तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः ..

उपनिषत् ( खण्ड: - १३)

(हृदयनामकपरमात्मनो द्वारपालकाः)

पूर्वद्वारपालक : सूर्य:

तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः स योऽस्य प्राङ्ग्सुषिः स प्राणस्तच्चक्षुः स आदित्यस्तदेतत् तेजोऽन्नाद्यमित्युपासीत तेजस्व्यन्नादो भवति य एवं वेद ॥ १ ॥

दक्षिणद्वारपालकश्चन्द्रः

अथ योऽस्य दक्षिणः सुषिः स व्यानस्तच्छ्रोत्रं स चन्द्रमास्तदेतच्छ्रीश्च यशश्चेत्युपासीत श्रीमान् यशस्वी भवति य एवं वेद ॥ २ ॥

पश्चिमद्वारपालको वह्निः

अथ योऽस्य प्रत्यङ्ग्सुषिः सोऽपानः सा वाक् सोऽग्निस्तदेतद् ब्रह्मवर्चसमन्नाद्यमित्युपासीत ब्रह्मवर्चस्व्यन्नादो भवति य एवं वेद ॥३॥

उत्तरद्वारपालक इन्द्रः

अथ योऽस्योदङ्ग् सुषिः स समानस्तन्मनः स पर्जन्यस्तदेत् कीर्तिश्च व्युष्टिश्चेत्युपासीत कीर्तिमान् व्युष्टिमान् भवति य एवं वेद ॥ ४ ॥

ऊर्ध्वद्वारपालकः प्रधानवायुः

अथ योऽस्योर्ध्वः सुषिः स उदानः स वायुः स आकाशस्तदेतदोजश्च महश्चेत्युपासीतौजस्वी महस्वान् भवति य एवं वेद ॥५॥

द्वारपालकोपासनायाः फलम्

ते वा एते पञ्चब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपाः स य एतानेवं पञ्च ब्रह्मपुरुषान् स्वर्गस्य लोकस्य द्वारपान् वेद ॥ ६ ॥

अस्य कुले वीरो जायते प्रतिपद्यते स्वर्गं लोकं य एतानेवं पञ्च ब्रह्मपुरुषान् स्वर्गस्य लोकस्य द्वारपान् वेद । अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिस्तस्यैषा दृष्टिः ॥ ७ ॥

यत्रैतदस्मिञ्च्छरीरे संस्पर्शेनोष्णिमानं विजानाति तस्यैषा श्रुतिर्यत्रैतत्कर्णावपिगृह्य निनदमिव नदथुरिवाग्नेरिव ज्वलत उपशृणोति तदेतद्दृष्टं च श्रुतं चेत्युपासीत चक्षुष्यः श्रुतो भवति य एवं वेद य एवं वेद ॥ ८ ॥ १३ ॥

भाष्यम्

'प्राणाभिमानी चक्षुश्च सूर्य एव ह्युदाहृतः । तेजोऽन्नाद्यभिमानी च प्राग्द्वाराधिपतिर्हरे: (२) ॥ दक्षिणाधिपतिस्सोमो व्यानः श्रोत्राभिमानवान् । यशोलावण्यरूपश्च पश्चिमद्वारपस्तथा ॥ वागपानात्मको वह्निर्ब्रह्मतेजोऽन्नदेवता ।

उत्तरद्वारपस्त्विन्द्रः समानो मनआत्मक: (२) ' कीर्त्यैश्चर्यात्मको नित्यमूर्ध्वद्वारप एव च । प्रधानवायुराकाशः सार्वज्ञादुन्नतेस्तथा ॥ उदान ऊर्जितत्वात् स ओजः पूर्णत्वतो महः । परस्य ब्रह्मणस्त्वेते पुरुषाः पञ्च कीर्तिताः ॥ द्वारा हृदये चैव विष्णुलोके च सर्वदा । (३)आन्तरद्वारपा ह्येते जयाद्या बाह्यतः स्मृताः ।

एवमेतानुपास्यैव तद्गुणांशांशभाग् भवेत् । विष्णुलोकं तथा गच्छेद् भवेदपि सुसन्ततिः ।।

पदार्थकौमुदी

"यदिदमस्मिन् पुरुषे हृदयम्" इति " योऽयमन्तः पुरुष आकाशः " इति हृत्पुरगत्वेन प्रकृतस्य परब्रह्मणः स्वस्वोपासनानुरूपफलप्रद- द्वारपालकत्वरूपो महिमा निरूप्यते - तस्य हवा इत्यादिना ॥ अत्र "प्राङ्सुषि: स प्राणस्तचक्षुः " " " दक्षिणः सुषिः स व्यानस्तच्छ्रोत्रं "प्रत्यसुषिः सोऽपानः सा वाक्" "उदङ्सुषिः स समानस्तन्मनः "

