वायुर्वाव संवर्गो यदा वा महाप्रलये अग्निरुद्वायति ..
उपनिषत् ( खण्ड: - ३ )
रैक्वोपदिष्टसंवर्गविद्या
वायुर्वाव संवर्गो यदा वा महाप्रलये अग्निरुद्वायति वायुमेवाप्येति यदा सूर्योऽस्तमेति वायुमेवाप्येति यदा चन्द्रोऽस्तमेति वायुमेवाप्येति ॥ १ ॥
यदाऽऽप उच्छुष्यन्ति वायुमेवापियन्ति वायुर्ह्येवैतान् सर्वान् संवृङ्क्त इत्यधिदैवतम् ॥ २ ॥
अथाध्यात्मं प्राणो वाव संवर्गः स यदा स्वपिति प्राणमेव वागप्येति प्राणं चक्षुः प्राणं श्रोत्रं प्राणं मनः प्राणो ह्येवैतान् सर्वान् संवृङ्क्त इति ॥ ३ ॥
तौ वा एतौ द्वौ संवर्गौ वायुरेव देवेषु प्राणः प्राणेषु ॥ ४ ॥
वायुरेव संवर्ग:, अस्मिन् विषये ऐतिह्यम्
अथ ह शौनकं च कापेयमभिप्रतारिणं च काक्षसेनिं परिविष्यमाणौ ब्रह्मचारी बिभिक्षे तस्मा उ ह न ददतुः ॥ ५ ॥
स होवाच महात्मनश्चतुरो देव एकः कः सो जगार भुवनस्य गोपास्तं कापेय नाभिपश्यन्ति मर्त्या अभिप्रतारिन् बहुधा वसन्तं यस्मै वा एतदन्नं तस्मा एतन्न दत्तमिति ॥ ६ ॥
तदु ह शौनकः कापेयः प्रतिमन्वानः प्रत्येयायात्मा देवानां जनिता प्रजानां हिरण्यदंष्ट्रो बभसोऽनसूरिर्महान्तमस्य महिमानमाहुरनद्यमानो यदन्नमत्तीति वै वयं ब्रह्मचारिन्निदमुपास्महे दत्तास्मै भिक्षामिति ॥ ७ ॥
तस्मा उ ह ददुस्ते वा एते पञ्चान्ये पञ्चान्ये दश सन्तस्तत्कृतं तस्मात् सर्वासु दिक्ष्वन्नमेव दश कृतं सैषा विराडन्नादी तयेदं सर्वं दृष्टं सर्वमस्येदं दृष्टं भवत्यन्नादो भवति य एवं वेद य एवं वेद ॥ ८ ॥ ३ ॥
भाष्यम्
‘संवृङ्क्ते सर्वदेवान् यद्वायुः संवर्ग ईरितः । महिमाऽस्य महानेष यदनाद्योऽत्ति देवताः ।।' इति प्रभञ्जने ।
'दशेति वै सर्वम्' इति श्रुतेः । कृतस्य च पूर्णात्मकत्वादध्यात्माधिदैवतभेदेन (१) पञ्चदेवता दशभूताः कृतम् । तस्माद् वायुना सह दशसङ्खचापूरणात् सर्वदिक्षु स्थिता देवता वायुना सहान्नमेव । अन्नादी देवता विराड् विष्णुरेव । अनद्यमान इत्यन्यैरनद्यमानः । 'वायुस्तु सर्वदेवात्ता वायोरत्ता जनार्दनः । न तस्य कश्चित्ताऽस्ति स विराडधिराजनात् ।। ' इति च ॥३॥
पदार्थकौमुदी
किमुवाचेत्यत आह- वायुरिति ॥ वायुर्बाह्यः संवर्गस्तृणादेः संवर्जनात् सङ्ग्रहणाद्वेत्यसत् । "यां देवतामुपास्से तां मे शाधि ' इति देवताप्रश्नोत्तरत्वात् श्रुतावेवाग्र्यादिदेवतासंहारकत्वस्य संवर्गशब्द- प्रवृत्तिनिमित्तत्वेनोक्तत्वाच्चेति भावेन प्रमाणेनैव " वायुर्वाव संवर्ग: " इत्येतद्व्याचष्टे – संवृत इति ॥ संहरते । “महान्तमस्य” इत्यस्यार्थ- माह महिमेति ॥ देवता इत्यनन्नशब्दार्थः । “मर्त्यमन्नम् ' ' इति बचनेनान्नशब्दस्य मर्त्यवाचकत्वात् । "ते वा एते पञ्चान्ये पञ्चान्ये दश सन्तस्तत्कृतम्'' इति वाक्यं पञ्चकद्वयस्य परस्परभिन्नत्वप्रतीतिं वारयन् व्याचष्टे – अध्यात्मेति । दशभूताः पूर्णाः कृतमित्युच्यन्त इत्यर्थः । दशशब्दस्य पूर्णार्थत्वे श्रुतिमाह दशेतीति ॥ " सर्वं पूर्णमिहोच्यते " इति स्मृतिश्च ग्राह्या । अध्यात्माधिदैवतभेदेनावस्थितानां पञ्चदेवतानां पूर्णत्वेऽपि कृतत्वोक्तिः कथमित्यतो गौण्येति भावेनाऽह - कृतस्येति ।। कृतयुगस्य पूर्णधर्मात्मकत्वादित्यर्थः । " तस्मात् सर्वासु दिक्ष्वन्नमेव'" इति वाक्यमप्रतीत्यन्यथाप्रतीतिनिरासाय व्याचष्टे तस्मादिति ॥ यस्मादध्यात्माधिदैवभेदेन द्विरूपस्य वायोस्तेषु प्रवेशस्तस्माद् वायुना सह दशसङ्खचापूरणाद् दशदिक्ष्वपि स्थिता दशसङ्ख्याका देवता अन्नमेवे- त्यर्थः । वायोरन्नमिति प्रतीतिनिरासाय " वायुना सहा'' इत्युक्तम् । एवं तर्हि " सैषा विराडन्नादी' इत्युत्तरवाक्यविरोधः । तत्र ह्युपक्रान्तवायु- देवताऽनादित्वेनोच्यत इत्यत आह - अन्नादीति ॥ नात्रोपक्रान्तो वायुरन्नादित्वेनोच्यते । पूर्ववाक्ये तस्यान्नत्वेनोक्तत्वात् । अन्यथा दशत्वानुपपत्तेः । नहि स एवान्नमन्नादी च । तस्मादन्नादिदेवता विष्णुरेव । उपक्रमादप्युपपत्तेर्बलीयस्त्वादिति भावः । विराट् विष्णुरित्यनेन विराट् शब्दाद् ब्रह्मान्नादीत्यपि निरस्तम् । तस्यापि वाय्वत्तृत्वासम्भवात् । ननु विष्णोरन्नादित्वमङ्गीकृत्य वायोरन्नत्वाङ्गीकारे तदद्यत्वप्राप्त्या " अनद्य- मानो यदनन्नमत्ति” इत्यनद्यमानत्वोक्तिविरोध इत्यत आह- अनद्यमान इति ।। विष्ण्वन्यैः । “ यदनन्नमत्ति " इति वायोः सर्वदेवतासंहारक- त्वोक्तेः कथं तस्य विष्ण्वन्नत्वमित्यतः श्रुत्यर्थनिश्चायकं प्रमाणमाह-- वायुस्त्वति || ३ ||
खण्डार्थः
वायुर्वाव मुख्यवायुरेव संवर्गः । कथम् ? यदा वै महाप्रलयेऽ- ग्निरुद्वायति उपशाम्यति तदा वायुमेवाप्येति । यदा सूर्योऽस्तमेति तदा वायुमेवाप्येति । यदा चन्द्रोऽस्तमेति तदा वायुमेवाप्येति ।। १ ।।
यदाऽऽपः तदभिमानी इन्द्र:, तथोक्तं पुरस्तात् । उच्छुष्यन्ति वायुमेवापियन्ति । कुतः ? यतो वायुरेवैतान् संवृते संहरतीति हि प्रसिद्धमित्यर्थः । इत्यधिदैवतं संवर्गस्वरूपं निरूपितम् || २ ||
अथाध्यात्मं संवर्गस्वरूपं निरूप्यते । प्राणो मुख्यप्राणः । सः मुख्यप्राणो यदा जीवं प्रस्वापयति तदा वाक् प्राणमप्येतीत्यर्थः । स इति बुद्धिस्थजीवपरामर्शो वा । अत्र वागादिशब्देन तदभिमानिनः प्रागुक्ता देवता उच्यन्ते ।। ३ ।।
उपसंहरति - ताविति । एवं तावेतौ द्वावेव संवर्गौ देवेषु वायुरेव प्राणेषु इन्द्रियेषु मुख्यप्राण एवेति ॥ ४ ॥
