दध्नः सोम्यः मथ्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति तत्सर्पिर्भवति
उपनिषत् (खण्डः-६)
वाकूप्राणमनांसि लक्ष्मीप्राणरुद्रायत्तानि
दध्नः सोम्यः मथ्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति तत्सर्पिर्भवति ॥ १ ॥
एवमेव खलु सोम्यान्नस्याश्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति तन्मनो भवति ॥ २ ॥
अपां सोम्य पीयमानानां योऽणिमा स ऊर्ध्वः समुदीषति स प्राणो भवति ॥ ३ ॥
तेजसः सोम्याश्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति सा वाग् भवति ॥ ४ ॥
अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति भूय एव मा भगवान् विज्ञापयत्विति यथा सोम्येति होवाच ॥ ५ ॥६॥
खण्डार्थः
यथा खलु दध्नो मध्यमानस्य योऽणिमा भावभवित्रोरभेदेन सूक्ष्मभागो नवनीतरूपः स ऊर्ध्वः सन् सर्वापेक्षया श्रेष्ठः सन् समुदीषति सम्यगुदयसम्भावनाविषयो भवति । तत्सर्पिर्भवति ॥ १ ॥
एवमेव खलु सोम्यान्नस्यान्नस्थस्य शिवादेरश्यमानस्योपजीव्य- मानस्य योऽणिमा सूक्ष्मभागस्तदन्तर्गतं रूपं स ऊर्ध्वः समुदीषति । तन्मनो भवति । मनः प्रविष्टं भवति ।। २ ।। एवमन्यत् ।। ३ ।। ४ ।।
उपसंहरति- अन्नमयं हीति । तस्मादित्युपस्कर्तव्यम् । इत्युपदिष्टेन श्वेतकेतुना "अन्नमयं हि सोम्य मनः" इत्यादिकं ममैवानुभवारूढं कुर्वित्याशयेन भूय एव ' ' इति प्रार्थितः पिता " तथा सोम्येति होवाच " ॥ ५ ॥
।। इति षष्ठः खण्डः ।