अथ येऽस्य प्रत्यञ्चो रश्मयस्ता एवास्य प्रतीच्यो मधुनाड्यः ..

उपनिषत्- (खण्डः ३)

मधु नामक प्रद्युम्नोपासना

अथ येऽस्य प्रत्यञ्चो रश्मयस्ता एवास्य प्रतीच्यो मधुनाड्यः सामान्येव मधुकृतः सामवेद एव पुष्पं ता अमृता आपः ॥ १ ॥ तानि वा एतानि सामान्येतसामवेदमभ्यतपस्तस्या- भितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्य रसोऽजायत ।। २ ।। तद् व्यक्षरत् तदादित्यमभितोऽश्रयत् तद्वा एतद् यदेतदादित्यस्य परं कृष्णं रूपम् ॥ ३ ॥ ३ ॥

भाष्यम्

सामनामान आदित्या मासशः समभोगतः ॥ इन्द्रो वरुण उद्दिष्टो यज्ञेषु व्रियते यतः । आदित्यानामधिपतिः स हि विष्णुनियोजितः । विष्णुस्तूपास्यरूपत्वान्नोपासकगणे युतः ॥

पदार्थकौमुदी

तृतीयं वाक्यं व्याख्याति सामनामान इति ॥ तत्र निमित्तमाह- मासश इति ॥ एकैकं मासम् एकैक आदित्यो भुङ्क्ते इति द्वादश मासभोगिनो द्वादशादित्या इति समभोगात् सामनामान इति भावः । " वरुणेन मुखेन'' इत्यत्राप्यादित्याधिपतित्वेनोक्तो वरुणो न प्रसिद्ध इत्याह- इन्द्र इति ॥ पुरन्दर इत्यर्थः ।

ननु वरुणशब्देनान्यत्र रूढेन कथं पुरन्दरलाभ इत्यतो योगेनेत्याह- यज्ञेष्विति ।। ननु प्रसिद्ध एव वरुणः किं न स्यादित्यतः पूर्ववद् बाधकमाहआदित्यानामिति ॥ अत्र वरुण इतरादित्यापेक्षया मुख्य एव ग्राह्यः । अन्यस्य तदाधिपत्यासम्भवात् । आदित्यनामधिपतिश्च पुरन्दर एव प्रसिद्धो नाप्पतिरिति भावः। नन्विदमयुक्तम् । इतरादित्येषु विष्णोरपि सत्त्वेनास्य तदाधिक्यासम्भवादित्यत उक्तम् - विष्णु- नियोजितो हि स इति ॥ विष्णुनैव स्वेतरादित्याधिपतित्वं तस्य नियोजितमिति भावः । ननु सर्वादित्याधिपतित्वाद् विष्णुरेव वरुण- शब्देन विवक्षितः किं न स्यात् ? अत्रोपासका एव देवा मधुकृत्त्वेन विवक्षिताः । विष्णुस्तूपास्यो मधुभूतःवरुणेन मुखेन" इति चोपास- कस्यैवेतरोपासकमुख्यत्वं विवक्षितम् । अतो वरुणशब्देनेन्द्र एव ग्रा न विष्णुरित्याहविष्णुरिति । युतः प्रविष्टः । क्वचित्नोपासक - गुणैर्युतः" इति पाठः । तत्रोपासकगणान्तर्गतो न भवतीत्यर्थः ।। तृतीयः खण्डः ।।

खण्डार्थः

सामान्येव मधुकृतः सामाभिमानिनो मासशः समभोगवत्त्वेन सामशब्दवाच्याः आदित्या एव । यदेतदादित्यस्य कृष्णं रूपं तत्तत्र । तद्वै साम वेदाभिव्यक्तं कृष्णं रूपम् एतद् यश आदिरूपं प्रद्युम्नाख्यं मध्वाश्रितमभवत् । शिष्टं समानम् ।। ॥ इति तृतीयः खण्डः ।।