तत्राऽख्यायिकामारभते अथेति ॥ हेत्यैति । शौनकं शुनकस्यापत्यं कापेयं कपिगोत्रोद्भवं चाऽभिप्रतारिणं नामतः । कक्षसेन- स्यापत्यं काक्षिसेनिं चेत्येतौ परिविष्यमाणौ क्वचिदन्नं परिवेषयन्तौ कश्चिद् ब्रह्मचारी बिभिक्षेऽन्नं याचितवान् । तौ उभौ तस्मै ब्रह्मचारिणेऽनं न ददतुरेव | हेत्याश्वर्ये ॥ ५ ॥
तदा स ब्रह्मचार्युवाच ह । हे कापेय! हे अभिप्रतारिन् ! यो भुवनस्य गोपाः गोप्ता एको देवश्चतुरो महात्मनोऽधिदैवमग्न्यादीनध्यात्मं वागादीन् जगार जग्रास गृ निगरणे | यं च तं प्रसिद्धं मर्त्येषु बहुधा वसन्तं मर्त्याः नाभिपश्यन्ति । स कः ? किंनामा ? किंमहिमा च ? तदहं जानामि । त्वं जानासि चेत् तद्वदस्वेत्यर्थः । तस्माद् यस्मै देवायैतदन्नं प्रसिद्धं तस्मा एतदन्नं न दत्तमिति ।। ६ ॥
एवं ब्रह्मचारिणोक्ते तदु तदैव शौनकः कापेयस्तत्पृष्टं दैवतं प्रतिमन्वानो विचारयन् प्रत्येयाय व्यजानात् । उवाच च - आत्मेति । हे ब्रह्मचारिन् ! यस्त्वया पृष्टो देवः देवनामाम्यादीनामात्मा स्वामी प्रजानां जनिता जनयिता पिता हिरण्यदंष्ट्रो बभसो भक्षणशीलः सोऽनसूरिर्नामतः । अनश्वासौ सूरिश्वेत्यनसूरिः । तन्माहात्म्यमाह – महान्तमिति ॥ अस्य अनस्य मुख्यप्राणस्य महिमानं महान्तमाहुर्विद्वांसः । कुतः ? यद्यस्मादसौ स्वयं विष्ण्वन्यैरनद्यमानोऽन्नममर्त्यं सर्वदेवजातमत्तीत्यनेनैव प्रकारेण वयमिदं दैवतमुपास्महे । अस्मै वायुदेवताभिज्ञाय ब्रह्मचारिणे भिक्षां दत्तेत्यन्यान् प्रत्याह कापेयः ॥ ७ ॥
एवमुक्ताः केचित् परिवेषकास्तस्मै तदैव भिक्षां ददुर्ह । एवमाख्यायिकया वायोः सर्वसंहर्तृत्वमुक्तम् । तर्हि स एव सर्व संहर्ता किं नेति भावेनाऽह रैक्वः ते वा इति । ते वा एते अध्यात्माधि- दैवभेदेनोक्ताः अग्न्याद्याः वागादयश्च वायुना मुख्यप्राणेन च सह पञ्चान्ये पञ्चान्ये दश सन्तः पूर्णाः सन्तो यतः तत् तस्मात् कृतमित्युच्यन्ते । कृतयुगस्यापि पूर्णधर्मात्मकत्वात् । किं तत इत्यत आह-- तस्मादिति ।। तस्माद् उक्तरीत्या वायुना सह दशसङ्ख्यापूरणात् । सर्वासु दिक्षु दशस्वपि दिक्षु स्थिताः दश पूर्णाः अत एव कृतमित्युक्ताः अग्न्याद्या बागादयश्च वायुना मुख्यप्राणेन च सहान्नमेव । त एते कस्यान्नं यो वायोरप्यत्तेत्यत आह सैषेति ॥ सैषा वाय्वाद्यन्नादिदेवता विराड् अधिराजनाद् विराण्णामा विष्णुरेव । तस्यास्तदज्ञाने कथमेतदत्तृत्वं स्यादित्यत आह- तयेति । तया विराडाख्यदेवतयेदं सर्वं वाय्वादिकं दृष्टम् । सा सर्वज्ञेत्यर्थः । एवं विष्णूपासकस्य तदनुरूपं फलमाह – सर्वमिति ॥ योऽधिकारी एवं सर्वज्ञत्वेनान्नादित्वेन च विराडाख्यं विष्णुं वेदोपास्ते । अस्यानेनोपा- सकेनेदं स्वयोग्यं सर्वं दृष्टं भवति । सोऽन्नादश्च भवति ।। ८ ।।
।। इति तृतीयः खण्डः ||