिषत्
पशुषु पञ्चविधं सामोपासीताजा हिङ्कारोऽवयः प्रस्तावो गाव उद्गीथोऽश्वाः प्रतिहारः पुरुषो निधनं भवन्ति हास्य पशवः पशुमान् भवति य एतदेवंविद्वान् पशुषु पञ्चविधं सामोपास्ते ॥ ६ ॥
छान्दोग्योपनिषत्खण्डार्थः
॥ पशुष्वति । पाति सुखरूपश्वेति पशुनामा तं पञ्चविधपशुषु स्थितं पञ्चसामभक्तिप्रतिपाद्यं पञ्चरूपं साम हरिमुपासीतेति । उक्तं व्यनक्ति अजा इति ॥ अजादिशब्दनिर्वचनं भाष्ये (१) । भवन्ति हास्य पशव इति प्रसिद्धपशव एव ज्ञेयाः । पशुमान् पशुस्थहरिमान् भवतीत्यर्थः || ६ || ।। इति षष्ठः खण्डः ।।
अथ सप्तमः खण्डः
( इन्द्रियेषु भगवदुपासना )
उपनिषत्
प्राणेषु पञ्चविधं परोवरीयः सामोपासीत प्राणो हिङ्कारः वाक्प्रस्तावश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारो मनो निधनं परोवरीयांसि वैतानि परोवरीयो हास्य भवति परोवरीयसो ह लोकान् जयति य एतदेवं विद्वान् प्राणेषु पञ्चविधं परोवरीयः सामोपास्त इति तु पञ्चविधस्य ॥ ७ ॥
छान्दोग्योपनिषत्खण्डार्थः
॥ प्राणेष्विति । परोवरीयः परस्मादुत्तमं परः, ततोऽप्युत्तमं परोवरं, ततोऽप्युत्तमं परोवरीयः अत्युत्तमोत्तमोत्तमं साम हरिमित्यर्थः । प्राणः श्वासवायुस्थः प्रद्युम्नः । एतानि रूपाणि सर्वाण्यपि परोवरीयांसि । वै प्रसिद्धिः । अस्य वेदिनः परोवरीयो ब्रह्म भवति, रक्षकमित्यर्थः । उपसंह-रति- इति तु पञ्चविधस्येति । उपास्तिरुक्तेति शेषः ॥ ७ ॥
॥इति सप्तमः खण्डः ||
अथ अष्टमः खण्डः
( वाक्येषु सप्तविधसामप्रतिपाद्यभगवदुपासना )
उपनिषत्
अथ सप्तविधस्य वाचि सप्तविधं सामोपासीत यत्किञ्च वाचो हुमिति स हिङ्कारो यत्प्रेति स प्रस्तावो यदेति स आदिर्यदुदिति स उद्गीथो यत्प्रतीति स प्रतिहारो यदुपेति स उपद्रवो यन्नीति तन्निधनं दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति य एतदेवं विद्वान् वाचि सप्तविधं सामोपास्ते ॥ ८ ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
अथानन्तरं सप्तविधस्य सप्तविधसामभक्तिवेद्यस्य सप्तरूपस्य हरेरुपास्तिरुच्यत इत्यर्थः । कुत्रेत्यतो वाचि तावदाह - वाचीति । वाचि सप्तविधायां शब्दरूपायां स्थितं सप्तविधं सप्तरूपं सप्तविधवाक्प्रतिपाद्यं साम हरिमुपासीत । कथमित्यतो व्यनक्ति - यत्किञ्श्वेति || वाचः शब्दस्य हुमिति वाग्विशेषः, हुमित्यनेनोपक्रमे निबद्धं यद् वाक्यमिति यावत् । तद्वाक्यबोध्यो यः प्रद्युम्नः स हिमिति सामभक्तिप्रतिपाद्यः । यो हिङ्कारः प्रद्युम्नः स हुमिति शब्दोपबद्धवाक्यबोध्य इति बोद्देश्यविधेयभावो ध्येयः । यत् प्रेति प्रशब्दोपक्रमं वाक्यं तत्प्रतिपाद्यः प्रस्तावप्रतिपाद्यो वासुदेवः । हुमित्युपक्रम्य प्रशब्दश्रवणपर्यन्तं यावद् वाक्यं तावद्धिङ्कारार्थप्रद्युम्नार्थक- मित्युपासीत । तथा प्रेत्युपक्रम्य आ इत्यक्षरपर्यन्तं यावद्वाक्यं तावत् प्रस्तावार्थवासुदेवबोधकमित्येवंरूपेणाग्रे सर्वत्रार्थो ज्ञेयः । यत् आइत वाचः शब्दस्य आ इति वर्णविशेषः तदुपक्रमोपेतवाक्यप्रतिपाद्यः आदिः कल्पादिहेतुत्वाद् वराहात्मा हरिः । यत् उत् इति वाचः शब्दस्य वर्ण- विशेषः तदुपनिबद्धवाक्यविशेषप्रतिपाद्यः उद्गीथो नारायणः । यत्प्रतीति- वाचः सम्बन्धि प्रतीति यत् पदं तदुपक्रमवाक्यबोध्यः प्रतिहाररूप- सामभक्तिप्रतिपाद्योऽनिरुद्धः । यदुपेति वाचः सम्बन्धि पदं तदुपक्रमवाक्य- बोध्यः उपद्रवः दुष्टोपद्रवहेतुतयोपद्रवनामा उपद्रवाख्यसामभक्तिप्रतिपाद्यो नरसिंहः । यत् नीत्यक्षरं नीत्यक्षरोपक्रमोपेतवाक्यं तद्बोध्यो यस्तन्निधनं निधनाख्यसामभक्तिवेद्यः सङ्कर्षण: । दुग्ध इति वाक्यमुक्तार्थमाद्या-ध्यायान्ते ।। १ ।। ८ ।।
॥ इति अष्टमः खण्डः ॥
अथ नवमः खण्डः
( आदित्ये सप्तरूपिभगवदुपासना)
उपनिषत्
अथ खल्वमुमादित्यं सप्तविधं सामोपासीत सर्वदा समस्तेन साम मां प्रति मां प्रतीति सर्वेण समस्तेन साम ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
आदित्यनिष्ठां सप्तविधसामनामकभगवदुपास्तिमाह- अथ खल्विति ।।अथेति विद्यान्तरमुच्यत इत्यर्थः । खलुशब्दः प्रसिद्ध्यर्थः । आदित्यस्थ- मादित्यनामानं सप्तविधं साम सप्तविधसामप्रतिपाद्यं सप्तरूपं भगवन्त- मुपासीत । सामत्वं हरेद्वैधा निरुच्य दर्शयति - सर्वदेति । यतः सर्वदा समरूपस्तेन हेतुना सामेत्युच्यते । किञ्च मां प्रति मां प्रति वर्तत इति सर्वेण लोकेन समः । मां प्रति मां प्रतीति सर्वदृष्टिविषयत्वसाम्यान्मण्डलस्य तत्रत्योऽपि हरिर्मण्डलस्य तादृशसर्वसम्पादकतया सर्वसम इति सामेत्युच्यत इत्यर्थः ॥ १ ॥
( आदित्यस्थभगवन्महिमा )
उपनिषत्
तस्मिन्निमानि सर्वाणि भूतान्यन्वायत्तानीति विद्यात् तस्य यत् पुरोदयात् स हिङ्कारस्तदस्य पशवोऽन्वायत्तास्तस्मात् ते हिङ्कुर्वन्ति हिङ्कारभाजिनो ह्येतस्य साम्नः ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
तस्य सर्वभूताश्रयत्वमहिमानमाह तस्मिन्निति ॥ आदित्यनाम्नि आदित्यस्थे हरौ इमानि प्रमाणसिद्धानि सर्वाणि ब्रह्मादिभूतान्य- न्वायत्तान्याश्रितानीति विद्यात् । सर्वभूतानां तदाश्रयत्वं स्पष्टमाह – तस्य यत् पुरोदयादिति । तस्याऽदित्यस्थस्य आदित्यनाम्नो हरेरुदयाद् यत् पुरा पूर्वकालः तत्रस्थः स हिङ्कारः हिमिति सामभक्तिप्रतिपाद्यः प्रद्युम्नः अस्याऽदित्यनाम्नो हरेः तत् प्रद्युम्नाख्यं रूपं पशवोऽन्वायत्ता आश्रिताः । तस्मादित्युक्तहेतुं व्यनक्ति - हिङ्कारेति । हि यस्मादस्यानुदितादित्य- स्थस्य साम्नो हरेः सम्बन्धि हिङ्कारार्थप्रद्युम्नभाजिनस्तदाश्रयिणस्तस्मात् सुरभ्यादयः पशवो ज्ञानिनो हिकुर्वन्ति हिमिति शब्दं कुर्वन्ति तज्जाति- त्वादाधुनिका अपि पशवस्तथा कुर्वन्तीत्यर्थः । एवमग्रेऽपि ॥ २ ॥
