य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोऽविजिघत्सोऽपिपासः ..

उपनिषत् (खण्डः- ७)

इन्द्रविरोचनौ प्रति चतुर्मुख ब्रह्मकृत उपदेशः

य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोऽविजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः स सर्वांश्च लोकानाप्नोति स सर्वांश्च कामान् यस्तमात्मानमनुविद्य विजानातीति ह प्रजापतिरुवाच ॥ १ ॥

तद्धोभये देवासुराः अनुबुबुधिरे ते होचुर्हन्त तमात्मानमन्विच्छामो यमात्मानमन्विष्य सर्वांश्च लोकानाप्नोति सर्वांश्च कामानितीन्द्रो ह वै देवानामभिप्रवव्राज विरोचनोऽसुराणां तौ हासंविदानावेव समित्पाणी प्रजापतिसकाशमाजग्मतुः ॥ २ ॥

तौ ह द्वात्रिंशतं वर्षाणि प्रजापतौ ब्रह्मचर्यमूषतुस्तौ ह प्रजापतिरुवाच किमिच्छन्ताववास्तामिति तौ होचतुर्य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोऽविजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्यस्तमात्मानमनुविद्य विजानातीति ह भगवतो वचो हरन्तो वेदयन्ते तमिच्छन्ताववास्तमिति ॥ ३ ॥

तौ ह प्रजापतिरुवाच य एषोऽन्तरक्षिणि पुरुषो दृश्यते एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेत्यथ योऽयं भगवोऽप्सु परिख्यायते यश्चायमादर्शे कतम एष इत्येव उ एवैषु सर्वेष्वन्तेषु परिख्यायत इति होवाच ॥ ४ ॥ ७ ॥

भाष्यम्

'इन्द्रो विरोचनश्चैव श्रुत्वा तु (२) ब्रह्मणोऽक्षिगम् । विष्णुमानन्दरूपं तं सम्यग्ज्ञानविपर्ययौ ॥ आपतुस्तत्र देवेन्द्रो जानन्नपि विरोचनम् । मोहयन्ननुरूपाणि तस्य वाक्यान्युवाच ह । यथा विरोचनो नैव जानीयाद् विष्णुमञ्जसा(१) । स्ववाक्यं चानृतं न स्यात् तथा ब्रह्माऽप्युवाच ह ।। अयोग्या ह्यसुरा ज्ञाने वक्तव्यं नैव चानृतम् ( २ ) मच्छापादासुरो भावः प्रह्लादादेर्न तु स्वतः ।। अयं त्वासुर (३) एवातो वक्ष्याम्यस्योभयं यथा । इन्द्रस्तु शुद्धभावत्वात् पुनरायास्यति ध्रुवम् ॥ इत्यभिप्रायः प्रोक्तो ब्रह्मणाऽक्षिगतो हरिः । अयोग्यत्वात्तु तच्छ्रुत्वा प्रतिरूपं विरोचनः ।।

मत्वाऽस्वादर्शके चैव पप्रच्छ कतमस्त्विति । तत्रापि तु हरेर्भावं हृदि कृत्वा चतुर्मुखः । दृश्यते ह्येष एवेति तत्त्ववेदिविवक्षया ।। खण्डः ७ ॥

पदार्थकौमुदी

पूर्वं ब्रह्मचर्यं मोक्षसाधनमित्युक्तम् । तत्किमनुष्ठितमनुतिष्ठतां सर्वेषां मोक्षमापादयति केषाञ्चिदेवेति जिज्ञासायां योग्यानामेवेत्येतमर्थं प्रस्ताव्याऽ (४)ख्यायिकामाह य आत्मेत्याद्युत्तरखण्डषट्केन ॥ तत्रा- प्रतिपत्तिविप्रतिपत्तिनिरासाय खण्डषट्कं प्रमाणेनैव व्याचष्टे - इन्द्र इत्यादिना ॥ " आपतुः" इत्यन्तेनाऽ (१) द्यखण्डद्वयतात्पर्यमुक्तम् ।आनन्दरूपम्’” इत्यात्मशब्दव्याख्यानम् । आदेयं मातीति व्युत्पत्तेः ।