"ऊर्ध्वः सुषिः स उदानः स वायुः " इति वाक्यपञ्चकेन क्रमेण तत्तत्सुषि- प्राणव्यानापानसमानोदानानां चक्षुः श्रोत्रवाङ्मनसाकाशाभेदः आदित्य- चन्द्राग्रिपर्जन्यवाय्वभेदश्वोच्यत इति प्रतीयते । नच तत्सम्भवति । बाधात् । अतो यथावत् खण्डं प्रमाणेनैव व्याचक्षाणस्तावदादिवाक्यं व्याचष्टे प्राणेति ॥ प्राणः श्वासरूपजडवायुवृत्तिः । एवमुत्तरत्र व्यानादिपदेन तत्तन्नामकजडवायुवृत्तिरेव ग्राह्या । चक्षुस्तदभिमानी । "स योऽस्य प्राङ्सुषिः" इत्यस्य तात्पर्यम् - प्रागिति । अस्येत्यस्यार्थः - हरेरिति ॥ " अथ योऽस्य दक्षिणः सुषिः स व्यानः" इति द्वितीयं वाक्यं व्याचष्टेदक्षिणेति ॥ दक्षिणाधिपतिः दक्षिणद्वाराधिपतिः । श्रीरित्य- स्यार्थः लावण्यरूप इति ।अथ योऽस्य प्रत्यङ्" इत्यादितृतीयं वाक्यं व्याचष्टे पश्चिमेति ॥ वागपानात्मकः वागापानाभिमानी । ब्रह्मवर्चसमित्यस्यार्थःब्रह्मतेज इति । वेदाध्ययनलब्धं तेज इत्यर्थः । अन्नमन्नाद्यं देवताऽभिमानिनी । अथयोऽस्योदसुषिः " इति चतुर्थं वाक्यं व्याचष्टे उत्तरेति ।। पर्जन्यशब्दार्थः इन्द्र इति ॥ आत्मकोऽभिमानी । व्युष्टिशब्दार्थ : - ऐश्वर्येति ॥ कीर्त्यैश्वर्यात्मकत्वं न तदभिमानित्वमात्रं किन्तु तद्रूपत्वमपीति भावेन " नित्यम्'' इत्युक्तम् । मुक्तावप्यनुवर्तमानस्य स्वरूपत्वात् । अत एव तेजोन्नाद्येष्वपि एवमेव विवक्षितमिति ध्येयम् । अथ " योऽस्योर्ध्वः सुषिः" इत्यादि पञ्चमं वाक्यं व्याचष्टेऊर्ध्वति ॥ ऊर्ध्वद्वाराधिपश्च प्रधानवायुरेव । अत्रापि वायोराकाशोदानाद्यभिमानित्वेनैवाऽकाशादिशब्दवाच्यत्वमित्यभिप्राये- ण तान् शब्दांस्तस्मिन्निर्वक्ति - आकाश इत्यादिना ॥ एवमादि- त्यचन्द्राग्नीन्द्रेषु प्राणादिव्यानाद्यपानादिसमानादिशब्दा निर्वक्तव्याः ।।

‘“ते वा एते पञ्च ब्रह्मपुरुषाः " इति वाक्यं ब्रह्मणश्चतुर्मुखस्य पुरुषाः वेदपुरुष इति वाऽन्यथाप्रतीतेर्यथावद् व्याचष्टे - परस्येति । ब्रह्मशब्दस्य परब्रह्मणि मुख्यत्वान्मुख्यार्थस्यैव च ग्राह्यत्वादिति भावः । षष्ठ्या लब्धमर्थं दर्शयति- द्वारपा इति । स्वर्गस्य लोकस्य द्वारा इत्येतत्ता- त्पर्यमाह - विष्णुलोक इति । सर्वदैव । ननु विष्णुलोके जयादेरेव द्वारपत्वप्रसिद्ध्या कथमेतेषां द्वारपत्वमत आह- आन्तरेति || बाह्यतः द्वारा इति बुद्ध्या विविक्तमनुवर्तते ।

‘‘तेजस्व्यन्नादो भवति’” श्रीमान् यशस्वीभवतिब्रह्मवर्च- स्व्यन्नादो भवति’” कीर्तिमान् पुष्टिमान् भवतिओजस्वी महस्वान् भवति’” इति फलप्रतिपादकवाक्यपञ्चकस्य तत्तद्वारपसमानमेव तेजआदिकं तत्तदुपासकानामित्यन्यथाप्रतीतिनिरासाय तात्पर्यमाह - एवमेतानिति ॥ " स य एतानेवम्" इति वाक्यं प्रसिद्धस्वर्गलोक- प्राप्तिपरतानिरासाय व्याचष्टेविष्णुलोकमिति । स्वरूपभूतरमण- ।। ज्ञानात्मकत्वात् स्वर्गशब्दो विष्णुलोकपर इति भावः । शूरपुत्रकत्व- प्रतीतिनिरासाय वीर इत्यस्य तात्पर्यमाहसुसन्ततिरिति ।।

Load More