उपनिषत्
अथ यत्प्रथमोदिते स प्रस्तावस्तदस्य मनुष्या अन्वायत्तास्तस्मात् ते प्रस्तुतिकामाः प्रशंसाकामाः प्रस्तावभाजिनो ह्येतस्य साम्नः ॥३॥
छान्दोग्योपनिषत्खण्डार्थः
अथ यत्प्रथमोदिने सूर्ये यत् यः स प्रस्ताव: प्रस्तावार्थवासुदेवः । अस्य प्रथमोदितस्याऽदित्यनाम्नो हरेः तद् वासुदेवाख्यं रूपं मनुष्या अन्वायत्ताः। तस्मादित्यादि प्राग्वद् योज्यम् । प्रस्तुतिकामाः प्रारम्भकामाः प्रशंसा- कामाश्च भवन्तीत्यर्थः । प्रारम्भावतारत्वात् प्रशंसादेवतात्वाच्च वासुदेव- स्येति भावः || ३ ||
उपनिषत्
अथ यत्सङ्गववेलायां स आदिस्तदस्य वयांस्यन्वायत्तानि तस्मात् तान्यन्तरिक्षेऽनारम्भणान्यादायात्मानं परिपतन्त्यादिभाजीनो ह्येतस्य साम्नः ॥ ४ ॥
छान्दोग्योपनिषत्खण्डार्थः
॥ अथ यदिति ॥ सङ्गववेलायां यद् यः स आदिः वराहः अस्य सङ्गववेलागतादित्यनाम्नो हरेः तद् वराहाख्यं रूपं वयांसि पक्षिणः अन्वायत्तानि आश्रितानि । तस्मादादित्यस्य विवरणमादीत्यादि । अनारम्भणानि अनाधारणानि आत्मानं स्वदेहमादाय पतन्ति सञ्चरन्ति सर्वपक्ष्याधारभूतवराहाश्रयत्वादेवेत्यर्थः ॥ ४ ॥
उपनिषत्
अथ यत् सम्प्रति मध्यन्दिने स उद्गीथस्तदस्य देवा अन्वायत्तास्त-स्मात् ते सत्तमाः प्राजापत्यानामुद्गीथभाजिनो ह्येतस्य साम्नः || ५ ||
छान्दोग्योपनिषत्खण्डार्थः
अथ सम्प्रतीदानीं मध्यन्दिनगते सूर्ये यद् यः स उद्गीथः नारायणः तदस्येत्यादि प्राग्वत् । प्राजापत्यानाम् ऋषिगन्धर्वादीनां सकाशादुत्तमा देवा इत्यर्थः । नारायणशब्दार्थत्वेनानन्तगुणपूर्त्या हरेरूपासनादिति भावः ||५ ||
उपनिषत्
अथ यदूर्ध्वं मध्यन्दिनात् प्रागपराह्णात् स प्रतिहारस्तदस्य गर्भा अन्वायत्तास्मात् ते प्रतिहृता नावपद्यन्ते प्रतिहारभाजिनो ह्येतस्य साम्नः ॥ ६ ॥
छान्दोग्योपनिषत्खण्डार्थः
॥ अथ यदूर्ध्वमिति ॥ मध्यन्दिनादूर्ध्वम् अपराह्णात् प्राक् मध्यन्दिनापराह्णमध्यभागगतादित्ये यस्तन्नामा हरिः स प्रतिहारोऽनिरुद्धः । तस्मादित्यादि पूर्ववद् योज्यम् । ते गर्भाः गर्भीभवन्तः पदार्थाः । पितृदेहादन्यत्र मातृदेहे प्रतिहृता नीता अपि नावपद्यन्ते न नश्यन्ति वर्धन्ते च प्रत्युत तत्रेत्यर्थः ॥ ६ ॥
उपनिषत्
अथ यदूर्ध्वमपराह्णात् प्रागस्तमयात् स उपद्रवस्तदस्यारण्या अन्वायत्तास्तस्मात् ते पुरुषं दृष्ट्वा कक्षं श्वभ्रमित्युपद्रवन्त्युपद्रवभाजिनो ह्येतस्य साम्नः ॥ ७ ॥
छान्दोग्योपनिषत्खण्डार्थः
अथ यदूर्ध्वमपराह्णाद् अस्तमयात् प्राक् तन्मध्यभागगतादित्ये यद् यः सः उपद्रवो नरसिंहः । आरण्या अरण्ये भवाः मृगाः । कक्षं क्षुद्रतरुसङ्घः । श्वभ्रं नाम तन्मध्यावकाशः, बिलं वा । पुरुषं दृष्ट्वा भीता मृगाः कक्षश्वभ्रयोः स्थितनरसिंहस्य रक्षकस्याज्ञानेऽपि ताभ्यां रक्षणं मत्वा कक्षं श्वभ्रमिति मत्वा तदुद्दिश्योपद्रवन्ति तत्समीपं गच्छन्ति
|| ७ ||
उपनिषत्
अथ यत्प्रथमास्तमिते तन्निधनं तदस्य पितरोऽन्वायत्तास्तस्मात् तान्निदधति निधनभाजिनो ह्येतस्य साम्न एवं खल्वमुमादित्यं सप्तविधं सामोपास्ते ॥ ८ ॥ ९ ॥
छान्दोग्योपनिषत्खण्डार्थः
अथ प्रथमास्तमिते आदित्ये यद् यः सः निधनं निधनाख्यसाम- भक्तिप्रतिपाद्यः सङ्कर्षणः । एवं सर्वत्र ज्ञेयम् । तान् पितॄन् प्रति निदधति निक्षिपन्ति, पिण्डादीनीति शेषः । एवं खलु उक्तरूपेण खलु सप्तधा स्थितादित्यगतमादित्यनामकं सप्तविधसामभक्तिप्रतिपाद्यं सप्तरूपं सामाख्यं भगवन्तमुपास्ते साधुलोकः । तेन च परमपदं चाप्नोतीति ग्राह्यम् || ८ || ९ ॥
|| इति नवमः खण्डः ॥
|| अथ दशम खण्डः ॥
( सप्तविधसामप्रतिपाद्यभगवत: रूपाणि समानि )
उपनिषत्
अथ खल्वात्मसंमितमतिमृत्यु सप्तविधं सामोपासीत हिङ्कार इति त्र्यक्षरं प्रस्ताव इति त्र्यक्षरं तत्समम् ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
सप्तविधस्य साम्नो हरेः ज्ञानानन्दादिभिर्ब्रह्माद्यसमत्वस्वात्म-रूपसमत्वविषयामुपास्तिमाह अथ खल्वित्यादिना ॥ अथेति विद्या- न्तरमुच्यत इत्यर्थः । खल्विति अस्या विद्यायाः परमपुमर्थहेतुत्वेनात्य- पूर्वार्थत्वेन च प्रसिद्धतोच्यते । आत्मसम्मितम् आत्मना मूलरूपेण सम्मितं समानमेव, न तु ब्रह्मादिसदृशमित्यर्थः । अतिमृत्यु मृत्युमति- क्रान्तम् अमृत्युमिति यावत् । सप्तविधं प्रद्युम्नवासुदेववराह्नारायणा- निरुद्धनरसिंहसङ्कर्षणरूपेण सप्तधा स्थितं सप्तविधसामभक्तिप्रतिपाद्यं सामं भगवन्तमुपासीत । रूपाणां ज्ञानानन्दवलैः समत्वं दर्शयति – हिङ्कार इति त्र्यक्षरमिति ॥ हिङ्कार इति त्रीण्यक्षराणि क्रमाद् ज्ञानानन्दवलवाचीनि । एवमेव प्रस्तावादिपदान्यपि सर्वाणि त्र्यक्षराणि क्रमाद् ज्ञानानन्द- बलवाचीनि । तथा च तत्तत्प्रतिपाद्यरूपाण्यपि ज्ञानानन्दबलैः समान्येवेति भावेन हिङ्कारादिसप्तभक्तीनां त्र्यक्षरत्वेन साम्यमाह - प्रस्ताव इति ॥||१ ||
उपनिषत्
आदिरिति द्व्यक्षरं प्रतिहार इति चतुरक्षरं तत इहैकं तत्समम् ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
आदिरिति वरानाम्नो व्यक्षरत्वेऽप्यनिरुद्धनाम्नः प्रतिहारेत्यतश्चतु- रक्षरात् प्रशब्द आदिनाम्नि योज्यः । तथा च वराहानिरुद्धौ द्वावपि ज्ञानानन्दबलैरक्षरत्रयवाच्यैः समौ भवत इति भावनाऽह - आदिरिति व्यक्षरमिति ॥ ततः प्रतिहारनामत इह आदिनाम्नि एकं प्रेत्यक्षरं योज्यमिति शेषः । तत् नामद्वयं त्रिभिस्त्रिभिर्नारायणनरसिंहवाच्यु- द्गीथोपद्रवेति नामद्वयं समं ज्ञानादिगुणत्रयवाचितया सममित्यर्थः || २ ||
उपनिषत्
उद्गीथ इति त्र्यक्षरमुपद्रव इति चतुरक्षरं त्रिभिस्त्रिभिः समं भवत्यक्षर मतिशिष्यते त्र्यक्षरं तत्समम् ॥ ३ ॥
छान्दोग्योपनिषत्खण्डार्थः
