उद्यन् हिङ्कारः उदितः प्रस्तावो मध्यन्दिन उद्गीथोऽपराह्णः ..
समुद्रेकात् समुद्रस्तु देशनाद् दिश उच्यते
'यादृश्येवोन्नतिर्योग्या तस्याः सर्वात्मनाऽऽयतिः ..
जीवैक्याङ्गीकारे यस्तद् वेदेति तच्छब्दोऽप्ययुक्तः
यस्तु भिन्नः स्वतः खादिस्तस्य भेदो ह्यबुद्धिनाम्
'अनन्यप्रोक्ते गतिरत्र नास्त्यणीयान् ह्यतर्क्यमणुप्रमाणात्
'प्रद्युम्नादीनि रूपाणि त्रीणि त्रीण्येव पञ्च च
दृष्टवस्तुनो मिथ्यात्वाङ्गीकारे च युक्त्यपेक्षा
न च कदाचित्कस्यापि (१) नासीदस्ति भविष्यतीति ..
'जीवेश्वरगतो जीवेष्वथ जीवजडात्मनोः
विदि:(१) कादाचित्कस्वरूपलाभ इति च धातुः
उद्यन् हिङ्कारः उदितः प्रस्तावो मध्यन्दिन उद्गीथोऽपराह्णः ..
उपनिषत् (खण्डः १४-२१)
बृहत्सामप्रतिपाद्यभगवदुपासना
उद्यन् हिङ्कारः उदितः प्रस्तावो मध्यन्दिन उद्गीथोऽपराह्णः प्रतिहारोऽस्तं यन्निधनमेतद्बृहदादित्ये प्रोतं स य एवमेतद्बृहदादित्ये प्रोतं वेद तेजस्व्यन्नादो भवति सर्वमायुरेति ज्योग्जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्या तपन्तं न निन्देत् तद् व्रतम् ॥ १४ ॥
वैरूपसामप्रतिपाद्यभगवदुपासनम्
अभ्राणि सम्प्लवन्ते स हिङ्कारो मेघो जायते स प्रस्तावो वर्षति स उद्गीथो विद्योतते स्तनयति स प्रतिहार उद्गृह्णाति तन्निधनमेतद्वैरूपं पर्जन्ये प्रोतं स य एवमेतद्वैरूपं पर्जन्ये प्रोतं वेद विरूपांश्च सुरूपांश्च पशूनवरुन्धे सर्वमायुरेति ज्योग्जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्या वर्षन्तं न निन्देत् तद् व्रतम् ॥ १५ ॥
वैराजसामप्रतिपाद्यभगवदुपासनम्
वसन्तो हिङ्कारो ग्रीष्मः प्रस्तावो वर्षा उद्गीथः शरत् प्रतिहारो हेमन्तो निधनमेतत् वैराजमृतुषु प्रोतं स य एवमेतद्वैराजमृतुषु प्रोतं वेद विराजति प्रजया पशुभिर्ब्रह्मवर्चसेन सर्वमायुरेति ज्योग्जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्या ऋतून् न निन्देत् तद् व्रतम् ॥ १६ ॥
शकरीसामप्रतिपाद्यभगवदुपासनम्
पृथिवी हिङ्कारोऽन्तरिक्षं प्रस्तावो द्यौरुद्गीथो दिशः प्रतिहारः समुद्रो निधनमेताः शक्वर्यो लोकेषु प्रोताः स य एवमेताः शक्वर्यो लोकेषु प्रोता वेद लोकीभवति सर्वमायुरेति ज्योग्जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्या लोकान्न निन्देत् तद् व्रतम् ॥ १७ ॥
रेवतीसामप्रतिपाद्यभगवदुपासनम्
