अन्नं वाव बलाद् भूयस्तस्माद्यद्यपि ..

उपनिषत् (खण्डः -९)

बलाभिमानि प्रवहाद अन्नाभिमान्यनिरुद्ध उत्समः

अन्नं वाव बलाद् भूयस्तस्माद्यद्यपि दशरात्रीर्नाश्नीयाद्यदु ह जीवेऽथवाऽद्रष्टाऽश्रोताऽमन्ताऽबोद्धाऽकर्ताऽविज्ञाता भवत्यथान्नस्याशी द्रष्टा भवति श्रोता भवति मन्ता भवति बोद्धा भवति कर्ता भवति विज्ञाता भवत्यन्नमुपास्स्वेति ॥ १ ॥

स योऽन्नं ब्रह्मेत्युपास्तेऽन्नवतो वै स लोकान् पानवतोऽभिसिद्ध्यति यावत् अन्नस्य गतं तत्रास्य यथाकामचारो भवति योऽन्नं ब्रह्मेत्युपास्तेऽस्ति भगवोऽन्नात् भूय इति अन्नात् वाव भूयोस्तीति तन्मे भगवान् ब्रवीत्विति ॥ २ ॥ ९ ॥

भाष्यम्

............................तस्मादन्नदेवोऽनिरुद्धकः । अन्ननामाऽनुनादित्वात् .................... ॥.

पदार्थकौमुदी

"अन्नं वाव बलाद् भूयः" इत्येतद्व्याचष्टे - तस्मादिति ॥ अन्नदेव इत्यन्नशब्दोपपत्तेः । अनुनादित्वाद् युद्धादौ शत्रुभीषकशब्दवत्त्वादित्यर्थः ।। नवमः खण्डः ।।

खण्डार्थः

अन्नं बाह्यान्तरान्नाभिमान्यनिरुद्ध एव बलाद् भूयः । तस्मादन्नस्य भूयस्त्वाद् यदि दशरात्रीरपि नाश्नीयात् तदा यदु ह यद्यपि जीवेत् । अथाप्यद्रष्टृत्वाश्रोतृत्वादिमान् भवति । यदाऽन्नमश्नीयात् तदा द्रष्टृत्वा- दिमान् भवतीत्यन्नमेव भूय इत्यर्थः ॥ १ ॥ २ ॥

॥ इति नवमः खण्डः ।।