अक्षरं, व इत्यक्षरमतिशिष्यते, अतिरिच्यते तदक्षरं वकाराकार-विसर्गभेदेन त्र्यक्षरात्मकतया ज्ञानानन्दबलवाचि सत् क्षीराब्धिशायिनो नारायणस्याष्टमरूपस्य नामेति तदपीतरनामसममित्यर्थः ॥ ३ ॥
( हिङ्काराद्यक्षरप्रतिपाद्यानि भगवतो द्वाविंशद्रूपाणि )
उपनिषत्
निधनमिति त्र्यक्षरं तत्सममेव भवति तानि ह वा एतानि द्वाविंशतिरक्षराणि ॥ ४ ॥
छान्दोग्योपनिषत्खण्डार्थः
सप्तविधस्य हरेरूपास्त्युक्त्याऽनुषङ्गसिद्धमुपास्त्यन्तरमाह-तानीति । सप्तविधमपि हरे रूपं प्रत्येकं त्रिविधं सद् एकविंशतिर्भवति, क्षीराब्धि- शायी चैक इति द्वाविंशतिर्मूर्तयः । तथा च तानीत्यादेरयमर्थः । तान्येतानि हिङ्कारादीन्यक्षराण्युक्तविधया द्वाविंशतिसंख्याकानीति द्वाविंशतिमूर्ति -वाचकानि । हवै प्रसिद्धमिति ||४ ||
( एकविंशद्वाविंशमूर्क्युपास्तिफलम् )
उपनिषत्
एकविंशत्याऽऽदित्यमाप्नोत्येकविंशो वा इतोऽसावादित्यो द्वाविंशेन परमादित्याज्जयति तन्नाकं तद्विशोकम् ॥ ५ ॥
छान्दोग्योपनिषत्खण्डार्थः
तत्रैकविंशद्वाविंशमूर्त्यपास्त्योः फलमाह – एकविंशत्येति ।। नमित्ये- कविंशाक्षरेण तद्वाच्यकल्किसङ्कर्षणाख्यरूपोपासनयेति यावत् । आदि- त्यमादित्यस्थमादित्यनामानं कल्किसङ्कर्षणाख्यं रूपमाप्नोतीत्यर्थः ।एकविंशत्युपास्त्या कथमादित्यस्य प्राप्तिरित्यतः उपास्यरूपसाम्यादित्या- ह - एकविंशो वा इति ॥ इतः पृथिव्यां स्थितरूपापेक्षयाऽसावादित्य एकविंशो वै । द्वाविंशेन व इत्यक्षरेण, व इति द्वाविंशाक्षरवाच्यक्षीराब्धि- शायिहर्युपासनयेति यावत् । आदित्याद् आदित्यस्थरूपात् परमन्यत् क्षीराब्धिशायि रूपं जयति प्राप्नोति । उपलक्षणमेतत् । इतरविंशत्यक्षर- वाच्यविंशतिरूपोपासनया तानि रूपाण्याप्नोतीत्यपि ग्राह्यम् ||
(तत्तदक्षरवाच्यतत्तद्गततत्तद्रूपोपासनया तत्तनिष्ठभगवद्रूप-प्राप्तिरूपफलयोजनम् )
इदमत्र ज्ञातव्यम् | हिङ्कार इत्यारभ्य निधनमित्यन्तानि सप्तभक्त्यक्ष-राण्युक्तदिशा एकैकभक्तेः त्रित्र्यक्षरत्वेनैकविंशत्यक्षराणि । अतिरिच्य- मानं व इत्येकमक्षरं द्वाविंशम् । सप्तभक्तिप्रतिपाद्यानि प्रद्युम्न वासुदेव- वराहनारायणानिरुद्धनरसिंहसङ्कर्षणभेदेन सप्तरूपाणि । तत्राऽद्यानि चत्वारि रूपाणि केशवादिदामोदरान्तद्वादशात्मना प्रत्येकमेकैकं रूपं क्रमात् त्रेधा त्रेधा भिन्नानि भूत्वा चतुर्भक्तिगतहिमादिप्रेत्यन्तद्वादशाक्षर- प्रतिपाद्यानि केशवप्रद्युम्न - नारायणप्रद्युम्न माधवप्रद्युम्न - गोविन्दवासुदेव- विष्णुवासुदेव- मधुसूदनवासुदेव- त्रिविक्रमवराह- वामनवराह-श्रीधरवराह- हृषीकेशनारायण- पद्मनाभनारायण दामोदरनारायणेत्या-ख्यायमानानि चैत्रादिफाल्गुनान्तेषु द्वादशमासेषु तिष्ठन्ति । प्रतिहारोपद्रव - निधनरूपावशिष्टसामभक्तित्रयप्रतिपाद्यान्यनिरुद्धनरसिंहसङ्कर्षण- रूपाणि बुद्धं हित्वा मत्स्यादिकल्क्यन्तनवरूपात्मना प्रत्येकं त्रेधा त्रेधा भिन्नानि भूत्वा क्रमाद् हीतीत्यादिनमित्यन्ताक्षरनवकेनोच्यमानानि मत्स्यानिरुद्ध-कूर्मानिरुद्ध बराहानिरुद्ध- नरसिंहनरसिंह-वामननरसिंह- भार्गवनरसिंह-रामसङ्कर्षण-कृष्णसङ्कर्षण-कल्किसङ्कर्षणेत्याख्याय- मानानि सन्ति । हेमन्तशिशिरयोरैक्येन क्रमाद् वसन्तादिऋतुपञ्चके पृथिव्यन्तरिक्षघुसूर्येषु तिष्ठन्तीति । एवं च सत्यादित्यस्थो नमित्येकविंशा- क्षरार्थः कल्किसङ्घर्षणः पृथिवीमासऋत्वन्तरिक्षद्युलोकापेक्षया एकविंशो भवति । ‘द्वादशमासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंश: ' इति श्रुतेः । केशवादिरूपेण ललाटादिषु स्थितेरिति एकविंश इति वा । अतिरिक्तं व इत्यक्षरं तु द्वाविंशमिति तदर्थभूत क्षीराब्धिगतरूपोपासनया तु क्षीराब्धिगतप्राप्तिरिति । एवं तत्तदक्षरवाच्यतत्तद्गततत्तद्रूपोपासनया तत्तन्निष्ठरूपप्राप्तिर्भवतीति ॥ द्वाविंशतिरूपजातस्य महिमानमाह - तदिति ॥ तद् द्वाविंशति- रूपजातम् असुखवर्जनात् पूर्णानन्दस्वरूपत्वाद्वा नाकमिति भक्तानां शोकनाशनाद विशोकमिति चोच्यते ॥ ५॥
उपनिषत्
आप्नोतीहादित्यस्य जयं परो हास्यादित्यजयाज्जयो भवति य एतदेवं विद्वानात्मसंमितमतिमृत्यु सप्तविधं सामोपास्ते सामोपास्ते ॥ ६ ॥ १० ॥
छान्दोग्योपनिषत्खण्डार्थः
ननु तत्तद्रूपोपासनया तत्र तत्र स्थितरूपप्राप्त्युक्तौ तत्तद्रूपाणां स्वस्वप्राप्तिमात्रदातृत्वप्राप्त्या रूपेषु गुणानां व्यवस्थितत्वात् कथं सर्वरूपाणामात्मसम्मितत्वोक्तिरित्याशङ्कां परिहरन्नुपासकस्य फलमाह - आप्नोतीत्यादिना ॥ योऽधिकारी एतत् सर्वसन्निहितं द्वाविंशतिभेद- भिन्नरूपजातमिति वा एवं द्वाविंशत्यक्षरवेद्यत्वरूपेण विद्वान् जानन् आत्मसम्मितमतिमृत्यु सप्तविधं प्रद्युम्नादिसप्तरूपं साम सप्तविध- भक्त्युपेतसामप्रतिपाद्यं हरिमुपास्ते, स इति शेषः । स उपासकः इह पृथिव्यादिस्थितभार्गवादिभगवद्रूपमाप्नोति । तत्प्राप्त्या चाऽदित्यस्याs- दित्यस्थस्याऽदित्यनाम्नः, कल्किसङ्कर्षणाख्यरूपस्येति यावत् । जयं प्राप्तिं ह्याप्नोति लभते, रूपाणामैक्यात् । आदित्यस्याऽदित्यस्थस्य उक्तरूप- हरेर्जयात् प्राप्त्या अस्योपासकस्य परो जयः पृथिव्यादिस्थितरूपान्तरजयो भवति रूपाणामैक्यादेव । अतो नाऽत्मसम्मितत्वोक्त्ययुक्तिरिति भावः । द्विरुक्तिरुक्तार्थे तात्पर्यज्ञप्त्यर्था || ६ ||
।। इति दशमः खण्डः ।।
अथ एकदशः खण्डः
( गायत्रसामप्रतिपाद्यभगवदुपासना)
उपनिषत्
मनो हिङ्कारो वाक् प्रस्तावश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारः प्राणो निधनमेतद्गायत्रं प्राणेषु प्रोतं स य एवमेतद्गायत्रं प्राणेषु प्रोतं वेद प्राणी भवति सर्वमायुरेति ज्योग्जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्या महामनाः स्यात् तद् व्रतम् ॥ ११ ॥