अजा हिङ्कारोऽवयः प्रस्तावो गाव उद्गीथोऽश्वाः प्रतिहारः पुरुषो निधनमेता रेवत्यः पशुषु प्रोताः स य एवमेता रेवत्यः पशुषु प्रोता वेद पशुमान् भवति सर्वमायुरेति ज्योग्जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्या पशून्न निन्देत् तद् व्रतम् ॥ १८ ॥
यज्ञायज्ञीयसामवेद्यभगवदुपासनम्
लोम हिङ्कारस्त्वक् प्रस्तावो मांसमुद्गीथोऽस्थि प्रतिहारो मज्जा निधनमेतद्यज्ञायज्ञीयेषु प्रोतं स य एवमेतद्यज्ञायज्ञीयमङ्गेषु प्रोतं वेदाङ्गीभवति नाङ्गेन विमूर्च्छति सर्वमायुरेति ज्योग्जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्या संवत्सरं मज्ज्ञो नाश्नीयात् तद् व्रतं मज्ज्ञु नाश्नीयादिति वा ॥ १९ ॥
राजनसामप्रतिपाद्यभगवदुपासनम्
अग्निर्हिङ्कारो वायुः प्रस्ताव आदित्य उद्गीथो नक्षत्राणि प्रतिहारश्चन्द्रमा निधनमेतद्राजनं देवतासु प्रोतं स य एवमेतद्राजनं देवतासु प्रोतं वेदैतासामेव देवतानां सलोकातां सार्ष्टितां सायुज्यं गच्छति सर्वमायुरेति ज्योग्जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्या ब्राह्मणान्न निन्देत् तद् व्रतम् ॥ २० ॥
इतरसर्वसामप्रतिपाद्यभगवदुपासनम्
त्रयी विद्या हिङ्कारस्त्रय इमे लोकाः स प्रस्तावोऽग्निर्वायुरादित्यः स उद्गीथो नक्षत्राणि वयांसि मरीचयः स प्रतिहारः सर्पा गन्धर्वाः पितरस्तन्निधनमेतत् साम सर्वस्मिन् प्रोतं स य एवमेतत्साम सर्वस्मिन् प्रोतं वेद सर्वं ह भवति ॥ १ ॥
तदेष श्लोको यानि पञ्चधा त्रीणि त्रीणि तेभ्यो न ज्यायः परमन्यदस्ति । यस्तद्वेद स वेद सर्वं सर्वा दिशो बलिमस्मै हरन्ति । सर्वमस्मीत्युपासीत तद् व्रतं तद् व्रतम् ॥ २ ॥ २१ ॥
भाष्यम्
'आदित्यनानि पञ्चात्मन्यभिध्याते जनार्दने । पर्जन्यनाम्नि चर्त्वाख्ये लोकाख्ये पशुसञ्ज्ञके ॥ अङ्गाख्ये देवताख्ये च सर्वाख्ये च प्रतिष्ठितम् । बृहदाद्यं च यो वेद मुच्यते नात्र संशयः ।।
पदार्थकौमुदी
‘“उद्यन् हिङ्कारः” इत्यादिखण्डाष्टकस्य भगवत्परत्वज्ञापनाय “स य एवमेतद् बृदादित्ये प्रोतं वेद” “स य एवमेतद् वैरूपं पर्जन्ये प्रोतं वेद" "स य एवमेतद् वैराजमृतुषु प्रोतं वेद" " स य एवमेताः शक्कर्यो लोकेषु प्रोता वेद’” ‘“स य एवमेता रेवत्यः पशुषु प्रोता वेद" " स य एवमेतद् यज्ञायज्ञीयमङ्गेषु प्रोतं वेद’” “स य एवमेतद्राजनं देवतासु प्रोतं वेद” “स य एवमेतत् साम सर्वस्मिन् प्रोतं वेद" इत्यष्टौ फलवाक्यानि प्रमाणेन व्याचष्टे – आदित्येति ॥ " पञ्चात्मन्यभिध्याते" इत्यनेन "उद्यन् हिङ्कारः" इत्यादिकमुपासनार्थमेवोक्तमित्युक्तं भवति । "बृहदाद्यम्" इत्यादिपदेन वैरूपादिग्रहणम् ।