त्रयो धर्मस्कन्धाः

उपनिषत् (खण्डः -२३)

धर्मब्रह्मज्ञानयोः फलनिरूपणम्

त्रयो धर्मस्कन्धाः । यज्ञोऽध्ययनं दानमिति प्रथमस्तप एव द्वितीयो ब्रह्मचार्याचार्यकुलवासी तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन् सर्व एते पुण्यलोका भवन्ति ब्रह्मसंस्थोऽमृतत्वमेति ॥ १ ॥

भाष्यम्

सर्वधर्मैः पुण्यलोको ब्रह्मज्ञानाद् विमुच्यते ।

पदार्थकौमुदी

पूर्वं व्यस्तसमस्तसामोपासकानां स्वर्गमोक्षौ फलत्वेनोक्तौ । तत्र केषां किमिति न ज्ञायते । अतस्तद्विवेकेनाऽह – “त्रयो धर्मस्कन्धाः " इत्यादिना ।।

मायावादिमतनिरासः

अत्राऽहुर्मायावादिनःयज्ञादिमान् प्रथमो गृहस्थस्तापसो द्वितीयो वनस्थस्तृतीयो ब्रह्मचारी नैष्ठिकः सर्व एते पुण्यलोका भवन्ति । शिष्टस्त्वनुक्तः परिव्राट् ब्रह्मसंस्थोऽमृतत्वं पुण्यलोकविलक्षणं मोक्ष- मेतीति । तन्मतनिरासाय प्रमाणेनैव तात्पर्यमाहसर्वेति ।। सर्वेषामा- श्रमिणां धर्मैरित्यर्थः । यतिधर्मस्यापि पुण्यलोकसाधनत्वमस्ति । ब्रह्मज्ञानं चेत् सर्वेषामपि मोक्षो भवेत्।एवं च त्रयाणामेव पुण्यलोको यतेरेव तद्विलक्षणो मोक्ष इत्ययुक्तमिति भावः ।

Load More