छान्दोग्योपनिषत्खण्डार्थः
पूर्वं सामविशेषनामोक्तिं विना पञ्चविधसप्तविधसामभक्तिप्रतिपाद्यस्य हरेरुपास्तिरुक्ता । अधुना सामविशेषनामोक्तिपूर्वं पञ्चविधतत्तद्भक्ति- प्रतिपाद्यस्य हरेरुपास्तिम्, ऐहिकामुष्मिकफले, तद्व्रतं चाऽह मन इत्याद्येकादशपर्वभिः । तत्र गायत्रसामनिष्ठामुपास्तिमाह – मन इति ।। मनस्थं मनोनामकं हिङ्कारः हिमित्याक्रियत इति हिङ्काराख्यप्रथम- भक्तिप्रतिपाद्यः प्रद्युम्नः । एवमग्रेऽपि सर्वत्र योजना | वाक् वाङ्नामा प्रस्तावः वासुदेवः । चक्षुश्रक्षुस्थ: चक्षुर्नामा उद्गीथः नारायणः । श्रोत्रं श्रोत्रस्थः श्रोत्रनामकः प्रतिहारोऽनिरुद्धः । प्राणः प्राणस्थः प्राणनामा निधनं सङ्कर्पण: एतत् प्राणस्थविष्णुवाचितया तत् सन्निहितं गायत्रारत्र्यं साम प्राणेषु प्राणस्थ प्राणनाम्नि हरी प्रोतं तद्वाचकं तन्नियम्यं चेत्यर्थः । ज्ञानिनः फलमाह - स य इति । योऽधिकारी एवमित्यस्य विवरणमेत-दित्यादि । यद्वा, हिङ्कारादिपञ्चभक्तिभिर्मनःप्रभृतिपञ्चस्थानगतप्रद्युम्नादि- भगवद्रूपप्रतिपादकत्वादिप्रकारंणतद्वायत्रं प्राणेषु प्राणस्थहरी प्रीतं तद्वाचकं तन्नियम्यं चेति वेद, स वेदी प्राणी भवति प्राणस्थप्राणनामक- विष्णुलाल्यतया तद्वान् भवति, सर्वमायुर्मोक्षमेति । ऐहिकफलमाह-ज्योक् स्वयोग्यसर्ववित् सञ्जीवतीत्यादि । तस्य व्रतमाह महामना इति ॥ गायत्रसामवेदिनो महामनस्त्वं व्रतमित्यर्थः ।। ११ ।। इति एकादशः खण्डः।।
अथ द्वादशः खण्डः
( रथन्तरसामप्रतिपाद्यभगवदुपासना)
उपनिषत्
अभिमन्थति स हिङ्कारो धूमो जायते स प्रस्तावो ज्वलति स उद्गीथोऽङ्गारा भवन्ति स प्रतिहार उपशाम्यति तन्निधनं संशाम्यति तन्निधनमेतद्रथन्तमग्नौ प्रोतम् ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
रथन्तरसामप्रतिपाद्यभगवदुपास्तिमाह अभीति । यो हिङ्कारः प्रद्युम्नः सः अभिमन्धति अरणिमथनगतः । प्रस्तावो वासुदेवो यः सः धूमो जायते जायमानधूमगतः । उद्गीथो नारायणो ज्वलति ज्वालागतः । प्रतिहारोऽनिरुद्धोऽङ्गारावस्थापन्नवह्निगतः । निधनं सङ्कर्षणः उपशम- संशमशब्दितसावशेषनाशनिश्शेषनाशोभयगतः ।एतद् अग्रिस्थहरि- वाचितया तत्समीपस्थं रथन्तराख्यं सामाग्नौ अग्निस्नान होतं तद्वाचकं तन्नियम्यं चेत्यर्थः ॥१॥
उपनिषत्
स य एवमेतद्रथन्तरमग्नौ प्रोतं वेद ब्रह्मवर्चस्व्यन्नादो भवति सर्वमायुरेति ज्योग्जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्या न प्रत्यङ्ग्ङग्निमाचामेन्न निष्ठीवेत् तद् व्रतम् ॥ २ ॥ १२ ॥
छान्दोग्योपनिषत्खण्डार्थः
स य इत्यादिफलवाक्यं प्राग्वत् । एतत्सामार्थवेदिनो व्रतमाह न प्रत्यञ्चमग्निमिति ।। अग्र्यभिमुखतया नाञ्चामेत् न निष्ठीवेत् किञ्चित् प्रत्यपि श्लेष्मनिरसनं न कुर्यात् । प्रत्यचमग्निं न निष्ठीवेदिति वा ।। २ ।।
।। इति द्वादश: खण्ड: ।।
अथ त्रयोदशः खण्डः
( वामदेव्यसामप्रतिपाद्यभगवदुपासना )
उपनिषत्
उपमन्त्रयते स हिङ्कारो ज्ञपयते स प्रस्तावः स्त्रिया सह शेते स उद्गीथः प्रतिस्त्री सह शेते स प्रतिहारः कालं गच्छति तन्निधनं पारं गच्छति तन्निधनमेतद्वामदेव्यं मिथुने प्रोतम् ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
वामदेवसामार्थविष्णूपास्तिमाह - उपेति ॥ उपमन्त्रयते रन्तुं सम्भाषते ज्ञपयते सुखमनुभवति । स्त्रिया सह शेते एकपर्यङ्कगमनम् । प्रतिस्त्री सह शेते मैथुनकरणम् । कालं गच्छति पारं गच्छति मैथुनसमाप्तिगमनम् । मिथुने मिथां नयतीति व्युत्पत्त्या मिथुननाम्नि हरौ ॥ १ ।।
उपनिषत्
स य एवमेतद्वामदेव्यं मिथुने प्रोतं वेद मिथुनीभवति मिथुनान्मिथुनात् प्रजायते सर्वमायुरेति ज्योग्जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्या न काञ्चन परिहरेत् तद् व्रतम् ॥ २ ॥१३॥
छान्दोग्योपनिषत्खण्डार्थः
मिथुनी मिथुननामक विष्णुलाल्यत्वात् तद्वान् भवति । मिथुन मिथुनस्थितभगवतः सकाशात् प्रजायते प्रकृष्टो जायते कर्मवशादनेकस्त्री- परिग्रहे सति तासु काञ्चन न परिहरेत् तद् व्रतम् || २ ||
|| इति त्रयोदशः खण्डः ॥
अथ चतुर्दशः खण्डः
(बृहत्सामप्रतिपाद्यभगवदुपासना )
उपनिषत्
उद्यन् हिङ्कारः उदितः प्रस्तावो मध्यन्दिन उद्गीथोऽपराह्णः प्रतिहारोऽस्तं यन्निधनमेतद्बृहदादित्ये प्रोतं स य एवमेतद्बृहदादित्ये प्रोतं वेद तेजस्व्यन्नादो भवति सर्वमायुरेति ज्योग्जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्या तपन्तं न निन्देत् तद् व्रतम् ॥ १४ ॥
छान्दोग्योपनिषत्खण्डार्थः
बृहत्सामवेद्यभगवदुपास्तिमाह उद्यन्निति ।। उदयं प्राप्नुवन् आदित्ये(?) स्थितहिङ्काराख्यः प्रद्युम्नः । आदित्यस्यैकत्वेऽप्युदयाद्यवस्था- भेदाद् भेदः । मध्यन्दिनो मध्यन्दिनगतः । अपराह्नोऽपराह्णगतः । अस्तं यन् प्राप्नुवन् बृहद् बृहदाख्यं साम । उदयाद्यवस्थाभेदेन पञ्चधा भिन्नादित्यस्थे आदित्यनाम्नि प्रद्युम्नादिपञ्चधा भिन्ने प्रोतम् । बृहत्सामनिष्ठस्य व्रतमाह - तपन्तं न निन्देदिति । इति चतुर्विंश: खण्ड: ।।
अथ पञ्चदशः खण्डः
( वैरूपसामप्रतिपाद्यभगवदुपासनम् )
उपनिषत्
अभ्राणि सम्प्लवन्ते स हिङ्कारो मेघो जायते स प्रस्तावो वर्षति स उद्गीथो विद्योतते स्तनयति स प्रतिहार उद्गृह्णाति तन्निधनमेतद्वैरूपं पर्जन्ये प्रोतं स य एवमेतद्वैरूपं पर्जन्ये प्रोतं वेद विरूपांश्च सुरूपांश्च पशूनवरुन्धे सर्वमायुरेति ज्योग्जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्या वर्षन्तं न निन्देत् तद् व्रतम् ॥ १५ ॥
छान्दोग्योपनिषत्खण्डार्थः
