तस्य ह वा एतस्यैवं पश्यत एवं मन्वानस्यैवं विजानत ..
उपनिषत् (खण्डः-२६)
मुक्तो भगवत्कार्याणि साक्षात् पश्यति
तस्य ह वा एतस्यैवं पश्यत एवं मन्वानस्यैवं विजानत आत्मतः प्राण आत्मत आशाऽऽत्मतः स्मर आत्मत आकाश आत्मतस्तेज आत्मत आप आत्मत आविर्भावतिरोभावावात्मतोऽन्नमात्मतो बलमात्मतो विज्ञानमात्मतो ध्यानमात्मतश्चित्तमात्मतः सङ्कल्पः आत्मतो मन आत्मतो वागात्मतो नामात्मतो मन्त्रा आत्मतो कर्माण्यात्मत एवेदं सर्वमिति ॥१॥
तदेष श्लोकः ॥न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताम् । सर्वं ह पश्यः पश्यति सर्वमाप्नोति सर्वश इति ॥
स एकधा भवति त्रिधा भवति पञ्चधा सप्तधा नवधा चैव पुनश्चैकादशः स्मृतः । शतं च दश चैकं च सहस्राणि च विंशतिः ॥आहारशुद्धौ सत्त्वशुदि्धः सत्त्वशुद्धौ ध्रुवा स्मृतिः ॥स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षस्तस्मै मृदितकषायाय तमसः पारं दर्शयति देवर्षये नारदाय भगवान् सनत्कुमारस्तं स्कन्द इत्याचक्षते तं स्कन्द इत्याचक्षते ॥ २ ॥ २६ ॥
॥ इति श्रीमच्छान्दोग्योपनिषदि सप्तमोऽध्यायः ।।
भाष्यम्
‘आत्मतः प्राण आत्मत आशा' इत्यादि मुक्तः सन् प्राणादीनां सृष्ट्यादिकं पश्यतीत्यर्थः । 'सर्वं हि पश्य: (१) पश्यति' इति वाक्यशेषात् । पश्य इति द्रष्टा । ‘यदा पश्यः पश्यते रुग्मवर्णम्' इति श्रुतेः । 'भूमोपासनयोग्यस्तु साक्षाद् ब्रह्मैव मुख्यतः । स तद्विद्याबलेनैव विष्णुना रतिमाप्नुयात् ॥ तेनैव क्रीडते नित्यं स्त्रीरूपो मिथुनीभवेत् । तदानन्दः स एवास्य राजा भवति नापर: । पश्येच्च प्राणसृष्ट्याद्यं ये तदन्य उपासकाः । ते यथायोग्यमाप्स्यन्ति फलं मुक्तौ न संशयः ।।' इति परमतत्त्वे ।
पदार्थकौमुदी
" तस्य हवा एतस्यैवं पश्यत एवं मन्वानस्यैवं विजानत आत्मतः प्राणः” इत्यादिना मुक्तस्वरूपात् प्राणादिसृष्टिरुच्यत इत्यन्यथाप्रतीतिं निवारयत् तदनूद्य व्याचष्टे - आत्मत इति ॥ इत्यादिवाक्यस्येति शेषः । द्वितीयादिशब्देन स्थित्यादिसप्तकस्यापि सङ्ग्रहः । तस्य मुक्तस्य पश्यतः सत आत्मतः प्राणादिर्जायते (१) स्थीयत इत्याद्युक्तौ मुक्तस्तत् पश्यतीति लभ्यते । यथा चैत्रस्य पश्यतो मैत्र इदं करोतीत्युक्ते चैत्रस्तत् पश्यतीति लभ्यत इति भावः । स्वकृतव्याख्याने नियामकमाह - सर्वं हीति । सर्वं भगवत्कर्तृकं प्राणसृष्ट्यादिकमित्यर्थः । अप्रतीतेः पश्यत इति पदं व्याचष्टे - पश्य इतीति । पश्यतीति व्युत्पत्तेरिति भावः । पश्य इति पदेन द्रष्टा जीव उच्यत इत्यत्र श्रुतिमाह— यदेति । भूमोपास्तौ यः कोऽपि अधिकारी तस् सर्वस्याप्यात्मरतिरित्याद्युक्तं फलं भवतीति प्रतीतिवारणाय फलप्रकरणं प्रमाणेनैव व्याचष्टे - भूमेति ॥ " आत्मक्रीडः" इत्यस्यार्थः- तेनेवैति ॥ “आत्ममिथुनः’” इत्यस्यार्थः- मिथुनीभवेदिति ॥ तेनैवेत्यनुवर्तते । चतुर्मुखस्य पुरुषस्य कथं परमपुरुषेण मिथुनीभाव इत्यत उक्तम् -- स्त्रीरूप इति । तेनाऽनन्दो यस्यासौ तदानन्द इत्यात्मानन्द इत्यर्थः। स्वराडि-त्यस्यार्थः – स एवेति ।"आत्मतः प्राणः" इत्यादेरर्थमाह- पश्येच्चेति॥