षोडशकलः सोम्य पुरुषः पञ्चदशाहानि माऽशीः ..

उपनिषत् (खण्ड- ७)

अन्नाभिमानिदेवतायत्तं मनः' इत्येतदनुभववेद्यम्

षोडशकलः सोम्य पुरुषः पञ्चदशाहानि माऽशीः काममपः पिबापोमयः प्राणो न पिबतो विच्छेत्स्यत इति ॥ १ ॥

स ह पञ्चदशाहानि नाशाथ हैनमुपससाद किं ब्रवीमि भो इत्यृचः सोम्य यजूंषि सामानीति स होवाच न वै मा प्रतिभान्ति भो इति ॥ २ ॥

तं होवाच यथा सोम्य महतोऽभ्याहितस्यैकोऽङ्गारः खद्योतमात्रः परिशिष्टः स्यात् तेन ततोऽपि न बहु दहेदेवं सोम्य ते षोडशानां कलानामेका कलाऽतिशिष्टा स्यात् तयैतर्हि वेदान्नानुभवस्याशानाथ मे विज्ञास्यसीति ॥ ३ ॥

स हाशाथ हैनमुपससाद तं ह यत्किञ्च पप्रच्छ सर्वं ह प्रतिपेदे ॥ ४ ॥ तं ह होवाच यथा सोम्य महतोऽभ्याहितस्यैकमङ्गारं खद्योतमात्रं परिशिष्टं तं तृणैरुपसमाधाय प्रज्वलयेत् तेन ततोऽपि बहु दहेत् ॥५॥

एवं सोम्य ते षोडशानां कलानामेका कलाऽतिशिष्टाऽभूत् साऽन्नेनोपसमाहिता प्राज्वालीत् तयैतर्हि वेदाननुभवस्यन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयो वागिति तद्धास्य विजज्ञाविति विजज्ञाविति ॥ ६ ॥ ७ ॥

खण्डार्थः

हे सोम्य पुरुषो जीवः षोडशकलः षोडशकलादेवताः यस्यासौ तथोक्तः । कलादेवताश्चान्यत्रोक्ताः । तन्मध्ये मनश्चैका कला । तत्र मनसोऽन्नमयत्वं प्रत्यक्षीकर्तुमिच्छसि चेत् तर्हि पञ्चदशसङ्ख्याकान्यहानि माशीरशनं मा कार्षीः । काममिच्छातोऽपः पिब । कुतः? यस्मादपो न पिबतः प्राणो विच्छेत्स्यते विच्छेदमापत्स्यते । तदपि कुतः ? यस्माद् "आपोमयः प्राणः" इत्युवाच ॥ १ ॥

स हैवं श्रुत्वा मनसोऽन्नमयत्वमनुभवारूढं कर्तुमिच्छन् पञ्चदशाहानि नाऽश अशनं न कृतवान् । अपः पीतवांश्च । अथ षोडशेऽहनि एनं पितरमुपससाद उपगम्योवाच । किं ब्रवीमि भो इति । इतर आह । ऋचः सोम्य यजूंषि सामान्यधीष्वेति । एवं पित्रोक्तः स होवाच | भो भगवन् मा माम् ऋगादीनि नैव प्रतिभान्ति मे मनसि नैव दृश्यन्ते । कुतो वदामीत्यर्थः ॥ २ ॥

तं पितोवाच । शृणु तत्र कारणम् । यथा सोम्य महतोऽग्नेरभ्याहितस्य क्रमादेकैकाङ्गारेणापचितस्यैकोऽङ्गारः खद्योतमात्रः परिशिष्टः स्यात् । तेन तावदेव खद्योतपरिमितमेव वस्तु दहेत् । ततः तत्परिमाणादीषद प बहु न दहेत् । तृणादिसहकारिविरहात् । एवं सोम्य ते तव षोडशानां कलानां मध्ये एका कला प्राणरूपाऽतिशिष्टा स्यात् । इतराः शान्ताः ततस्तया खद्योतमात्राङ्गारतुल्यकलयैतर्हीदानीं चलस्येव केवलं नतु मनसा वेदादनुभवसि । अन्नाख्यसहकारिविरहात् । ततः कुतो वदसि । एवमन्नव्यतिरेके मनोव्यापारव्यतिरेकमुक्त्वा तदन्वये तदन्वयमाह- अशानेति || भुङ्ख तावत् । अथ भोजनानन्तरं मे मम सकाशाद् यच्छ्रुतं तत्सर्वं विजिज्ञास्यसीत्युवाच || ||

एवमुक्तः स पुत्रो हाऽश भुक्तवान् ह । अथैनं पितरमुपससाद ह । तमुपागतं पुत्रं यत्किञ्च पप्रच्छ पिता तत्सर्वम् ऋगादि प्रतिपेदे ह मनसा वाचा चोवाच पुत्रः ॥ ४ ॥

तं होवाच पुनः पिता । यथा सोम्य महतोऽभ्याहितस्याग्नेरेकमङ्गारं खद्योतमात्रं परिशिष्टं तं तृणैरुपसमाधाय प्रज्वलयेत् । तेन ततोऽपि बहु दहेत् । सहकारिलाभात् ।। ५ ।।

एवं सोम्य ते तव षोडशानां कलानां मध्ये एका कलाऽतिशिष्टाऽ- भूत् । साऽन्नेनोपसमाहिता प्राज्वालीत् तयाऽन्नोपचितया कलयैतदानीं वेदाननुभवसि मनसा वाचा च वदसि । एवं व्यावृत्त्यनुवृत्तिभ्यामन्नमयत्वं मनसः सिद्धमित्युपसंहरति - अन्नमयं हि सोम्य मन इति ॥ तस्मादिति ग्राह्यम् । यथैतन्मनसोऽन्नमयत्वमन्वयव्यतिरेकेण सिद्धं तथा प्राणवाचो- रप्यप्तेजोमयत्वं प्रतिपत्तव्यमित्याशयेनाऽह - आपोमय इति । अत्रस एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्माऽतत्त्वमसि श्वेतकेतो " इति वाक्यं ग्राह्यम् । स्तम्भनिरासोपयोगात् । व्याख्यानं तु भविष्यति । तु इति पित्रोपदिष्टोऽयं श्वेतकेतुर्ह विगलिताभेदमोहो यदुपदिष्टं भगवत्प्राधान्यादिकं तद्भा अबाधितं विजज्ञौ बुबोधेति श्रुतिवाक्यम् । अस्येति कर्तरि षष्ठी । इतिशब्दः समाप्त्यर्थः । सर्वस्यापि विद्यार्थस्य प्रामाणिकत्वावधारणार्थं द्विर्वचनम् । अत्र तदेष श्लोकः ।पञ्चेन्द्रियस्य पुरुषस्य यदेव स्यादनावृतम् । तदस्य प्रज्ञा स्रवति दृतेः पात्रादिवोदकम् । दृतेः पादादिवोदकम् ।।'' इति काचित्कः पाठः । तस्यायमर्थः । तत्तत्र मनसोऽन्नमयत्वे अयं श्लोको भवति । तमुदाहरति-- पञ्चेन्द्रियस्येति ।। चक्षुरादिपञ्चेन्द्रियवतोऽपि पुरुषस्य मनो यदेव यदैवानावृतम् अनेनेति शेषः । तथाचान्नावृतं न स्यात् । तत्तदाऽस्य प्रज्ञा स्रवति । किमिव । दृतेः पादादुदकमिवेति ।। ६ ।।

॥ इति सप्तमः खण्डः ॥