वैरूपाख्यसामवेद्यभगवदुपास्तिमाह अभ्राणीति ।। सम्प्लवन्ते इतस्ततः सञ्चरन्ति इतस्ततो मेघसञ्चरणक्रियाहेतुस्तन्निष्ठो हिङ्कारार्थप्रद्युम्न इत्यादिरर्थो ध्येयः । मेघो जायते वर्षानुकूलतया जायते । विद्योतत इति विद्युत्स्तनयित्नुभयगतः । उद्गृह्णाति वर्षमुपसंहरतीत्यर्थः । पर्जन्ये पर्जन्यस्थे पर्जन्यनाम्नि विरूपानजाविप्रभृतीन् सरूपानेकजातीयान् गवादीनवरुन्धे प्राप्नोति || १ || इति पञ्चदशः खण्डः ।।
अथ षोडशः खण्डः
( वैराजसामप्रतिपाद्यभगवदुपासनम् )
उपनिषत्
वसन्तो हिङ्कारो ग्रीष्मः प्रस्तावो वर्षा उद्गीथः शरत् प्रतिहारो हेमन्तो निधनमेतत् वैराजमृतुषु प्रोतं स य एवमेतद्वैराजमृतुषु प्रोतं वेद विराजति प्रजया पशुभिर्ब्रह्मवर्चसेन सर्वमायुरेति ज्योग्जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्या ऋतून् न निन्देत् तद् व्रतम् ॥ १६ ॥
छान्दोग्योपनिषत्खण्डार्थः
वैराजाख्यसामवेद्यहर्युपास्तिमाह वसन्त इति ।। हेमन्त- शिशिरयोरैक्येनाऽह – हेमन्त इति ॥ ऋतुषु ऋतुस्थिते ऋतुनानि । बहुरूपत्वाद् बहुवचनम् ।। १६ ।। इति षोडशः खण्डः ।।
अथ सप्तदश: खण्ड:
(शकरीसामप्रतिपाद्यभगवदुपासनम् )
उपनिषत्
पृथिवी हिङ्कारोऽन्तरिक्षं प्रस्तावो द्यौरुद्गीथो दिशः प्रतिहारः समुद्रो निधनमेताः शक्वर्यो लोकेषु प्रोताः स य एवमेताः शक्वर्यो लोकेषु प्रोता वेद लोकीभवति सर्वमायुरेति ज्योग्जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्या लोकान्न निन्देत् तद् व्रतम् ॥ १७ ॥
छान्दोग्योपनिषत्खण्डार्थः
शक्कर्याख्यसामवेद्यहर्युपास्तिमाह पृथिवी हिङ्कार इति ॥ देशनादाज्ञापनाद् दिशो दिङ्नामा दिग्गतः प्रतिहारोऽनिरुद्धः समुद्रेकाद् गुणैः समृद्धत्वात् समुद्रनामा समुद्रस्थः । एताः शक्कर्य शक्कर्यारत्र्यं साम । बहुवचनं रेवत्य इव शब्दस्वाभाव्यात् । लोकेषु प्रकाशरूपतया लोकनाम्नि लोकस्थे हरौ | बहुवचनं प्राग्वत् । लोकस्थलोकनामकहरिलाल्यत्वात् तद्वान् भवतीत्यर्थः ।। १ ।। १७ ।। इति सप्तदशः खण्डः ।।
अथ अष्टादश: खण्ड:
( रेवतीसामप्रतिपाद्यभगवदुपासनम् )
उपनिषत्
अजा हिङ्कारोऽवयः प्रस्तावो गाव उद्गीथोऽश्वाः प्रतिहारः पुरुषो निधनमेता रेवत्यः पशुषु प्रोताः स य एवमेता रेवत्यः पशुषु प्रोता वेद पशुमान् भवति सर्वमायुरेति ज्योग्जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्या पशून्न निन्देत् तद् व्रतम् ॥ १८ ॥
छान्दोग्योपनिषत्खण्डार्थः
रेवत्याख्यसामवेद्यहर्युपास्तिमाह-अजा इति ॥ पशुषु पशुनामके पशुगते पञ्चात्मनि हरौ ' रेवत्यः' इति बहुवचनं शब्दस्वाभाव्यात् ॥१८॥
अथ एकोनविंशः खण्डः
( यज्ञायज्ञीयसामवैद्यभगवदुपासनम् )
उपनिषत्
लोम हिङ्कारस्त्वक् प्रस्तावो मांसमुद्गीथोऽस्थि प्रतिहारो मज्जा निधनमेतद्यज्ञायज्ञीयेषु प्रोतं स य एवमेतद्यज्ञायज्ञीयमङ्गेषु प्रोतं वेदाङ्गीभवति नाङ्गेन विमूर्च्छति सर्वमायुरेति ज्योग्जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्या संवत्सरं मज्ज्ञो नाश्नीयात् तद् व्रतं मज्ज्ञु नाश्नीयादिति वा ॥ १९ ॥
छान्दोग्योपनिषत्खण्डार्थः
यज्ञायज्ञीयाख्यसामवेद्यर्युपास्तिमाह – लोमेत्यादिना ।। लोपकत्व-.हेतुना लोमनामा लोमस्थः । तवः शब्दितप्रकाशरूपत्वहेतुना त्वङ्नामा त्वचि स्थितः । मादनात् साररूपत्वान्मांसनामा मांसस्थः । स्थिरमासनाद्
Iउपवेशनाद् अस्थिनामाऽस्थिगतः । मदस्य जननात् मज्जानामा मज्जागतः । अङ्गेषु अङ्गगतत्वहेतुना देहावयवभूताङ्गस्थेऽङ्गनाम्नि हरौ अङ्गस्थ - विष्णुमानिति हेतोरङ्गी भवतीत्यर्थः । अङ्गेनाङ्गस्थेन हरिणा तत्प्रसादेनेति यावत् । न विहूर्च्छति कुटिलाङ्गवान्न भवति । मज्ञ इति द्वितीयाबहुवचनं मांसविशेषानित्यर्थः । मनु मांसविशेषं कदाऽपि नाश्नीयादित्यर्थः ।। १९ ।। इति एकोनविंशः खण्डः ।।
अथ विंश: खण्ड:
( राजनसामप्रतिपाद्यभगवदुपासनम् )
उपनिषत्
अग्निर्हिङ्कारो वायुः प्रस्ताव आदित्य उद्गीथो नक्षत्राणि प्रतिहारश्चन्द्रमा निधनमेतद्राजनं देवतासु प्रोतं स य एवमेतद्राजनं देवतासु प्रोतं वेदैतासामेव देवतानां सलोकातां सार्ष्टितां सायुज्यं गच्छति सर्वमायुरेति ज्योग्जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्या ब्राह्मणान्न निन्देत् तद् व्रतम् ॥ २० ॥
छान्दोग्योपनिषत्खण्डार्थः
राजनाख्यसामवेद्यनिष्ठोपास्तिमाह-अग्रिरिति ॥ अदनादग्नि- नामाऽग्निस्थः वानाद् ज्ञानादायुष्ट्वाच्च वायुनामा वायुस्थः स्वातन्त्र्यहेतुना नक्षत्रनामा नक्षत्रस्थः परमानन्दत्वाचन्द्रनामा चन्द्रस्थः देवतासु देवतास्थे हरौ सार्ष्टितां सामीप्यम् ।। २० ।। इति विंशः खण्डः ।।
अथ एकविंशः खण्डः
( इतरसर्वसामप्रतिपाद्यभगवदुपासनम् )
उपनिषत्
त्रयी विद्या हिङ्कारस्त्रय इमे लोकाः स प्रस्तावोऽग्निर्वायुरादित्यः स उद्गीथो नक्षत्राणि वयांसि मरीचयः स प्रतिहारः सर्पा गन्धर्वाः पितरस्तन्निधनमेतत् साम सर्वस्मिन् प्रोतं स य एवमेतत्साम सर्वस्मिन् प्रोतं वेद सर्वं ह भवति ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
सर्वाख्यसामवेद्यभगवदुपास्तिमाह त्रयीत्यादिना ॥ ज्ञानरूपत्व-हेतुना त्रयीविद्यानामा त्रय्यां विद्यायां स्थितः इमे लोकाः प्रकाशरूपतया लोकनामा लोकस्थः प्रागुक्तनिरुक्त्याऽग्निवाय्वादित्यस्थः । विशब्दार्था- काशे अयनाद् वयोनामा वयः शब्दितपक्षिषु स्थितः । प्रमितरुक्त्वा- न्मरीचिनामा मरीचिस्थितः । सर्पणहेतुना गोधरत्वहेतुना सृष्टिहेतुत्वहेतुना च सर्पगन्धर्वपितृनामा सर्पादिस्थः । एतत् सर्वं सर्वाख्यं साम सर्वस्मिन् सर्वाख्यसाम्नि स्थिते सर्वगुणपूर्णे हरौ । स्वयोग्यसर्वपूर्तिमान् भवतीति भावेन सर्वं हि भवतीति फलोक्तिः ।। १ ।।
( उक्तार्थे मन्त्रकथनम् ).