नन्विन्द्रः सम्यग् ज्ञानमवाप चेदक्षिगं श्रुत्वा योऽयमप्सु परिख्यायते " कतम एषः " इति कथं पप्रच्छ ? प्रतिबिम्बे परमात्मत्वाभावस्य निर्णीतत्वादित्यत आहतत्रेति । तत्त्वं जानन् तस्य मोहस्यानुरूपाणि वाक्यान्युवाच । तस्य विरोचनस्येति वा । नन्वेवं तर्हि ब्रह्मा वा कथम्एष उ एवैषु सर्वेष्वन्तेषु परिख्यायते " इति होवाच । विद्यार्थिनं प्रति विशिष्यैव वक्तव्यत्वेन सम्मुग्धोक्तेः प्रयोजनाभावादित्यत आह- यथेति । विरोचनोऽपि विष्णुं जानातु । स्ववाक्यं चानृतं भवतु । को दोष इत्यत आहअयोग्या इति । हिशब्दो यस्मादित्यर्थे । अत इति वक्ष्यमाणेन सम्बध्यते । ननु प्रह्लादादिरसुरो ज्ञानी दृष्टः । तत् कथंअयोग्या असुरा ज्ञानेइत्युक्तिरित्यत आह - मच्छापादिति ॥ आसुर एव । स्वत इति वर्तते । तेनैवशब्दसम्बन्धः । अस्य विरोचनस्य ज्ञानाप्राप्तिः स्ववाक्यानृतत्वाभावश्चेत्युभयं यथा स्यात् तथा वक्ष्यामी - त्यर्थः । तर्हीन्द्रस्यापि विपरीतज्ञानमेव स्यात् । उपदेशस्य सम्मुग्धत्वादित्यत आह - इन्द्रस्त्विति ॥ हरिः प्रोक्तः सम्मुग्धतया । यदि ब्रह्मणाऽक्षिगतो हरिरेवोक्तस्तर्हि कथं विरोचनः " अऽथ योऽयं भगवोऽप्सु परिख्यायते यश्चायमादर्शे कतम एषः " इति पप्रच्छेत्यत - स्तदभिप्रायमाहअयोग्यत्वादिति ।। तुशब्दोऽवधारणार्थः । तच्छ्रुत्वा " य एषोऽन्तरक्षणि" इत्युक्तं श्रुत्वा प्रतिरूपं ब्रह्मेति मत्त्वा भूयोदर्शनायाप्स्वादर्शके च कतम इत्येव पप्रच्छ ।एष उ एव सर्वेष्व- न्तेषु''इति परिहाराभिप्रायमाह - तत्रापीति । हरेरव्यक्तत्वाद् दृश्यत इति कथमुक्तमित्यत आह तत्त्ववेदीति । आहेति वक्ष्यमाणेनान्वयः सप्तमः खण्डः ।। ७॥

खण्डार्थः

आख्यायिकां वक्तुं भूमिकामारचयति श्रुतिः - य आत्मेत्यादिना ॥ व्याख्यातमेतत् । योऽधिकारी तमुक्तगुणमात्मानम् अनुविद्य शास्त्रा- चार्याद्यनुसारेण परोक्षतो ज्ञात्वा विजानात्यापरोक्ष्येण स सर्वान् लोकान् विष्णुलोकादीन् सर्वान् कामान् इच्छाविषयांश्च योग्यतानुसारेणाऽप्नोतीति प्रजापतिरुवाच । कदाचिद् दैवासुरसमक्षमिति शेषः ॥ १ ॥

तदनु तदनन्तरम् । तद् आत्मज्ञानं सर्वलोकादिसाधनमित्येतत् । उभये, के ते ? देवासुराः । बुबुधिरे बोद्धुमारेभिरे ह किल । कथम् ? यमात्मानमन्विष्य परोक्षापरोक्षज्ञाने सम्पाद्य सर्वान् लोकान् कामांश्च यथायोग्यमाप्नोति तमात्मानं वयमन्विष्यामो मीमांसया तत्परोक्षज्ञानादिकं सम्पादयिष्यामः । हन्तेत्यास्वादने । एतादृशफलसाधनमात्मज्ञानं को न संपादयेदिति । इत्यूचुर्ह किल । इन्द्रविरोचनौ प्रतीति शेषः । अत एवेन्द्रो देवानामर्थे तेषामुपदेशायेति यावत् । स्वयं तमात्मानं श्रोतुं प्रजापतिमभि प्रति प्रवत्राज प्रजापतिसकाशं जगाम । हवै प्रसिद्धमेतदित्यर्थः । एवमेव विरोचनोऽप्यसुराणामर्थे प्रजापतिमभि प्रवव्राज । एकगुरुकुलवासा - र्थिनोस्तयोर्गमनकाले परस्परं प्रीतिरभूत् किम् ? नेत्याह - ताविति ॥ ताविन्द्रविरोचनौ असंविदानावेव सम्प्रीतिरहितावेव अन्योन्यं संविदम- कुर्वाणाविति वा । ह आश्चर्यम् ।तस्मिन्नपि समये तयोः प्रीतिर्नाभूदिति ।विद्यार्थिताज्ञापनाय समित्पाणी सन्तौ आजग्मतुरागतवन्तौ॥२ ॥

