सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्

उपनिषत् ( खण्डः - २)

एकमेवाद्वितीयं ब्रह्म

सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् । तद्धैक आहुरसदेवेदमग्र आसीदेकमेवाद्वितीयं तस्मादसतः सज्जायत इति ॥ १ ॥

कुतस्तु खलु सोम्यैवं स्यादिति होवाच कथमसतः सज्जायेतेति सत्त्वेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ॥ २ ॥

भगवतः सकाशादादिसृष्टिकथनम्

तदैक्षत बहु स्यां प्रजायेय इति तत् तेजोऽसृजत तत् तेज ऐक्षत बहु स्यां प्रजायेयेति तदपोऽसृजत तस्माद्यत्र क्व च शोचति स्वेदते वा पुरुषस्तेजस एव तद्ध्यापो जायन्ते ॥ ३ ॥

ता आप ऐक्षन्त बह्व्यः स्याम प्रजायेमहीति ता अन्नमसृजन्त तस्माद्यत्र क्व च वर्षति तदेव भूयिष्ठमन्नं भवत्यद्भ्य एव तदन्नाद्यं जायते ॥ ४ ॥ २ ॥

भाष्यम्

एकमेवाद्वितीयं स्वगतभेदवर्जितं समानवर्जितं च । 'एकमेवाद्वितीयं तत् समाभ्यधिकवर्जनात् ( " ।

स्वगतानां च भेदानामभावाद् ब्रह्म शाश्वतम् ।।' इति प्रवृत्ते ।

'भेदाभेदनिवृत्त्यर्थमेवशब्दोऽवधारकः । समाधिकनिवृत्त्यर्थमद्वितीयपदं तथा ॥

भेदाभेदेऽप्येकशब्दो यतोऽवयविनि स्थितः । एकमेवेत्यतः प्राह नारायणमियं श्रुतिः ॥

समे द्वितीयशब्दः स्यादद्वितीयोऽसमत्वतः । साधिक: (२) कुत एव स्यादित्याह परमा श्रुतिः॥' इति सामसंहितायाम् ।

पदार्थकौमुदी

प्राधान्यप्रतिपत्त्यर्थमेव सृष्टिमाह - सदेवेति ॥ यद्वाभगवांस्त्वेव मे तद् ब्रवीतु " यत्कारणत्वादेकविज्ञानेन सर्वविज्ञानं भवतीत्युक्तम् । तत्कारणत्वमेव विशेषाकारेण ब्रवीत्विति पुत्रेण प्रार्थितः पिता होवाच । तदेव कारणत्वमाह- सदेवेति ॥ अत्र " एकमेवाद्वितीयम्इति वाक्यं शङ्करेणेत्थं व्याख्यातम् । स्वकार्यपतितमन्यन्नास्तीत्येकमेवोच्यते । मृद्व्यतिरेकेण मृदो यथाऽन्यद् घटाद्याकारेण परिणामयितृकुलालादिनिमित्तकारणं दृष्टम् । तथा सद्- व्यतिरेकेण सतः सहकारिकारणं द्वितीयं प्राप्तं प्रतिषिध्यते अद्वितीय- मिति नास्य द्वितीयं वस्त्वन्तरं विद्यत इति । तदसत् । अद्वितीयपदेनैव कार्यकारणमध्यपतितद्वितीयमात्रनिषेधसम्भवेन "एकमेव " इत्यस्य वैयर्थ्यात् । अत्र कश्चित् ।

" वृक्षस्य स्वगतो भेदः पत्रपुष्पफलादिभिः । वृक्षान्तरात् सजातीयो विजातीयः शिलादितः ।। तथा सद्वस्तुनो भेदत्रयं प्राप्तं निषिध्यते । ऐक्यावधारणद्वैतप्रतिषेधैस्त्रिभिः क्रमात् ॥इति ।

तदप्यसदिति भावेन स्वयं तावदनूद्य व्याचष्टे - एकमेवेति ॥ एकमेवेत्यस्यार्थःस्वगतभेदवर्जितमिति । स्वावयवगुणकर्मादिभेद- वर्जितमित्यर्थः । " अद्वितीयम्" इत्यस्य " समानवर्जितम्" इति । स्वकृतं व्याख्यानं प्रमाणेन द्रढयतिएकमेवेति ॥ तच्छाश्वतं ब्रह्म स्वगतानां भेदानामभावादेकमेवेत्युच्यते । समाभ्यधिकवर्जनादद्वितीय- मित्युच्यत इति सम्बन्धः । अधिकवर्जनं कैमुत्यलब्धमिति स्फुटमनु- पदमेव । एतदेव प्रमाणान्तरेण विशदयतिभेदाभेदेति । अभेद- प्रतिपत्त्यर्थमेकशब्द इत्यादौ योज्यम् ।नारायणस्य स्वावयवादिना " इति शेषः । एवशब्दस्यार्थान्तरत्वे भेदाभेदनिरासकत्वानुपपत्तेः "अव- धारकःइत्युक्तम् । नन्वेकमभिन्नमित्येकशब्देनैव भेदनिरासे भेदाभेद- स्यापि निवृत्तिलाभादवधारणं व्यर्थमित्यत आह- भेदाभेदेऽपीति ॥ अवयविनि घटादौ भेदाभेदे विद्यमानेऽप्येकशब्दः स्थितो यतः ।तस्याभेदमात्रबोधकत्वेन भेदनिरासकत्वासम्भवात् । अतस्तद्वदत्रा- प्येकमित्यनेन भेदाभेदप्रसक्तौ तन्निवृत्त्यर्थमेकमेवेत्याहेत्यर्थः । " नारा- यणम्" इत्यनेन श्रुतौ सच्छब्दो नारायणपर इत्युक्तं भवति । समाधिकनिवृत्त्यर्थमद्वितीयपदमित्ययुक्तम् । अद्वितीयपदेन द्वितीय- मात्रनिषेधावगतेरित्यतस्तद् व्युत्पादयति- सम इति ॥ तथाचोक्तं महाभाष्येअस्य गोर्द्वितीयेन भाव्यमित्युक्ते सदृशो गौरेवोपादीयते नाश्व न गर्दभ इति । द्वितीयपदेन द्वितीयमात्रोक्तावद्वितीयशब्देनैव स्वेतरसर्वनिषेधसम्भवेन सजातीयनिषेधकैवशब्दादिवैयर्थ्यम् तदवैयर्थ्याय द्वितीयशब्दस्य विजातीयपरत्वे सङ्कोचे इत्यनेनाविरोधाय समद्वितीयपरत्वेनापि सङ्कोचः स्यादिति भावः । अस्तु तर्हि समराहित्यमेवाऽद्वितीयशब्दार्थो नाधिकराहित्यमित्यतः पदार्थस्तु स एव । अयंत्वार्थिकार्थं इति भावेनाऽह - साधिक इति । अत एव प्राक्समानवर्जितम्इत्येवोक्तम् ।

Load More