उपनिषत्
तदेष श्लोको यानि पञ्चधा त्रीणि त्रीणि तेभ्यो न ज्यायः परमन्यदस्ति । यस्तद्वेद स वेद सर्वं सर्वा दिशो बलिमस्मै हरन्ति । सर्वमस्मीत्युपासीत तद् व्रतं तद् व्रतम् ॥ २ ॥ २१ ॥
छान्दोग्योपनिषत्खण्डार्थः
उक्तार्थे मन्त्रं पठति – तदेष इति । तत् तत्र यानि हिङ्काराद्यर्थंभूतानि पञ्चविधप्रद्युम्नादिपञ्चरूपाणि प्रत्येकम् ऋगादित्रित्रिस्थानभेदेन त्रिधा त्रिधा स्थिततया त्रीणि त्रीणि वर्तन्ते तेभ्यो भगवद्रूपेभ्यः परं ज्यायोऽन्यन्नास्ति त्रयीविद्यादिपञ्चवर्गेभ्यो ज्यायः श्रीतत्त्वमस्तीति परं ज्याय इत्युक्तम् । परं ज्यायो भगवद्रूपमेव, नान्यदिति भावः । यस्तत् परमज्यायो भगवद्रूपं नान्यदित्येतद् वेद स सर्वं वेद सर्ववेदप्रमेयस्य ज्ञानादिति भावः । सर्वाः दिश: सर्वदिगवस्थिताः प्रजा: बलिं पूजामस्मै ज्ञानिने हरन्ति । सर्वाख्यसामोपासकस्य व्रतमाह- सर्वमिति || असनात् मितिरूपत्वादस्मीत्युक्तं भगवद्रूपं सर्वं परिपूर्णमित्युपासीत तद् व्रतम् । द्विरुक्तिस्तात्पर्यज्ञप्त्यर्था || २ ||
।। इति एकविंशः खण्डः ।।
अथ द्वाविंशः खण्डः
( सामगानस्य ध्वनिप्रभेदाः )
उपनिषत्
विनर्दि साम्नो वृणे पशव्यमित्यग्नेरुद्गीथोऽनिरुक्तः प्रजापतेर्निरुक्तः सोमस्य मृदु श्लक्ष्णं वायोः श्लक्ष्णं बलवदिन्द्रस्य क्रौञ्चं बृहस्पतेरपध्वान्तं वरुणस्य तान् सर्वानेवोपसेवेत वारुणं त्वेव वर्जयेत् ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
सामनाम्नो हरेर्व्यस्तसमस्तसामोपास्तिरुक्ता । तत्र साम्न उद्गानप्रकारं सप्रभेदमाह– विनर्दीत्यादिना ।। साम्नः सामनाम्नो हरेः विनर्दि गानप्रकारं, विशिष्टी नद नादोऽस्यास्तीति विनर्दि, विशिष्टनादोपेतं गानम् । सपादैकवर्षंवृषभस्वस्वद् वा मेघस्वरवद् वा स्थिरस्वरोपेतं सामनाभ - भगवत्कर्तृकं बिनर्दिशब्दितं गानमहं वृणे । तादृशस्वरोपेतमेव सामगानं कुर्यामित्यृपेर्वाक्यम्, उद्गातुर्वा । तादृशस्वरस्यैव सर्वोत्तमत्वात् तादृशस्वरे-
वोद्गाता साम गायेदिति भावः । तादृशस्वराशक्तौ स्वरान्तरेण गातव्य- मिति भावेन तत्प्रभेदानाह - पशव्यमित्यादिना || पशव्यमित्यः । अग्नेरुद्गीथ उद्गानं पाव्यमिति । इतिशब्दः प्रकारवाची । स्त्रीपशुसम्बन्धि- स्वरप्रकारमित्यर्थः । प्रजापतेर्ब्रह्मण उद्गीथ उद्गानम् अनिरुक्तः अनुपमो गम्भीर इत्यर्थः । सामस्योद्गीथः निरुक्तः साक्षात् घण्टानिनादवत् । वायोरुद्गीथः मृदु श्लक्ष्णं, मृदु मेघस्वरवत् विंशतिवर्षवृषभस्ववद्वा । इन्द्रस्योद्गीथः श्लक्ष्णं बलवत् तीव्रमेघगर्जनवत् । ब्रहस्पतेः क्रौञ्चपक्षि- स्वरत्रद् उद्गीथः । वरुणस्याद्गीथः अपध्वान्तं विस्वरः । तान् सर्वानेवोपसेवेत एतैः सर्वैरपि स्वरैर्गायदिति यावत् । वारुणं त्वेत्रापस्वरं वर्जयेत् ।। १ ।।
उपनिषत्
अमृतत्वं देवेभ्य आगायानीत्यागायेत् स्वधां पितृभ्य आशां मनुष्येभ्यस्तृणोदकं पशुभ्यः स्वर्गं लोकं यजमानायान्नमात्मन आगायानीत्येतानि मनसा ध्यायन्नप्रमत्तः स्तुवीत ॥ २
छान्दोग्योपनिषत्खण्डार्थः
गाने इतिकर्तव्यतामाह- अमृतत्वमित्यादिना ॥ ' इति मनसा ध्यायन्' इति सर्वत्रान्वेति । मुख्यवायुश्चेदुद्गाता सः देवेभ्योऽमृतत्वं मुक्तिमागायानि गानेन साधयामीति मनसा ध्यायन् साम गायेत् । तथा गाने हि स्वस्यापि देवान्तर्भावान्मुक्तिसिद्धिरिति भावः । मुख्यवायुतोऽ- न्यचेदुद्गाता समद्धृदिस्थो वायुः देवेभ्यः अमृतत्वमागायतीति मनसा ध्यायन् गायेदित्यर्थः । एवमग्रेऽपि । पितृभ्यः स्वधां श्राद्धादिभाग- मुद्दिश्याऽगायानीति मनसा ध्यायन्नागायेदित्यनुषङ्गः । मनुष्येभ्य आशाम् आशासितम्, इष्टमिति यावत् । पशुभ्यः तृणोदकमिति द्वन्द्वैकवद्भावः । आगायानीति मनसा ध्यायन्नागायेदित्यन्वेति । आत्मने स्वस्मै प्राणस्थ- विष्णवे । प्राण एव चेदुद्गाता तदा स्वात्मगतविष्णवेऽन्नगानेऽर्थात् स्वस्यान्नभुजिर्भवति । प्राणादन्यश्चेत् स्वगतमुख्यवायुस्थ विष्णवेऽन्नगाने स्वस्याप्यन्नभुजिरर्धसिद्धेति ज्ञेयम् । एतानि अमृतत्वमागायानीत्या- तानि । यद्वा " सर्वे स्वराः" इत्यादिना वक्ष्यमाणानि मनसा ध्यायन् अप्रमत्तः प्रमादहीनः स्तुवीत सामोपेतर्भिः स्तोत्रं कुर्यात् ॥ २ ॥
( सामगानकालीनानुसन्धानकथनम् )
उपनिषत्
सर्वे स्वरा इन्द्रस्यात्मनः सर्व ऊष्मणः प्रजापतेरात्मानः सर्वे स्पर्शा मृत्योरात्मानस्तं यदि स्वरेषूपालभेतेन्द्रं शरणं प्रपन्नोऽभूवं स त्वा प्रतिवक्ष्यतीत्येनं ब्रूयात् ॥ ३ ॥
छान्दोग्योपनिषत्खण्डार्थः
ध्यायन्नित्युक्तध्येयान्याह सर्व इति । सर्वे स्वराः अकाराद्यज्वर्णाः, इन्द्रस्य इदं रातीति व्युत्पत्त्या वायोरात्मनः अधिष्ठानभूताः । सर्वे ऊष्माणः शषसहाः, प्रजापतेः प्रजाः पातीति प्रजापतिनाम्नो विष्णोः आत्मानः विष्णुस्वामिकाः । सर्वे स्पर्शाः ककारादिमावसानाः पञ्चवर्गगा वर्णाः मृत्योर्मारियितृत्वहेतुना मृत्युनाम्नो रुद्रस्याऽत्मानः । अस्खलितेष्वपि स्वरादिषु केनचिदसुरवर्गेणोपालम्भे कृते वक्तव्यमाह - तं यदीति ॥ तं सम्यक् स्वरानुच्चारयन्तं यदि कश्चिदसुरस्वभावः स्वरविषये उपालभेत निन्द्यात् तदति शेषः । इन्द्रम् इन्द्रशब्दितं वायुं शरणं रक्षकं प्रपन्नः प्राप्तोऽभूवम् । स इन्द्राख्यो बायुः त्वा त्वां प्रति वक्ष्यति प्रत्युत्तरं दास्यतीत्यनं निन्दकं ब्रूयात् ॥ ३ ॥