गत्वा च तावुक्तगुणकात्मश्रवणाय द्वात्रिंशतं द्वात्रिंशत्सङ्ख्याकानि वर्षाणि ब्रह्मचर्यं गुह्येन्द्रियनियमनादिव्रतं चरन्ताबूषतुर्ह किल । तत्रैवेति शेषः । तौ एवं नियमेन स्वसमीपवासिनौ प्रजापतिरुवाच - किमिति ॥ किमिच्छन्तौ युवामत्रावास्तमिति । तावेवं पृष्टावूचतुर्ह । य आत्मेत्यादिः पूर्वोक्तप्रजापतिवाक्यानुवादः । इति एवंरूपं भगवतः पूज्यस्य तव वचो वाक्यं तदर्थभूतम् आत्मानं वेदयन्ते वेत्तुमिच्छन्ति । देवासुरा इति शेषः । अतस्तमात्मानं तेभ्य उपदेष्टुं त्वत्तो ज्ञातुमिच्छन्तावावामवास्तम् (१)अवात्स्व । गुरुभयात् पुरुषव्यत्यासेनोक्तिः । इति होचतुरित्यन्वयः || 3 ||

तावेवं प्रकटिताभिप्रायौ प्रजापतिरुवाच । स्वस्यानृतवक्तृतापरिहाराय विरोचनस्य सम्यग्ज्ञानाप्राप्तये चेन्द्रस्य शुद्धभावेन पुनरागमनं जानन् सम्मुग्धमेवोपदिदेश । हेत्याश्चर्ये । अयोग्यानां महान्तो न सम्यगुपदि - शन्तीति । किमिति । य एषः जागृदवस्थाप्रेरकोऽक्षण (२) अन्तः पुरुषः पूर्णषड्गुणो विश्वनामा दृश्यते दिव्यदृष्ट्या स एष आत्मा सर्वलोकादि- साधनज्ञानविषयत्वेन मयोक्तोऽपहतपाप्मत्वादिगुणक आत्मा इति होवाचेति पूर्वेणान्वयः । ननु कुतोऽस्य चक्षुरन्तःस्थस्य परमात्मत्वमित्यत आह - होवाचेत्यादि । एतत् चक्षुरन्तस्थम् अमृतं नित्यमुक्तं अभयं कुतोऽपि भयशून्यं ब्रह्म पूर्णगुणम् । इति होवाचेति चार्थे । एवं सोपपत्तिकमक्षिस्थभगवदभिप्रायेण ब्रह्मणोक्ते विरोचनोऽयोग्यत्वाद् य एषोऽन्तरक्षण पुरुषो देहप्रतिबिम्बो दृश्यतेऽस्माभिरेष आत्मा प्रागुक्ताप- हतपाप्मत्वादिगुणक आत्मेति ब्रह्मणोऽभिप्रायः इति मत्त्वेममभिप्रायं भूयोदर्शनेन निश्चेतुं इन्द्रसहित एव पुनरपि पृच्छति - अथेति ॥ इन्द्रो तस्य विपरीतज्ञानाय तदनुसारेणैव पप्रच्छेति ज्ञातव्यम् । अथेति प्रश्ने । भो भगवः पूज्य योऽयं पुरुषो देहप्रतिबिम्बोऽप्सु परिख्यायते । यश्चायमादर्शे एष देहप्रतिबिम्बः कतमः किमुक्तरीत्याऽपहतपाप्मत्वादिगुणकात्मैवोत तदन्यः इति विरोचनाभिप्रायः । इन्द्रस्य तु योऽयमबादिषु पुरुषः प्रतिविम्बादिप्रवर्तको दिव्यदृष्ट्या परिख्यायते एष कतमः किमक्षिस्थतया प्रकृतो हरिरेवोतान्य इत्यभिप्रायः । इत्यूचतुरिति शेषः । सम्मुग्ध- मेवोत्तरमाह एष इति । एषः जाग्रदवस्थाप्रेरकतया प्रकृतोऽक्षिस्थः उ एव उत्कृष्टो हरिरेवैषु पूर्वोक्तेष्वबादिष्वन्तेषु स्थानेषु प्रतिबिम्बादिप्रेरकतया परिख्यायते समन्ताद् ज्ञायते दिव्यदृष्टयेत्यभिप्रायेणोवाच प्रजापतिः । एवं हर्यभिप्रायेणोक्तेऽप्ययोग्यत्वाद् विरोचनः एष एव देहप्रतिबिम्ब एवैषु सर्वेष्वन्तेषु अबादिष्वपहतपाप्मत्वादिगुणकात्मतया परिख्यात इति मत्त्वा देहप्रतिबिम्ब एव सर्वत्रापहतपाप्मत्वादिगुणक आत्मेति ब्रह्माभिप्राय इति निश्चितवान् ॥४॥

|| इति सप्तमः खण्डः ।।