आशा वाव स्मराद् भूयस्याशेद्धो वै ..
उपनिषत् (खण्डः-१४)
स्मरणाभिमानिरुद्रादाशाभिमानिभारत्याः श्रेष्ठ्यकथनम्
आशा वाव स्मराद् भूयस्याशेद्धो वै स्मरो मन्त्रानधीते कर्माणि कुरुते पुत्रांश्च पशूंश्चेच्छत इमं च लोकममुं चेच्छत आशामुपास्स्वेति ॥ १ ॥
स य आशां ब्रह्मेत्युपास्ते आशायास्य सर्वे कामाः समृध्यन्त्यमोघा हास्याऽऽशिषो भवन्ति यावद् आशाया गतं तत्रास्य यथाकामचारो भवति य आशां ब्रह्मेत्युपास्तेऽस्ति भगवो आशाया भूय इति आशाया वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ २ ॥ १४ ॥
भाष्यम्
मुख्यवायुप्रिया तस्मात् परमैव सरस्वती । 'बन्धमुक्त्योः सर्वगुणैः सर्वदाऽऽशास्वरूपिणी ।शमित्यानन्द उद्दिष्ट आशा पूर्णसुखत्वतः ।
पदार्थकौमुदी
" आशा वाव स्मराद् भूयसी" इत्येतद्व्याचष्टे - मुख्येति ॥ मुख्यवायुर्ब्रह्मा'' । तस्मात् सदाशिवात् सरस्वत्येव । सर्वगुणैर्बन्धमुक्त्योः परमेत्यन्वयः । आशाशब्दोपपादनम् - आशास्वरूपिणीति || आशा- देवता च । आशाशब्दं तस्यां निर्वक्ति - शमिति ।
खण्डार्थः
आशा तदभिमानिनी सरस्वती स्मराद् भूयसी । कुतः ? आशयेद्धोऽभिवृद्धो वै स्मरो रुद्रो मन्त्रानधीते । कर्माणि कुरुते । पुत्रादिकं चेच्छते इच्छति । अस्योपासकस्य सर्वे कामाः काम्याः आशया समृद्ध्यन्ति ।। १ ।। २ ।।
।। इति चतुर्दशः खण्डः ॥