उपनिषत्
अथ यद्येनमूष्मसूपालभेत प्रजापतिं शरणं प्रपन्नोऽभूवं स त्वा प्रतिपेक्ष्यतीत्येनं ब्रूयादथ यद्येनं स्पर्शेषूपालभेत मृत्युं शरणं प्रपन्नोऽभूवं स त्वा प्रतिवक्ष्यतीत्येनं ब्रूयात् ॥ ४ ॥
छान्दोग्योपनिषत्खण्डार्थः
एवमूष्मशब्दितवर्णानुच्चारयन्तमूष्मसु विषये । प्रजापतिं विष्णुं स प्रजापतिः त्वा त्वां प्रतिपेक्ष्यति पिष्टं करिष्यति । एनं निन्दकम् । स्पर्शेषु विषये । मृत्युं रुद्रं, स त्वा त्वाम् प्रतिधक्ष्यति भस्मसात् करिष्यति ।। ४ ।।
उपनिषत्
सर्वे स्वरा घोषवन्तो बलवन्तो वक्तव्या इन्द्रे बलं ददानीति सर्वे ऊष्माणोऽग्रस्ता अनिरस्ता विवृत्ता वक्तव्याः प्रजापतेरात्मानं परिददानीति सर्वे स्पर्शा लेशेनानभिहिता वक्तव्या मृत्योरात्मानं परिहराणीति ॥ ५ ॥ २२ ॥
छान्दोग्योपनिषत्खण्डार्थः
स्वरादेरिन्द्राद्यात्मतोक्तेः कृत्यमाह - सर्व इति ।। अकारादयः सर्वे स्वराः इन्द्रे ऐश्वर्यादिन्द्रनामके वायौ बलं ददानीति । मनसा ध्यायन् स्वरवन्तः ध्वनिविशेषयुक्ताः बलवन्तो विवृताख्यप्रयत्नवन्तो वक्तव्याः । उद्गातुर्वायुतत्वे तु वायुपदयोग्यानां बहुत्वाद् यजमानभूतवायुपदयोग्यस्य विष्णुतो मुक्तिदानमेव बलदानं ज्ञेयम् । प्रजापतेर्विष्णोरात्मानं स्वात्मान परिददानि समर्पये इति ध्यायन् सर्वे ऊष्माणः अग्रस्ता अदष्टा अनिरस्ताः अनतिद्रुतच्चारिता विवृतप्रयत्नका वक्तव्याः । विवृतमूष्मणां स्वराणां च' इति शिक्षाग्रन्थोक्तेः । मृत्यो रुद्राद् आत्मानं जीवजातं परिहराणि मृत्युवर्जितान् मुक्तियोग्यान् करिष्यामीति ध्यायन् सर्वे स्पर्शाः लेशेनानभिहताः लेशतोऽप्यसंस्पृष्टा वक्तव्याः । वायुश्चेदुद्गाता मुक्तियोग्यं करोत्येव । अन्यश्चेन्मद्गतो वायुः करोतीति ध्यायन् स्पर्शानुच्चारयेदित्यर्थः ।। ५ ।। इति द्वाविंश: खण्ड: ।।
अथ त्रयोविंशः खण्डः
( धर्मब्रह्मज्ञानयोः फलनिरूपणम् )
उपनिषत्
त्रयो धर्मस्कन्धाः । यज्ञोऽध्ययनं दानमिति प्रथमस्तप एव द्वितीयो ब्रह्मचार्याचार्यकुलवासी तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन् सर्व एते पुण्यलोका भवन्ति ब्रह्मसंस्थोऽमृतत्वमेति ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
व्यस्तसमस्तसाम्ना सामनाम्नो हरेरुपासकानां स्वर्गमोक्षौ फलत्वे-नोक्तौ । तत्र केषां किमिति जिज्ञासायां तद् विवेकेनाऽह-त्रय इति ।। धर्मस्कन्धाः धर्मसङ्घाः त्रयः । तदाह - यज्ञ इति ॥ प्रथमस्कन्ध इत्यन्वेति । तपः कृच्छ्रचान्द्रायणेन्द्रियजयादिकं द्वितीयस्कन्धः । ब्रह्मचार्याचार्य- कुलवासी सन् अत्यन्तमात्मानमाचार्यकुलेऽवसादयेदिति यत् स तृतीय- स्कन्धः । एते यज्ञादिनिष्ठाः सर्वे पुण्यलोकाः पुण्यः पुण्यप्राप्यः स्वर्गादिलोको येषां ते पुण्यलोका भवन्ति ।
तत्रायं विवेकः । यज्ञाध्ययनदानैर्गृही सोमलोकं याति । यतिस्तपसा सूर्यम् । वनस्थो ब्रह्मचारी च ऋषिलोकमिति । उक्तेषु मध्ये यदि कश्चिद् ब्रह्मसंस्थो ब्रह्मज्ञानी तर्हि अमृतत्वं मुक्तिमेति ।। १ ।।
( दृष्टान्तपूर्वकं ॐकारस्य सर्ववेदसारत्वकथनम् )
उपनिषत्
प्रजापतिर्लोकानभ्यतपत् तेभ्योऽभितप्तेभ्यस्त्रयी विद्या सम्प्रास्रवत् । तामभ्यतपत् तस्या अभितप्ताया एतान्यक्षराणि सम्प्रास्रवन्त । भूर्भुवः स्वरिति । तान्यभ्यतपत् तेभ्योऽभितप्तेभ्य ओङ्कारः सम्प्रास्रवत् । तद्यथा शङ्कुना सर्वाणि पर्णानि सन्तृण्णान्येवमेतेनोङ्कारेण सर्वा वाक्सन्तृण्णोङ्कार एवेदं सर्वमोङ्कार एवेदं सर्वम् ॥ २ ॥ २३ ॥
छान्दोग्योपनिषत्खण्डार्थः
प्रायो मुमुक्षुजप्यो मन्त्रः वेदाद्यर्थंतया सर्वसारत्वादोङ्कार एवेत्याख्यायिकयाऽऽह - प्रजापतिरित्यादिकया || प्रजापतिर्विष्णुः सारान् विवेक्तुं शब्दात्मलोकानभ्यतपत् अपश्यत् । तेभ्यः शब्दात्म-लोकभ्य अभितप्तेभ्यः दृष्टेभ्यः त्रयी विद्या ऋगादिरूपा सम्प्रास्रवत् सारत्वेन भगवता व्यज्ञायत । तामित्यादिवाक्यत्रयमप्येवं व्याख्येयम् । ओङ्कारस्योक्तं सर्वसारत्वं दृष्टान्तपूर्वं व्यनक्ति – तद्यथेति ॥ वक्ष्यमाणं निदर्शनम् । यथा शङ्कुना सर्वाणि पर्णानि सन्तृष्णानि प्रोतानि, एवमोङ्कारेण भगवन्नामभूतेन सर्वा वा सन्तृष्णा प्रोता । सर्ववाचां तदर्थविवृतिपर- त्वात् । इदं प्रकृतमोङ्कार एवं सर्वम् । अर्थपूर्तिवाचिनः सर्वपदस्य नपुंसकतया तदन्वितत्वादिदमित्यपि नपुंसकं कृतम् । अयमोङ्कार सर्वम् अर्थपूर्ण इत्यर्थः । द्विरुक्तिरुक्तार्था || २ || इति त्रयोविंशः खण्डः ।।
अथ चतुर्विंशः खण्डः
( स्वर्गमोक्षमार्गे प्राप्तविघ्नपरिहारोपायनिरूपणम् )
उपनिषत्
ब्रह्मवादिनो वदन्ति यद्वसूनां प्रातःसवनं रुद्राणां माध्यन्दिनं सवनमादित्यानां विश्वेषां देवानां च तृतीयसवनं क्व तर्हि यजमानस्य लोक इति स यस्तं न विद्यात् कथं कुर्यादथ विद्वान् कुर्यात् ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
