एष तु वा अतिवदति यः सत्येनातिवदति सोऽहं भगवः
उपनिषत् ( खण्ड: - १६ )
मुख्यप्राणादपि विष्णुरुत्तमः
एष तु वा अतिवदति यः सत्येनातिवदति सोऽहं भगवः सत्येनातिवदानीति सत्यं त्वेव विजिज्ञासितव्यमिति सत्यं भगवो विजिज्ञास इति ॥ १ ॥ १६ ॥
भाष्यम्
'एष तु वा अतिवदति' इति तुशब्दोऽर्थान्तरवाची ।अस्ति भगवः प्राणाद् भूय इति प्रश्नो व्यतिहार्य : (१) 'यत्रानवसरोऽन्यत्र पदं तत्र प्रतिष्ठितम् । यत्र प्रमाणं वाक्यं वा व्यतिहार्यं ( २ ) न संशयः ।' 'व्यतिहारो विशिषन्ति हीतरवत्' इति च भगवद्वचनम् ( * ) । 'अतिवादी प्राणवादी विष्णुवादी विशेषतः । स सत्यो भगवान् विष्णुर्यनिर्दोष नियामक: ।।
पदार्थकौमुदी
" एष तु वा अतिवदति यः सत्येनातिवदति' इत्यत्र प्रकृतप्राणाति- वाद्येव सत्यातिवादित्वेनोच्यते । ततश्च प्राण एव सत्यः” इति तस्यैव भूमादित्वप्राप्तौ भूमाद्यधिकरणविरोधः स्यादित्याशङ्कानिरासाय प्रकरण- भेदकं दर्शयति- एष तु वेति । प्राणवादिनोऽतिवादित्वमुक्त्वा सत्यवादिनोऽप्यतिवादित्वमुच्यते । तत्र प्राणातिवादिनः सत्यातिवादी तुशब्देन विशेष्यते । तेन ज्ञायतेऽन्योऽसावन्योऽयमितीति भावः । अर्थान्तरवाची प्रकरणान्तरज्ञापक इत्यर्थः । ननु यदि प्राणादुत्तमः सत्योऽन्यस्तर्हि नामादिप्रकरणवद् “अस्ति भगवः प्राणाद् भूयः” इति " प्राणाद् वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीतु " इति "सत्यं बाब प्राणाद् भूयः’” इति प्रश्नप्रतिवचने स्यातामित्यत आह- अस्तीति ।। प्रश्न इत्युपलक्षणम् । प्राणाद् वाब भूयोऽस्तीत्युत्तरमपि ग्राह्यम् । व्यतिहार्योऽध्याहार्यः । अध्याहारज्ञापकस्तु प्रकरणभेदकल्पकस्तुशब्द एवेति भावः ।
ननु यदि प्रश्नाद्यध्याहारः तर्हि " अस्ति भगवः प्राणाद् भूयः" इति प्रश्नेन ‘“अस्ति प्राणाद् भूयः" इति प्रतिवचनाध्याहारः किं न स्यात् ? अध्याहारस्य निरङ्कुशत्वादित्यत आह- यत्रेति । यत्र वाक्ये यत्पदं विनाऽन्यत्रार्थान्तरेऽनवसरोऽर्थान्तरस्याघटना तत्र वाक्ये तदेव पदं प्रतिष्ठितम् । यत्र महावाक्ये यत्प्रमाणं वाक्यं वा विनाऽन्यत्रानवसरोऽ- र्थान्तरस्याघटना तत्र महावाक्ये तत्प्रमाणं वाक्यं वा प्रतिहार्यमिति वचनादत्रोक्तरीत्यैव प्रश्नाध्याहारः । अन्यथा तुशब्दानानुगुण्यादिति भावः । अस्मिन् प्रकरणे प्रश्नाद्यध्याहारः कार्य इत्यत्र सूत्रं च पठति- व्यतिहार इति ।। प्रश्नाद्यध्याहारः कर्तव्यः । एष तु वा अतिवदति' इति तुशब्देन विशिषन्ति हीत्यर्थः । उक्तमर्थं प्रमाणेन द्रढयन् सत्याद्यात्मान्त- प्रकरणानि तेनैव व्याचष्टे - अतिवादीति ॥ श्रुतौ सत्यवादिनः श्रवणात् कथं विष्णुवादीत्युक्तमित्यत आह- स इति ॥ कुत इत्यत आह- यदिति । यद्यस्मान्निर्दोषो नियामकस्तस्मात् सत्यः ।
खण्डार्थः
अत्र “अस्ति भगवः प्राणाद् भूयः" इति " प्राणाद् वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीतु ' ' इति “सत्यं वाव प्राणाद् भूयः” इति प्रश्नप्रतिवचनेऽध्याहार्ये । सत्यवेत्तुः फलमाह - एष तु वेति ॥ योऽधिकारी सन्निर्दोषश्चासौ यो नियामकश्चेति सत्यो विष्णुस्तेनाति- वदति । तमतिवदतीति यावत् । एष एव तु प्राणातिवाद्यपेक्षया विशेषेणातिवदति । अतीतमुत्तमं वस्तु वदतीत्यर्थः । तर्हि “सोऽहं त्वां प्रपन्नोऽहं यथा सत्येनातिवदानि तथा मां विनियोजय'' इति नारदोक्तः कुमार आह— सत्यं त्वेवेति ॥ तदतिवादित्वसिद्ध्यर्थं तु विशेषेण सत्यमेव विजिज्ञासितव्यमित्युक्तो नारदः " सत्यं भगवो विजिज्ञासे " इत्याह || १ ।।
।। इति षोडशः खण्डः ।।