सामनामकभगवदुपास्त्या स्वर्गमोक्षावुक्तौ । तत्र प्राप्तविघ्न परिहार- हेतुभूतवस्वादिनिष्ठभगवदुपास्तिं शिष्यगुर्वाक्षेपसमाधिरूपाख्यायिकया- ऽऽह - ब्रह्मवादिन इति ॥ यद् यदि वसूनां प्रातस्सवनं भूलोकश्चे- त्युपलक्ष्यते, रुद्राणां माध्यन्दिनं सवनम् अन्तरिक्षलोकश्चेत्यपि ग्राह्यम्, आदित्यानां विश्वेषां देवानां च तृतीयसवनं स्वर्गलोकश्च क्व तर्हि यजमानस्य लोकः । तेषां वस्वादीनां तत्तल्लोकाधिपत्यादिति ब्रह्मवादिनः शिष्याः वदन्ति । आक्षेपवाचमाहुरित्यर्थः । भूलोकादिस्वामिवस्वादिषु स्थितहरिं(?) लोकद्वारादिवक्ष्यमाणमन्त्रैः प्रार्थ्यं भूरादिवसुप्रभृतिलोकमेव यजमानो यातीति भावेन तत्र गुरुभिरुक्तं समाधिमाह - स य इत्यादिना प्रयच्छन्तीत्यन्तेन खण्डत्रयेण ॥ योऽधिकारी तल्लोकद्वारादिमन्त्र- र्वस्वादिस्थहरिप्रार्थनया तत्तद्वस्वादिलोकप्राप्तिरित्येतत् प्रमेयं न विद्यात् तर्हि सः अज्ञः कथं कुर्यात् । यज्ञादीति शेषः । अथ तस्मात् प्राप्यफलाज्ञाने तद्धेत्वनुष्ठानायोगाद् विद्वानुक्तमर्थं जानन्नेव कर्म कुर्यात् ॥ १ ॥
( वसुस्थभगवद्रूपप्रार्थना)
उपनिषत्
पुरा प्रातरनुवाकस्योपकरणाज्जघनेन गार्हपत्यस्योदङ्मुख उपविश्य स वासवं सामाभिगायति लो३कद्वारमपावा३र्णू३३ पश्येम त्वा वयं रा ३३३३३ हु३म् आ३३ज्या३ यो३ आ३२१११ इत्यथ जुहोति नमोऽग्नये पृथिवीक्षिते लोकक्षिते लोकं मे यजमानाय विन्दैष वै यजमानास्य लोक एताऽस्म्यत्र यजमानः परस्तादायुषः स्वाहाऽपजहि परिघमित्युक्त्वोत्तिष्ठति तस्मै वसवः प्रातःसवनं सम्प्रयच्छन्ति ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
कर्मकृतौ विद्वानित्युक्तज्ञातव्यमाह - प्रातरिति ॥ प्रातरनुवाकस्य शस्त्रस्योपाकरणाद् उपक्रमात् पुरा पूर्वं गार्हपत्यस्य जघनेन पश्चाद्भागे उदङ्मुखः स्थिरमुपविश्य स यजमानः वासवं वसुगतवस्वादिनामक- भगवत्सम्बन्धि बासवं साम गायति गायेत् । तत्सामाऽह - लोकेति ॥ लोकस्य भूलोकस्य द्वारम् अपावृणु आवरणं तिरस्कुरु । वयं त्वा त्वां पश्येम । रा इत्यस्य राज्यायेत्यर्थलाभाय ज्यायेति पदेनान्वयः । तस्यार्थः भूलोकप्राप्तय इति । इति वस्वन्तर्गतवसुनामकं हरिं प्रार्थ्याथानन्तरं जुहोति अग्नये ऽग्रयन्तर्गतायाग्निनाम्ने हरये नमः लोकक्षिते । तस्य विवरणं- पृथिवीक्षित इति ।। भूलोकप्राप्तये यजमानाय त्वदाराधकाय मे मह्यं लोकं भूलोकं बिन्द प्रापय । यद्वा, पृथिवीक्षित इत्यग्नय इत्यस्य विशेषणं, भूलोकस्वामिने इत्यर्थः । एवमग्रेऽपि । यजमानस्य लोको वै आयुषः परस्तात् । अत्र भूलोके एताऽस्मि यजमानोऽहं गन्ताऽस्मि । स्वाहापरिघं भूलोकप्राप्तिप्रतिबन्धकमनादिपरिघं भो अग्निगताग्निनामक हरे ! अपजहि तस्य हन्ता भव, इत्युक्त्वाऽग्निगं हरिं प्रार्थ्योत्तिष्ठति । तस्मै यजमानाय वसवो वसुगतास्तन्नामानां भगवद्रूपविशेषाः प्रातस्सवनं तत्सम्बन्धि भूलोकं प्रयच्छन्ति ॥ २ ॥
( रुद्रस्थभगवद्रूपप्रार्थना )
उपनिषत्
पुरा माध्यन्दिनस्य सवनस्योपाकरणाज्जघनेनाग्नीध्रीयस्योददङ्मुख उपविश्य स रौद्रं सामाभिगायति लो३कद्वारमपावा३र्णू३३ पश्येम त्वा वयं विरा ३३३३३ हु३म् आ३३ज्या३ यो३ आ३२१११ इत्यथ जुहोति नमो वायवेऽन्तरिक्षक्षिते लोकक्षिते लोकं मे यजमानाय विन्दैष वै यजमानस्य लोक एताऽस्मत्र यजमानः परस्तादायुषः स्वाहाऽपजहि परिघमित्युक्त्वोत्तिष्ठति तस्मै रुद्रा माध्यन्दिनं सवनं सम्प्रयच्छन्ति ॥ ।। ३ ।।
छान्दोग्योपनिषत्खण्डार्थः
पुरेत्यादिखण्डद्वयमपि प्राग्वदेव योज्यम् । आग्नीध्रीयस्य आग्रीध्रीयाख्यदक्षिणाग्रेः रौद्रं रुद्रान्तर्गतरुद्रनामकहरिविषयं साम । तत्सामाऽह लोकेति ।। अत्रापि विरा इत्यस्य ज्याय इत्यनेन विराज्यायान्तरिक्षलोकप्राप्तये इत्यर्थलाभायान्वयः । अन्तरिक्षलोकप्राप्ति- बन्धकानादिपरिघनिवृत्तये वायुगतभगवत्प्रार्थनामाह - नमो वायव इति ।। वायुगताय वायुनाम्ने हरये । रुद्राः रुद्रस्थाः । माध्यन्दिनं सवनम् अन्तरिक्षलोकम् ।। ३ ।।
( आदित्यविश्वेदेवस्थभगवदुपप्रार्थना )
उपनिषत्
पुरा तृतीयसवनस्योपाकरणाज्जघनेनाहवनीयस्योदङ्मुख उपविश्य स आदित्यं स वैश्वदेवं सामाभिगायति लो३कद्वारमपावा३र्णू३३ पश्येम त्वा वयं ं स्वारा ३३३३३ हु३म् आ३३ज्या३ यो३ आ३२१११ इत्यादित्यमथ वैश्वदेवं लो३कद्वारमपा३वा३वार्णू३३ पश्येम त्वा वयं साम्ना ३३३३ हू आ ३म् ३३ ज्या ३यो ३ आ३२१११ इत्यथ जुहोति नम आदित्येभ्यश्च विश्वेभ्यश्च देवेभ्यो दिविक्षिद्भ्यो लोकक्षिद्भ्यो लोकं मे यजमानाय विन्दतैष वै यजमानस्य लोक एताऽस्म्यत्र यजमानः परस्तादायुषः स्वाहाऽपजहि परिघमित्युक्त्वोत्तिष्ठति तस्मा आदित्याश्च विश्वे च देवास्तृतीयसवनं सम्प्रयच्छन्ति एष ह वै यज्ञस्य मात्रां वेद य एवं वेद य एवं वेद ।। ४ ।।
।।
॥ इति श्रीमच्छान्दोग्योपनिषदि द्वितीयोऽध्यायः ।। २ ।।
छान्दोग्योपनिषत्खण्डार्थः
आदित्यमादित्यान्तर्गतविषयं वैश्वदेवं विश्वदेवान्तर्गतविषयं च ।स्वारा इत्यस्य ज्यायेत्यनेन स्वाराज्याय स्वर्लोकाप्तय इत्यर्थलाभायान्वयः। आदित्येभ्यः आदित्यान्तःस्थेभ्य: । एवं विश्वेभ्यो देवेभ्य इत्यत्रापि । प्रवहत प्रवर्तयत तृतीयसवनं स्वर्लोकं वस्वाद्युपासनयैव यजमानः स्वर्गादि लभते किम् ? इत्यतस्तदन्तर्गतभगवदुपास्त्यैवेत्याह – एष हवा इति ॥ योऽधिकारी एवमुक्तरीत्या वस्वादिस्थभगवदुपास्त्यैव तत्तल्लोकावाप्ति- रिति वेद, स एव यज्ञस्य मात्रां, मातारं त्रातीति मात्राशब्दस्वाभाव्यात् स्त्रीत्वम् । यज्ञस्य निर्मातृपुरुषरक्षकं हरिं वेद स एव च स्वर्गादिभाङ् नान्य इति भावः । अत्र तात्पर्यं भाष्ये व्यक्तम् || ४ ||
॥ इति चतुर्विंशः खण्डः ||
इति श्रीमच्छान्दोग्योपनिषर्थसङ्ग्रहे श्रीराघवेन्द्रयतिकृते द्वितीयोऽध्यायः समाप्तः ।। २ ।